摩诃婆罗多 · 章 1.70
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.70.1
ययातिः पूर्वजोऽस्माकं दशमो यः प्रजापतेः ।
कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥ १.७०.१ ॥
我们的先祖、从生主算起的第十代祖先耶耶提,是如何得到极难获得的究罗之女的?
1.70.2
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
आनुपूर्व्या च मे शंस राज्ञो वंशकरान्पृथक् ॥ १.७०.२ ॥
苦行之宝啊,我愿详细听闻此事。请按次序,逐一告诉我诸王族的开创者。
1.70.3
ययातिरासीन्नृपतिर्देवराजसमद्युतिः ।
तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ॥ १.७०.३ ॥
有一位名叫耶耶提的国王,光辉如诸神之王因陀罗。究罗与毗湿波婆尔文如从前一样,选他为自己的人。
1.70.4
तत्तेऽहं संप्रवक्ष्यामि पृच्छते जनमेजय ।
देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥ १.७०.४ ॥
嗟乎,遮那弥阳阇,我将对你这位发问者完整讲述:提婆耶尼与那呼沙之子耶耶提的结合。
1.70.5
सुराणामसुराणां च समजायत वै मिथः ।
ऐश्वर्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे ॥ १.७०.५ ॥
诸天与阿修罗之间,为了统治包括动与不动一切的三界,彼此产生了争斗。
1.70.6
जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम् ।
पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे ॥ १.७०.६ ॥
于是,诸天渴望胜利,为祭祀选定仙人安吉罗娑为祭司;另一方则选定诗人乌尚那斯。
1.70.7
ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् ।
तत्र देवा निजघ्नुर्यान्दानवान्युधि संगतान् ॥ १.७०.७ ॥
这两位婆罗门始终彼此激烈竞争。那里,诸神杀死了聚集在战场上的檀那婆们。
1.70.8
तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् ।
ततस्ते पुनरुत्थाय योधयांचक्रिरे सुरान् ॥ १.७०.८ ॥
凭借其学识之力,迦婆(室建陀)再次使他们复活。于是他们重新站起,与诸神交战。
1.70.9
असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि ।
न तान्सञ्जीवयामास बृहस्पतिरुदारधीः ॥ १.७०.९ ॥
然而阿修罗在战场前线所杀的诸神,心胸宽广的布利哈斯帕蒂却不能使他们复活。
1.70.10
न हि वेद स तां विद्यां यां काव्योवेत्ति वीर्यवान् ।
सञ्जीविनीं ततो देवा विषादमगमन्परम् ॥ १.७०.१० ॥
布利哈斯帕蒂并不知晓那位强大的迦婆(室建陀)所知的死而复生之术。于是诸神陷入深深的忧愁。
1.70.11
ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा ।
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥ १.७०.११ ॥
于是,惊恐不安的诸神离开了乌until那斯之子迦婆(室建陀),走近布利哈斯帕蒂的长子迦恰,对他说道。
1.70.12
भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् ।
या सा विद्या निवसति ब्राह्मणेऽमिततेजसि ॥ १.७०.१२ ॥
请眷顾我们这些侍奉你的人,给予我们最上的帮助。那驻留在无量光辉的婆罗门身上的学问,请赐予我们。
1.70.13
शुक्रे तामाहर क्षिप्रं भागभाङ्गो भविष्यसि ।
वृषपर्वसमीपे हि शक्यो द्रष्टुं त्वया द्विजः ॥ १.७०.१३ ॥
速从输罗那里取来那门学问,你便会成为分享者。就在跋利波婆的近旁,你确实可以见到那位再生者。
1.70.14
रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ।
तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् ॥ १.७०.१४ ॥
他在那里保护檀那婆,不保护非檀那婆。你年轻力壮,能够取悦那位智者。
1.70.15
देवयानीं च दयितां सुतां तस्य महात्मनः ।
त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते ॥ १.७०.१५ ॥
唯有你能够取悦那位大智者心爱的女儿提婆耶尼,别无他人。
1.70.16
शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च ।
देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥ १.७०.१६ ॥
凭借品行、谦恭、温和、善行与克制,若提婆耶尼感到满意,你必定能够获得那门学问。
1.70.17
तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः ।
तदाऽभिपूजितो देवैः समीपे वृषपर्वणः ॥ १.७०.१७ ॥
说了一声「就这样吧」,布利诃波提之子迦查便动身了;受到诸天的礼敬后,他前往跋利波婆的近旁。
1.70.18
स गत्वा त्वरितो राजन्देवैः संप्रेषितः कचः ।
असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह ॥ १.७०.१८ ॥
大王啊,被诸天派遣的迦查迅速来到阿修罗之主的城中,见到输罗后便说了这番话。
1.70.19
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः ।
नाम्ना कच इति ख्यातं शिष्यं गृह्णात् मां भवान् ॥ १.७०.१९ ॥
“我是仙人安吉罗娑之孙,婆利诃娑帝亲生之子,名为迦恰。请您收我为弟子。”
1.70.20
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ ।
अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् ॥ १.७०.२० ॥
“婆罗门啊,我愿在您门下修持至上的梵行;请允许我这样做一千年。”
1.70.21
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः ।
अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ॥ १.७०.२१ ॥
“迦恰,欢迎你;我接受你的请求。你值得尊敬,我将敬待你;愿婆利诃娑帝也受到尊重。”
1.70.22
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् ।
आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ॥ १.७०.२२ ॥
迦恰说“就这样吧”,便接受了那誓约,那是迦维之子、乌舍那斯,即室俱罗亲自所授。
1.70.23
व्रतस्य प्राप्तकालं स यथोक्तं प्रत्यगृह्णत ।
आराधयन्नुपाध्यायं देवयानीं च भारत ॥ १.७०.२३ ॥
婆罗多之子啊,当誓约的恰当时机到来时,他依照所说接受了它,并侍奉老师与提婆耶尼。
1.70.24
नित्यमाराधयिष्यंस्तां युवा यौवनगां मुनिः ।
गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ॥ १.७०.२४ ॥
这位年轻的仙人,一心想要常常侍奉她,便以歌唱、舞蹈和奏乐来取悦正值青春盛年的提婆耶尼。
1.70.25
स शीलयन्देवयानीं कन्यां संप्राप्तयौवनाम् ।
पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत ॥ १.७०.२५ ॥
他侍奉已至青春的少女天护(Devayānī),以花果和差事使她欢悦,婆罗多啊。
1.70.26
देवयान्यपि तं विप्रं नियमव्रतधारिणम् ।
गायन्ती च ललन्ती च रहः पर्यचरत्तथा ॥ १.७०.२६ ॥
天护也唱歌嬉戏,私下如此侍奉那位持守戒律与誓愿的婆罗门。
1.70.27
गायन्तं चैव शुल्कं च दातारं प्रियवादिनम् ।
नार्यो नरं कामयन्ते रूपिणं स्रग्विणं तथा ॥ १.७०.२७ ॥
女子所爱慕的男子,是歌唱者、慷慨者、言语悦人、容貌俊美、戴着花环的。
1.70.28
पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम् ।
तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् ॥ १.७०.२८ ॥
如此,迦恰(Kaca)持守誓愿,在那里度过了五百年。于是檀那婆得知此事,便去对付迦恰。
1.70.29
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः ।
जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च ॥ १.७०.२९ ॥
他们见他独自在林中僻静处看护牛群,便怀着愤怒,出于对毗诃娑帕提的仇恨,也为守护知识,将他杀害了。
1.70.30
हत्वा शालावृकेभ्यश्च प्रायच्छँल्लवशः कृतम् ।
ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् ॥ १.७०.३० ॥
他们杀了他,将他切成碎块,喂给豺狼。然后,牛群没有了牧人,自己回到了圈栏。
1.70.31
सा दृष्ट्वा रहिता गाश्च कचेनाभ्यागता वनात् ।
उवाच वचनं काले देवयान्यथ भारत ॥ १.७०.३१ ॥
德瓦雅妮见牛群从林中返回而不见迦恰,婆罗多之后啊,她便适时说出了这些话。
1.70.32
आहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो ।
अगोपाश्चागता गावः कचस्तात न दृश्यते ॥ १.७०.३२ ॥
主啊,您的火祭已经完成,太阳已经落下。牛群没有牧人便回来了,亲爱的,却不见迦恰的踪影。
1.70.33
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति ।
तं विना न च जीवेयमिति सत्यं ब्रवीमि ते ॥ १.७०.३३ ॥
迦恰一定是被杀了或死了,亲爱的。没有他我无法活下去;这是我对你说的实话。
1.70.34
अयमेहीति संशब्द्य मृतं संजीवयाम्यहम् ।
ततः संजीविनीं विद्यां प्रयुज्य कचमाह्वयत् ॥ १.७०.३४ ॥
我呼唤「来此!」使死者复活。随后,他运用圣命术,召唤了迦恰。
1.70.35
भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिर्गतः ।
आहूतः प्रादुरभवत्कचो हृष्टोऽथ विद्यया ॥ १.७०.३५ ॥
他撕裂狼的尸体走了出来。被召唤的迦恰,因知识之力而欢喜地现身。
1.70.36
कस्माच्चिरायितोऽसीति पृष्टस्तामाह भार्गवीम् ।
समिधश्च कुशादीनि काष्ठभारं च भामिनि ॥ १.७०.३६ ॥
当被问及「你为何如此晚归?」时,他对婆利古之女说:「美丽的人啊,我正在搬运柴火、吉祥草等物,还有一大捆木柴。」
1.70.37
गृहीत्वा श्रमभारार्तो वटवृक्षं समाश्रितः ।
गावश्च सहिताः सर्वा वृक्षच्छायामुपाश्रिताः ॥ १.७०.३७ ॥
我因重担之劳而疲惫,背起柴薪,依靠在一棵榕树下。所有的牛也都聚集在树荫下休息。
1.70.38
असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन् ।
बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः ॥ १.७०.३८ ॥
那里的阿修罗见到我,便追问:“你是谁?”我说:“我是布利哈斯帕蒂之子,名叫迦恰,颇有名声。”
1.70.39
इत्युक्तमात्रे मां हत्वा पेषीकृत्वा तु दानवाः ।
दत्त्वा शालावृकेभ्यस्तु सुखं जग्मुः स्वमालयं ॥ १.७०.३९ ॥
我刚说完,檀那婆便杀死了我,将我剁成碎片,喂给豺狼,然后欢欢喜喜地回到自己的住所。
1.70.40
आहूतो विद्यया भद्रे भार्गवेण महात्मना ।
त्वत्समीपमिहायातः कथंचित्प्राप्तजीवितः ॥ १.७०.४० ॥
吉祥的女子啊,伟大的婆利古(室建陀)以其法术召唤了我,我不知怎的又重获生命,来到你的身边。
1.70.41
हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया ।
स पुनर्देवयान्योक्तः पुष्पाण्याहर मे द्विज ॥ १.७०.४१ ॥
婆罗门少女问他时,他说:“我曾被杀死。”然后天祠又对他说:“再生者啊,为我采些花来。”
1.70.42
वनं ययौ कचो विप्रो ददृशुर्दानवाश्च तम् ।
पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन् ॥ १.७०.४२ ॥
婆罗门迦恰前往森林,檀那婆又见到了他。随后他们将他碾碎,混入大海的水中。
1.70.43
चिरं गतं पुनः कन्या पित्रे तं संन्यवेदयत् ।
विप्रेण पुनराहूतो विद्यया गुरुदेहजः।
पुनरावृत्य तद्वृत्तं न्यवेदयत तद्यथा ॥ १.७०.४३ ॥
过了很久,少女再次前往,并将此事禀告父亲。婆罗门以明咒将从师身所生者唤回,他便将所发生之事如实述说。
1.70.44
ततस्तृतीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः ।
प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तथा ॥ १.७०.४४ ॥
于是阿修罗第三次杀死他,焚烧并碾为粉末,掺入酒中,又将其给婆罗门饮用。
1.70.45
अपिबत्सुरया सार्धं कचभस्म भृगूद्वहः ।
सा सायन्तनवेलायामगोपा गाः समागताः ॥ १.७०.४५ ॥
婆哩古之裔(输罗)与酒一并饮下了迦恰的骨灰。到了黄昏时分,牛群与牧人一同归来。
1.70.46
देवयानी शङ्कमाना दृष्ट्वा पितरमब्रवीत् ।
पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते ॥ १.७०.४६ ॥
提婆亚尼心怀疑惧,望着父亲说:“父亲,采花并为人奔走的迦恰不见了。”
1.70.47
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति ।
तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ॥ १.७०.४७ ॥
父亲,迦恰必定是被杀或已死去。没有他我便不能活;我如实对你说。
1.70.48
श्रुत्वा पुत्रीवचः काव्यो मन्त्रेणाहूतवान्कचम् ।
ज्ञात्वा बहिष्ठमज्ञात्वा स्वकुक्षिस्थं कचं नृप ॥ १.७०.४८ ॥
迦婆耶(输罗)听了女儿的话,便以咒语唤回迦恰。哦,大王,他知道迦恰在外面,却不知迦恰正在他自己的腹中。
1.70.49
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः ।
विद्यया जीवितोऽप्येवं हन्यते करवाम किम् ॥ १.७०.४९ ॥
女儿啊,布利哈斯帕蒂之子迦查已走上死亡之路。虽以智慧使他复活,他却这样再次被杀。我们该怎么办?
1.70.50
मैवं शुचो मा रुद देवयानि ।
न त्वादृशी मर्त्यमनुप्रशोचते।
यस्यास्तव ब्रह्म च ब्राह्मणाश्च ।
सेन्द्रा देवा वसवोऽथाश्विनौ च ॥ १.७०.५० ॥
德瓦雅妮啊,不要如此悲伤,不要哭泣。像你这样的女子不会为凡人悲叹,你拥有梵、婆罗门、与因陀罗同在的诸神、婆苏神以及双阿输昆。
1.70.51
सुरद्विषश्चैव जगच्च सर्व-
मुपस्थाने सन्नमन्ति प्रभावात्।
अशक्योऽसौ जीवयितुं द्विजातिः ।
संजीवितो वध्यते चैव भूयः ॥ १.७०.५१ ॥
即便是诸神的敌人和整个世界,也因梵的威力而俯首侍奉。这位再生者无法被救活;即便复活,他也会再次被杀。
1.70.52
यस्याङ्गिरा वृद्धतमः पितामहो ।
बृहस्पतिश्चापि पिता तपोनिधिः।
ऋषेः पुत्रं तमथो वापि पौत्रं ।
कथं न शोचेयमहं न रुद्याम् ॥ १.७०.५२ ॥
其最年长的祖父是安伽罗娑,父亲是苦行宝藏布利哈斯帕蒂,我怎能不为这位仙人之子或孙子悲伤、不哭泣呢?
1.70.53
स ब्रह्मचारी च तपोधनश्च ।
सदोत्थितः कर्मसु चैव दक्षः।
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये ।
प्रियो हि मे तात कचोऽभिरूपः ॥ १.७०.५३ ॥
他是持梵行者,富于苦行,常常精进,善于行事。我将追随迦查之路,不再进食;父亲啊,迦查对我而言亲爱而俊美。
1.70.54
कं ब्रह्महत्या न दहेदपीन्द्रम् ॥ १.७०.५४ ॥
杀害婆罗门之罪,又有谁不会焚烧呢?即便是因陀罗也不例外。
1.70.55
संचोदितो देवयान्या महर्षिः पुनराह्वयत् ।
संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् ॥ १.७०.५५ ॥
在提婆耶尼的催促下,大仙人迦维亚满怀愤怒,再次呼唤布利哈斯帕蒂之子迦查。
1.70.56
कचोऽपि राजन्स महानुभावो ।
विद्याबलाल्लब्धमतिर्महात्मा।
गुरोर्हि भीतो विद्यया चोपहूतः ।
शनैर्वाक्यं जठरे व्याजहार ॥ १.७०.५६ ॥
大王啊,那位大德迦查凭借学问之力恢复了心智,因畏惧师尊,被学问所召唤,便从腹中缓缓开口说话。
1.70.57
प्रसीद भगवन्मह्यं कचोऽहमभिवादये ।
यथा बहुमतः पुत्रस्तथा मन्यतु मां भवान् ॥ १.७०.५७ ॥
尊者啊,请对我施以恩惠;我迦查向您致敬。如同珍视爱子一般,愿您也这样看待我。
1.70.58
तमब्रवीत्केन पथोपनीत-
स्त्वं चोदरे तिष्ठसि ब्रूहि विप्र।
अस्मिन्मुहूर्ते ह्यसुरान्विनाश्य ।
गच्छामि देवानहमद्य विप्र ॥ १.७०.५८ ॥
他对他说:婆罗门啊,你是经由何路被带来的?又如何停留在腹中?说吧。此刻我便要毁灭阿修罗,今日便去见诸神。
1.70.59
तव प्रसादान्न जहाति मां स्मृतिः ।
स्मरामि सर्वं यच्च यथा च वृत्तम्।
नत्वेवं स्यात्तपसः संक्षयो मे ।
ततः क्लेशं घोरमिमं सहामि ॥ १.७०.५९ ॥
蒙您恩惠,记忆不曾离我;所发生的一切,以及它如何发生,我都记得。但愿我的苦行不致如此毁损;因此我忍受这可怕的苦难。
1.70.60
असुरैः सुरायां भवतोऽस्मि दत्तो ।
हत्वा दग्ध्वा चूर्णयित्वा च काव्य।
ब्राह्मीं मायां चासुरीं विप्र मायां ।
त्वयि स्थिते कथमेवातिवर्तेत् ॥ १.७०.६० ॥
阿修罗在酒中将我交给了你。即便被杀、被焚、被碾成粉末,啊迦婆,婆罗门啊,只要你在,梵天之幻与阿修罗之幻又怎能被超越呢?
1.70.61
किं ते प्रियं करवाण्यद्य वत्से ।
वधेन मे जीवितं स्यात्कचस्य।
नान्यत्र कुक्षेर्मम भेदनेन ।
दृश्येत्कचो मद्गतो देवयानि ॥ १.७०.६१ ॥
孩子啊,今天我能为你做什么你喜欢的事?只有我的死亡才能让迦恰重获生命。除了剖开我的肚腹,别无他法;啊提婆耶尼,迦恰将在我体内显现。
1.70.62
द्वौ मां शोकावग्निकल्पौ दहेतां ।
कचस्य नाशस्तव चैवोपघातः।
कचस्य नाशे मम शर्म नास्ति ।
तवोपघाते जीवितुं नास्मि शक्ता ॥ १.७०.६२ ॥
两种悲痛如火焰般焚烧我:迦恰的毁灭和你所受的伤害。迦恰的毁灭让我无法安宁;若你受到伤害,我也无法独自活下去。
1.70.63
संसिद्धरूपोऽसि बृहस्पतेः सुत ।
यत्त्वां भक्तं भजते देवयानी।
विद्यामिमां प्राप्नुहि जीवनीं त्वं ।
न चेदिन्द्रः कचरूपी त्वमद्य ॥ १.७०.६३ ॥
布利哈斯帕蒂之子啊,你形体完美;提婆耶尼虔诚地爱你。请获得这生命之智,除非今日以迦恰之形现身的你其实是因陀罗。
1.70.64
न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् ।
ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ॥ १.७०.६४ ॥
除了一位婆罗门,其他任何人都无法从我的腹中活着再回来。因此,请获得此智慧。
1.70.65
पुत्रो भूत्वा भावय भावितो मा-
मस्मद्देहादुपनिष्क्रम्य तात।
समीक्षेथा धर्मवतीमवेक्षां ।
गुरोः सकाशात्प्राप्य विद्यां सविद्यः ॥ १.७०.६५ ॥
你要成为我的儿子,从我们的身体中出来,使我得以生存,亲爱的孩子。以正法之心思考,并从师长处获得知识,成为有学问的人。
1.70.66
गुरोः सकाशात्समवाप्य विद्यां ।
भित्त्वा कुक्षिं निर्विचक्राम विप्रः।
कचोऽभिरूपस्तत्क्षणाद्ब्राह्मणस्य ।
शुक्लात्यये पौर्णमास्यामिवेन्दुः ॥ १.७०.६६ ॥
从师长处完全获得知识之后,俊美的迦car在那一刻剖开婆罗门的腹部走了出来,如同白半月末的满月之日月亮升起。
1.70.67
दृष्ट्वा च तं पतितं ब्रह्मराशि-
मुत्थापयामास मृतं कचोऽपि।
विद्यां सिद्धां तामवाप्याभिवाद्य ।
ततः कचस्तं गुरुमित्युवाच ॥ १.७०.६७ ॥
看到倒地的婆罗门躯体,迦car也将死去的师长救活。随后他获得了那成就的知识,行礼之后,对那位师长说了这些话。
1.70.68
यः श्रोत्रयोरमृतं सन्निषिञ्चे-
द्विद्यामविद्यस्य यथा त्वमार्यः।
तं मन्येऽहं पितरं मातरं च ।
तस्मै न द्रुह्येत्कृतमस्य जानन् ॥ १.७०.६८ ॥
尊者啊,凡是把甘露般的知识灌入我这样无知者耳中的人,我都视他为父亲和母亲。知道他的恩惠,就不应该背叛他。
1.70.69
ऋतस्य दातारमनुत्तमस्य ।
निधिं निधीनामपि लब्धविद्याः।
ये नाद्रियन्ते गुरुमर्चनीयं ।
पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः ॥ १.७०.६९ ॥
那些获得学问后却不尊敬值得礼敬的老师——真理的至高施与者、宝藏中的宝藏——的人,失去立足之地,堕入罪恶的世界。
1.70.70
सुरापानाद्वञ्चनां प्राप्य विद्वा-
न्संज्ञानाशं चैव महातिघोरम्।
दृष्ट्वा कचं चापि तथाभिरूपं ।
पीतं तदा सुरया मोहितेन ॥ १.७०.७० ॥
因饮酒而受骗的智者,遭受了极其可怕的失去知觉;即便看见俊美的迦恰,那时被酒迷惑,他还是把他喝下了。
1.70.71
समन्युरुत्थाय महानुभाव-
स्तदोशना विप्रहितं चिकीर्षुः।
सुरापानं प्रति संजातमन्युः ।
काव्यः स्वयं वाक्यमिदं जगाद ॥ १.७०.७१ ॥
于是大威力的乌莎那怒气冲冲地站起,为婆罗门的利益着想;因对饮酒生起愤怒,迦维亲口说出了这些话。
1.70.72
यो ब्राह्मणोऽद्यप्रभृतीह कश्चि-
न्मोहात्सुरां पास्यति मन्दबुद्धिः।
अपेतधर्मा ब्र्हमहा चैव स स्या-
दस्मिंल्लोके गर्हितः स्यात्परे च ॥ १.७०.७२ ॥
从今以后,在此处任何婆罗门若因迷惑而愚昧地饮酒,他将堕离法度,成为杀害婆罗门者;他将在此世受到谴责,在来世也同样受到谴责。
1.70.73
मया चैतां विप्रधर्मोक्तिसीमां ।
मर्यादां वै स्थापितां सर्वलोके।
सन्तो विप्राः शुश्रुवांसो गुरूणां ।
देवा लोकाश्चोपशृण्वन्तु सर्वे ॥ १.७०.७३ ॥
我已在一切世界中确立了这一婆罗门职责宣说的界限作为准则。愿善良的婆罗门、聆听过师长教诲者、诸神与一切世界都听闻此言。
1.70.74
इतीदमुक्त्वा स महानुभाव-
स्तपोनिधीनां निधिरप्रमेयः।
तान्दानवान्दैवविमूढबुद्धी-
निदं समाहूय वचोऽभ्युवाच ॥ १.७०.७४ ॥
说完这些话后,那位大威力、苦行宝藏中不可测量的宝藏,召唤了那些为命运所迷惑心智的檀那婆,对他们说了这番话。
1.70.75
आचक्षे वो दानवा बालिशाः स्थ ।
सिद्धः कचो वत्स्यति मत्सकाशे।
सञ्जीविनीं प्राप्य विद्यां महात्मा ।
तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः ॥ १.७०.७५ ॥
檀那婆们,你们愚昧;我告诉你们:已成就的迦恰将留在我身边。获得了甘露(Sañjīvinī)之明的那位大心婆罗门,与我同等威力,将成为梵本身。
1.70.76
योऽकार्षीद्दुष्करं कर्म देवानां कारणात्कचः ।
न तत्किर्तिर्जरां गच्छेद्याज्ञीयश्च भविष्यति ॥ १.७०.७६ ॥
迦恰为诸神所做的艰难之事,其名声绝不会衰败,他也将成为配得上祭祀的人。
1.70.77
एतावदुक्त्वा वचनं विरराम स भार्गवः ।
दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम् ॥ १.७०.७७ ॥
这位婆利古后裔说完这番话便沉默了。充满惊异的檀那婆们各自返回了自己的住处。
1.70.78
गुरोरुष्य सकाशे तु दश वर्षशतानि सः ।
अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ॥ १.७०.७८ ॥
迦恰在师尊身边居住了数百年,得到允许后,便想前往三十位天神的居所。