摩诃婆罗多 · 章 1.69
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.69.1
त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् ।
अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा ॥ १.६९.१ ॥
婆罗门啊,我已从您那里完整听闻了诸天、檀那婆、罗刹、乾达婆与阿普萨拉斯的分身降世之事。
1.69.2
इमं तु भूय इच्छामि कुरूणां वंशमादितः ।
कथ्यमानं त्वया विप्र विप्रर्षिगणसन्निधौ ॥ १.६९.२ ॥
然而婆罗门啊,我愿您在婆罗门仙人之众面前,从头再次讲述这古鲁族的世系。
1.69.3
धर्मार्थकामसहितं राजर्षीणां प्रकीर्तितम् ।
पवित्रं कीर्त्यमानं मे निबोधेदं मनीषिणाम् ॥ १.६९.३ ॥
此圣洁之传,由王仙所颂扬,兼具法、利与欲。今我诵之,诸位智者,请听。
1.69.4
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च ।
भरतस्य कुरोः पूरोराजमीढस्य चानघ ॥ १.६९.४ ॥
无罪者啊,乃是生主、达刹、摩奴、毗婆沙陀、婆罗多、俱卢、补卢与罗阇弥陀之世系。
1.69.5
यादवानामिमं वंशं कौरवाणां च सर्वशः ।
तथैव भरतानां च पुण्यं स्वस्त्ययनं महत् ॥ १.६९.५ ॥
此乃耶达婆之世系,俱卢之全族,以及婆罗多之世系,皆神圣而大吉祥。
1.69.6
धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ।
तेजोभिरुदिताः सर्वे महर्षिसमतेजसः ॥ १.६९.६ ॥
无罪者啊,我将为你讲述此世系,它带来福泽、名声与长寿。他们皆以光辉而生,其光辉堪比大仙。
1.69.7
दश प्राचेतसः पुत्राः सन्तः पुण्यजनाः स्मृताः ।
मुखजेनाग्निना यैस्ते पूर्वं दग्धा महौजसः ॥ १.६९.७ ॥
普拉切塔斯的十个儿子被称为普尼亚迦那,他们曾被从口中生出的火焰烧毁,那些人力量强大。
1.69.8
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः ।
संभूताः पुरुषव्याघ्र स हि लोकपितामहः ॥ १.६९.८ ॥
从他们那里,通过普拉切塔斯,生出了达刹;从达刹生出这些众生。人中之虎啊,他确是诸世界的始祖。
1.69.9
वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः ।
आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ॥ १.६९.९ ॥
与维里尼结合后,普拉切塔斯之子圣人达刹生出了与自己相等、持守严格誓愿的一千个儿子。
1.69.10
सहस्रसङ्ख्यानसंभूतान्दक्षपुत्रांश्च नारदः ।
मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् ॥ १.६९.१० ॥
那罗陀把освобождение与数论的至上智慧教给了达刹的那数千个儿子。
1.69.11
नाशार्थं योजयामास दिगन्तज्ञानकर्मसु ।
ततः पञ्चाशतं कन्या पुत्रिका अभिसन्दधे।
प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥ १.६९.११ ॥
他把他们投入了毁灭之中,即达到四方尽头的知识与行为。然后,万物之主达刹欲创造众生,闻者耶阇耶,生出了五十个女儿。
1.69.12
ददौ दश स धर्माय कश्यपाय त्रयोदश ।
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ १.६९.१२ ॥
他把十个给了法,十三个给了迦叶波;把二十七个作为时间之眼而联结的,给了月亮。
1.69.13
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा ।
मारीचः कश्यपस्त्वस्यामादित्यान्समजीजनत् ॥ १.६९.१३ ॥
十三位妻子中,达刹的女儿最为殊胜,摩利支之子迦叶由她生下了阿底提耶诸神。
1.69.14
इन्द्रादीन्वीर्यसंपन्नान्विवस्वन्तमथापि च ।
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः ॥ १.६९.१४ ॥
他生下了英勇的因陀罗等神,也生下了毗婆娑特;毗婆娑特之子、主宰者阎摩·毗婆娑多诞生了。
1.69.15
मार्ताण्डस्य यमी चापि सुता राजन्नजायत ।
मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः ॥ १.६९.१५ ॥
大王,摩尔坦陀之女阎美也诞生了;摩尔坦陀之子、智慧的主宰摩奴也诞生了。
1.69.16
धर्मात्मा स मनुर्धीमान्यत्र वंशः प्रतिष्ठितः ।
मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ॥ १.६९.१६ ॥
那位正法之心、智慧的摩奴,从他建立了家族;摩奴之家族从此被称为人类之族,因而闻名。
1.69.17
ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ।
ततोऽभवन्महाराज ब्रह्म क्षत्रेण सङ्गतम् ॥ १.६९.१७ ॥
从摩奴生出了婆罗门、刹帝利等人类;然后,大王啊,婆罗门的力量与刹帝利的力量结合在一起。
1.69.18
ब्राह्मणा मानवास्तेषां साङ्गं वेदमदारयन् ।
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च ॥ १.६९.१८ ॥
其中,摩奴族的婆罗门将附支齐全的吠陀加以分支;还有吠努、德律史努、那利殊延多、那婆伽与甘蔗王。
1.69.19
कारूषमथ शर्यातिं तथा चैवाष्टमीमिलाम् ।
पृष्टध्रं नवमं प्राहुः क्षत्रधर्मपरायणम् ॥ १.६९.१९ ॥
迦卢沙、其次沙利雅提,同样第八为伊罗,第九为专注刹帝利之法的普利什陀罗,人们如此说。
1.69.20
नाभागारिष्टदशमान्मनोः पुत्रान्प्रचक्षते ।
पञ्चाशत्तु मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ ॥ १.६९.२० ॥
那婆伽与阿利史多,第十位,被认作摩奴之子。摩奴有五十个儿子,其他人也同样在大地上出生。
1.69.21
अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ।
पुरूरवास्ततो विद्वानिलायां समपद्यत ॥ १.६९.२१ ॥
因彼此分裂,他们全都灭亡了,这是我们所听闻的。之后,智者普鲁罗婆从伊罗所生。
1.69.22
सा वै तस्याभवन्माता पिता चैवेति नः श्रुतम् ।
त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः ॥ १.६९.२२ ॥
我们听说,她正是他的母亲和父亲。普鲁罗婆享有海中的十三座岛屿。
1.69.23
अमानुषैर्वृतः सत्वैर्मानुषः सन्महायशाः ।
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः ॥ १.६९.२३ ॥
普鲁罗婆虽是人类,却被非人之众环绕,大名远扬;他因力量的骄狂,与婆罗门发生了争端。
1.69.24
जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ।
सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह ॥ १.६९.२४ ॥
婆罗门哭喊之时,他仍夺取了他们的宝物。大王啊,那时,萨那特鸠摩罗从梵界而来,走近了他。
1.69.25
अनुदर्शं ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ।
ततो महर्षिभिः क्रुद्धैः सद्यः शप्तो व्यनश्यत ॥ १.६९.२५ ॥
随后他依次观看,却一件也不接受。于是盛怒的大仙立即诅咒他,他便灭亡了。
1.69.26
लोभान्वितो बलमदान्नष्टसंज्ञो नराधिपः ।
स हि गन्धर्वलोकस्थानुर्वश्या सहितो विराट् ॥ १.६९.२६ ॥
那位被贪欲充满、因力量的狂醉而失去理智的国王,曾与乌尔瓦希一同居住于乾闼婆世界——那位王者毗罗阇。
1.69.27
आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ।
षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः ॥ १.६९.२७ ॥
为了祭祀,他如法地取来了依规定的三种圣火。他生下六子:伊罗之子阿由,智慧的阿摩婆苏等。
1.69.28
दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः ।
नहुषं वृद्धशर्माणं रजिं गयमनेनसम् ॥ १.६९.२८ ॥
坚寿、林寿和百寿是乌尔瓦希之子;还有那诃沙、增长铠、罗耆、伽耶与阿涅那斯。
1.69.29
स्वर्भानवी सुतानेतानायोः पुत्रान्प्रचक्षते ।
आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः ॥ १.६९.२९ ॥
这些是斯瓦尔跋努之女所生之子,被称为阿由之子。阿由之子是那诃沙,智慧而有真正的勇力。
1.69.30
राज्यं शशास सुमहद्धर्मेण पृथिवीपते ।
पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् ॥ १.६९.३० ॥
大地之主啊,他以法治理广大的王国,统领祖先、诸天、仙人、婆罗门、乾闼婆、龙蛇与罗刹。
1.69.31
नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ।
स हत्वा दस्युसंघातानृषीन्करमदापयत् ॥ १.६९.३१ ॥
那呼沙保护婆罗门、刹帝利和平民。他杀死盗匪群,使仙人们向他纳贡。
1.69.32
पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ।
कारयामास चेन्द्रत्वमभिभूय दिवौकसः ॥ १.६९.३२ ॥
威力强大的那呼沙让他们像牲畜一样把他驮在背上。他征服了天界居民,使他们替他履行因陀罗的职责。
1.69.33
तेजसा तपसा चैव विक्रमेणौजसा तथा ।
विश्लिष्टो नहुषः शप्तः सद्यो ह्यजगरोऽभवत्।
यतिं ययातिं संयातिमायातिमयतिं ध्रुवम् ॥ १.६९.३३ ॥
那呼沙失去了光辉、苦行、勇力和活力,被诅咒后立刻变成了巨蟒。亚提、耶耶提、桑耶提、阿耶提、阿耶提与德鲁瓦。
1.69.34
नहुषो जनयामास षट् सुतान्प्रियवादिनः ।
यतिस्तु योगमास्थाय ब्रह्मीभूतोऽभवन्मुनिः ॥ १.६९.३४ ॥
那呼沙生了六个说话悦耳的儿子。而亚提则修习瑜伽,成为与梵合一的圣人。
1.69.35
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः ।
स पालयामास महीमीजे च बहुभिर्मखैः ॥ १.६९.३५ ॥
那呼沙之子耶耶提是真正勇武的君主。他统治大地,并以众多祭祀崇拜神灵。
1.69.36
अतिभक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा ।
अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ॥ १.६९.३६ ॥
不败的耶耶提始终克己自持,极其虔诚地敬奉祖先与诸神,并恩泽所有的臣民。
1.69.37
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः ।
देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥ १.६९.३७ ॥
他的儿子们是伟大的弓箭手,具备一切美德,大王啊,他们由提婆雅尼和舍尔弥什塔所生。
1.69.38
देवयान्यामजायेतां यदुस्तुर्वसुरेव च ।
द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां च जज्ञिरे ॥ १.६९.३८ ॥
提婆雅尼生了雅度与都尔婆苏,舍尔弥什塔生了德鲁希尤、阿奴与补卢。
1.69.39
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् ।
जरामार्च्छन्महाघोरां नाहुषो रूपनाशिनीम् ॥ १.६९.३९ ॥
大王啊,那位那呼沙之子依法守护臣民无数岁月,之后,摧毁容颜的可怕衰老降临到他身上。
1.69.40
जराऽभिभूतः पुत्रान्स राजा वचनमब्रवीत् ।
यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ॥ १.६९.४० ॥
那被衰老所压倒的国王对他的儿子们——雅度、补卢、都尔婆苏、德鲁希尤和阿奴——说了这些话,婆罗多之子啊!
1.69.41
यौवनेन चरन्कामान्युवा युवतिभिः सह ।
बिहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ॥ १.६९.४१ ॥
我想凭借青春享受欲乐,与年轻女子一同如少年般嬉游。儿子们,帮助我吧。
1.69.42
तं पुत्रो दैवयानेयः पूर्वजो वाक्यमब्रवीत् ।
किं कार्यं भवतः कार्यमस्माकं यौवनेन ते ॥ १.६९.४२ ॥
于是提婆雅尼的长子对他说:“您有何事?您的青春与我们何干?”
1.69.43
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् ।
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥ १.६९.४३ ॥
耶耶提对他说:“请接受我的衰老;我将以你的青春享受欲乐。”
1.69.44
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः ।
कामार्थः परिहीणोऽयं तप्येयं तेन पुत्रकाः ॥ १.६९.४४ ॥
“因为长期举行祭祀,我遭到了仙人乌莎那斯的诅咒,欲望的满足有所缺失;因此,我的孩子们,我正在受苦。”
1.69.45
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः ।
अहं तन्वाऽभिनवया युवा काममवाप्नुयाम् ॥ १.६९.४५ ॥
“请你们之中只一人以我的这身躯统治王国;而我将以新的身躯变得年轻,获得我的欲望。”
1.69.46
ते न तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् ।
तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥ १.६९.४६ ॥
以耶杜为首的诸子没有接受他的衰老;这时,最年幼、真正勇武的普鲁对他说。
1.69.47
राजंश्चराभिनवया तन्वा यौवनगोचरः ।
अहं जरां समादाय राज्ये स्थास्यामि तेज्ञया ॥ १.६९.४७ ॥
“大王,请以新的身躯享受青春;遵照您的命令,我将承担您的衰老,留在王国之中。”
1.69.48
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् ।
संचारयामास जरां तदा पुत्रे महात्मनि ॥ १.६९.४८ ॥
国王仙人听了这话,凭借苦行的力量,当即将自己的衰老转移到了那位高尚之子身上。
1.69.49
पौरवेणाथ वयसा राजा यौवनमास्थितः ।
यायातेनापि वयसा राज्यं पूरुरकारयत् ॥ १.६९.४९ ॥
于是国王从波鲁之子那里取得了青春;而耶雅提在年老时,也让普鲁代为治理王国。
1.69.50
ततो वर्षसहस्राणि ययातिरपराजितः ।
स्थितः स नृपशार्दूलः शार्दूलसमविक्रमः ॥ १.६९.५० ॥
此后数千年,不败的耶雅提留存于世——那位王中之虎,勇武如虎。
1.69.51
ययातिरपि पत्नीभ्यां दीर्घकालं विहृत्य च ।
विश्वाच्या सहितो रेमे पुनश्चैत्ररथे वने ॥ १.६९.५१ ॥
耶雅提与两位妻子久享欢乐之后,又与毗首婆一同在茶玛罗陀林中尽情嬉戏。
1.69.52
नाध्यगच्छत्तदा तृप्तिं कामानां स महायशाः ।
अवेत्य मनसा राजन्निमां गाथां तदा जगौ ॥ १.६९.५२ ॥
那位大名之人当时在欲望中未得满足;大王啊,他心中领悟此理后,便唱起了这首偈颂。
1.69.53
न जातु कामः कामानामुपभोगेन शाम्यति ।
इविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १.६९.५३ ॥
欲望永远不会因享受欲望而平息;如同火遇酥油,只会愈加旺盛。
1.69.54
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥ १.६९.५४ ॥
大地上所有的稻谷、大麦、黄金、牲畜与女子,纵使全部归于一人也不足够;如此思量,人应当获得平静。
1.69.55
यदा न कुरुते पापं सर्वभूतेषु कर्हिचित् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ १.६९.५५ ॥
当人以行为、意念与言语,从不对任何众生作恶时,他便证得梵。
1.69.56
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥ १.६९.५६ ॥
当他不惧怕,他人也不惧怕他,当他既不欲求也不憎恶时,他便证得梵。
1.69.57
इत्यवेक्ष्य महाप्राज्ञः कामानां फल्गुतां नृप ।
समाधाय मनो बुद्ध्या प्रत्यगृह्णाज्जरां सुतात् ॥ १.६९.५७ ॥
大王,那位大智者如是观察欲望的空虚,以智慧收摄心念,便从儿子那里收回了衰老。
1.69.58
ततो वर्षसहस्रान्ते ययातिरपराजितः ।
दत्वा च यौवनं राजा पूरुं राज्येऽभिषिच्य च।
अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥ १.६९.५८ ॥
此后千年,未被征服的国王耶雅提返还了青春,立普鲁为王,而对欲望仍未满足,便对儿子普鲁说道。
1.69.59
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः ।
पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ॥ १.६९.५९ ॥
因你,我有了继承人;你是延续我血脉的儿子。此族将被称为普鲁族,你的名声将传遍世界。
1.69.60
ततः स नृपशार्दूल पूरुं राज्येऽभिषिच्य च ।
ततः सुचरितं कृत्वा भृगुतुङ्गे महातपाः ॥ १.६९.६० ॥
随后,这位王中猛虎立普鲁为王,过着端正的生活,于跋古山顶成为大苦行者。
1.69.61
कालेन महता पश्चात्कालधर्ममुपेयिवान् ।
कारयित्वा त्वनशनं सदारः स्वर्गमाप्तवान् ॥ १.६९.६१ ॥
经过很长时间,他迎来了死亡的法则;他绝食之后,与妻子一同升上了天界。