摩诃婆罗多 · 章 1.71
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.71.1
समावृतव्रतं तं तु विसृष्टं गुरुणा कचम् ।
प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ॥ १.७१.१ ॥
迦恰完成誓愿、获得师父允许后,前往天界,提婆雅尼说了这些话。
1.71.2
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च ।
भ्राजसे विद्यया चैव तपसा च दमेन च ॥ १.७१.२ ॥
angiras 仙人的孙子啊,你以品行、家世、学识、苦行和克制而光彩照人。
1.71.3
ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः ।
तथा प्रान्यश्च पूज्यश्च मम भूयो बृहस्पतिः ॥ १.७१.३ ॥
正如大名鼎鼎的仙人安吉罗斯受我父亲敬重,对我而言,brihaspati 也是最尊贵、值得崇敬的,甚至更胜一筹。
1.71.4
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन ।
व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥ १.७१.४ ॥
苦行之宝啊,既已知此,请明白我所说的:我如何对待你——你坚守誓愿,具足戒律。
1.71.5
स समावृतविद्यो मां भक्तां भजितुमर्हसि ।
गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ॥ १.७१.५ ॥
你已完成学业,理应接纳我这个虔诚的女子。请依照仪轨,伴随神圣的咒语,握住我的手。
1.71.6
कच उवाच ।
पूज्यो मान्यश्च भगवान्यथा तव पिता मम।
तथा त्वमनवद्याङ्गि पूजनीयतरा मम ॥ १.७१.६ ॥
正如你尊贵的父亲值得我敬重尊崇,无瑕肢体的你对我而言更值得尊敬。
1.71.7
प्राणेभ्योऽपि प्रियतरा भार्गवस्य महात्मनः ।
त्वं भत्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥ १.७१.७ ॥
你比生命还珍贵,是伟大的婆利古之子之女;依法,你应受丈夫尊敬,对我而言,你始终是我师尊的女儿。
1.71.8
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव ।
देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ॥ १.७१.८ ॥
正如我的老师始终应当受敬重,你的父亲首陀罗也是如此;同样,德瓦雅尼,你不应该这样对我说话。
1.71.9
गुरुपुत्रस्य पुत्रो वै न त्वं पुत्रश्च मे पितुः ।
तस्मात्पूज्यश्च मान्यश्च ममापि त्वं द्विजोत्तम ॥ १.७१.९ ॥
你是老师之子的儿子,而非我父亲之子;因此,再生者中的最优者,你也应为我所尊敬和敬重。
1.71.10
असुरैर्हन्यमाने च कच त्वयि पुनःपुनः ।
तदाप्रभृति या प्रीतिस्तां त्वमद्य स्मरस्व मे ॥ १.७१.१० ॥
迦旃,自从阿修罗一次又一次地杀害你以来,我对你所生的那份爱,今日请你记起。
1.71.11
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् ।
न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ॥ १.७१.११ ॥
精通法者啊,在友情与爱恋中你知道我至高的虔诚;你不应舍弃我这虔诚而无过失的人。
1.71.12
अनियोज्ये नियोक्तुं मां देवयानि न चार्हसि ।
प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरा शुभे ॥ १.७१.१२ ॥
德瓦雅尼,不可命令我这不该被命令的人。美眉吉祥的你,请对我施恩;你比我的老师更加尊贵。
1.71.13
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने ।
तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥ १.७१.१३ ॥
你所居住之处,大眼睛、月亮般面容的女子啊,我也在那里居住,在迦维(室建陀)的腹中,善良的女子啊,多情的女子啊。
1.71.14
भगिनी धर्मतो मे त्वं मैवं वोचः सुमध्यमे ।
सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ॥ १.७१.१४ ॥
你按法义是我的姐妹,你不要这样说,苗条的女子啊。善良的女子啊,我过得很幸福,我心中没有愤怒。
1.71.15
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि ।
अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे।
अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम ॥ १.७१.१५ ॥
我向你告辞,我要走了。请为我的路途祝福吉祥。不违背法义,在另一个故事中提到的时候,请记住我。总是警觉而精进,侍奉我的老师。
1.71.16
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि याचितः ।
ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ॥ १.७१.१६ ॥
如果我为了法、欲或利而请求,你拒绝我,那么迦车啊,你的这门学问将不会成就。
1.71.17
गुरुपुत्रीति कृत्वाऽहं प्रत्याचक्षे न दोषतः ।
गुरुणा चाननुज्ञातः काममेवं शपस्व माम् ॥ १.७१.१७ ॥
我把你视为师尊之女,我拒绝你并非因为过失。而且我未得到老师的允许,你可以随意这样诅咒我吧。
1.71.18
आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया ।
शप्तो ह्यनर्हः शापस्य कामतोऽद्य न धर्मतः ॥ १.७१.१८ ॥
德瓦雅妮啊,我说的是仙人的神圣法,我实在不配你加于我的诅咒;今天你是出于欲望而诅咒,而非出于法。
1.71.19
तस्माद्भवत्या यः कामो न तथा स भविष्यति ।
ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ॥ १.७१.१९ ॥
因此你的愿望不会以那种方式实现;任何仙人之子都永远不会握住你的手。
1.71.20
फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा ।
अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ॥ १.७१.२० ॥
正如你对我所说,这门学问对你不会有成效;但我所教之人,他的学问必有成效。
1.71.21
एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा ।
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥ १.७१.२१ ॥
迦恭对提婆耶尼如此说罢,这位婆罗门中的最优者便迅速前往三十三天之主的居所。
1.71.22
तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः ।
बृहस्पतिं सभाज्येदं कचं वचनमब्रुवन् ॥ १.७१.२२ ॥
诸天以因陀罗为首,见他到来,便敬礼了brhaspati,并对迦恭说了这些话。
1.71.23
यत्त्वयास्मद्धितं कर्म कृतं वै परमाद्भुतम् ।
न ते यशः प्रणशिता भागभाक्व भविष्यसि ॥ १.७१.२३ ॥
你为我们所做的这一极为奇妙之事,你的名声不会丧失,而且你将成为分享者。