Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.72

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.72.1

कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः ।
कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ॥ १.७२.१ ॥

迦恭返回并完成学业后,诸天神面露喜色,从迦恭那里学得了那门知识,心愿得偿,婆罗多中的雄牛啊。

1.72.2

सर्व एव समागम्य शतक्रतुमथाब्रुवन् ।
कालस्ते विक्रमस्याद्य जहि शत्रून्पुरन्दर ॥ १.७२.२ ॥

众神聚集在一起,对百祭(因陀罗)说:“补罗檀陀罗啊,如今正是你显示威勇的时候,去击杀敌人吧。”

1.72.3

एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा ।
तथेत्युक्त्वा प्रचक्राम सोऽपश्यत वने स्त्रियः ॥ १.७२.३ ॥

三十三天神如此相告,摩伽梵说:“就这样吧。”于是出发,在林中看见了女子们。

1.72.4

क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे ।
वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥ १.७२.४ ॥

在如同柴特拉罗陀的林中,少女们嬉戏之时,他化作风,把她们所有的衣裳都搅混在一起。

1.72.5

ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा ।
वस्त्राणि जगृहुस्तानि यथाऽऽसन्नान्यनेकशः ॥ १.७२.५ ॥

随后,少女们一同从水中走出,各自拿起离自己最近的衣裳,一次又一次。

1.72.6

तत्र वासो देवयानयाः शर्मिष्ठा जगृहे तदा ।
व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ॥ १.७२.६ ॥

于是,毗舍波婆之女舍尔弥什陀不知衣裳已被搅混,便拿起了提婆耶尼的那件衣裳。

1.72.7

ततस्तयोर्मिथस्तत्र विरोधः समजायत ।
देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥ १.७२.७ ॥

于是她们二人之间在那里发生了争执,王中之王啊——德瓦雅尼与莎尔弥瑟塔因此而起争端。

1.72.8

कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि ।
समुदाचारहीनाया न ते साधु भविष्यति ॥ १.७२.८ ॥

你作为我的弟子,为何拿我的衣服,阿修罗之女?对于缺乏良好行为的人,这对你不会有好处。

1.72.9

आसीनं च शयानं च पिता ते पितरं मम ।
स्तौतिबन्दीव चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ॥ १.७२.९ ॥

你的父亲无论坐着还是躺着,都不断赞颂我的父亲,如同歌者一般,低下身子站立,谦卑如受过训练的人。

1.72.10

याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः ।
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥ १.७२.१० ॥

你是乞求者、赞颂并接受者的女儿;我是受赞颂者、施予者、不接受者的女儿。

1.72.11

आदुन्वस्व विदुन्वस्व द्रुह्य कुप्यस्व याचकि ।
अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि ॥ १.७२.११ ॥

起来吧,动摇吧,敌对吧,发怒吧,乞丐女!你手无寸铁,在有武器的人面前空无一物——乞丐女,你在颤抖。

1.72.12

लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् ।
प्रतिकूलं वदसि चेदितःप्रभृति याचकि ॥ १.७२.१२ ॥

你会找到对手;我根本不把你放在眼里。从今以后,如果你说出反对的话,乞丐女!

1.72.13

समुच्छ्रयं देवयानीं गतां सक्तां च वाससि ।
शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमागमत्।
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया ॥ १.७२.१३ ॥

Śarmiṣṭhā 将抓住衣服掉入井中的 Devayānī 推入井中,然后回到自己的城中。以为她已死去,心怀恶念的 Śarmiṣṭhā 离去了。

1.72.14

अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा ।
प्रविश्य स्वगृहं स्वस्था धर्ममासुरमास्थिता।
अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः ॥ १.७२.१४ ॥

被愤怒的狂潮所吞没,她头也不回地回了家。进入自己的屋中,平静下来,她便采取了阿修罗的行为。那时,那胡沙之子 Yayāti 来到了那个地方。

1.72.15

श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः ।
स नाहुषः प्रेक्षमाण उदपानं गतोदकम् ॥ १.७२.१५ ॥

那胡沙之子,车马疲惫,马匹困乏,追逐鹿群而口渴难耐,他在四处张望时来到那里,看见一口没有水的井。

1.72.16

ददर्श राजा तां तत्र कन्यामग्निशिखामिव ।
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् ॥ १.७२.१६ ॥

国王在那里看见那位少女,如同火焰;一见这位神一般容貌的少女,他便问她。

1.72.17

सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ।
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला ॥ १.७२.१७ ॥

诸王中最优秀的人,以最温和的安抚之语宽慰她,问道:"你是谁?指甲如铜色,肤色黝黑,戴着打磨精美的宝石耳环。"

1.72.18

दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ।
कथं च पतिताऽस्यस्मिन्कूपे वीरुत्तृणावृते ॥ १.७२.१८ ॥

你为何长久而深深地沉思,又为何痛苦地叹息?你是怎样掉进这口被藤蔓和杂草覆盖的井里的?

1.72.19

दुहिता चैव कस्य त्वं वद सत्यं सुमध्यमे ।
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया ॥ १.७२.१९ ॥

纤腰的女子啊,请说实话:你是谁的女儿?你是那位凭借其法术使被诸神所杀的达提亚复活的人的女儿吗?

1.72.20

तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ।
एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः ॥ १.७२.२० ॥

我是那位世上的首陀(Śukra)之女;他一定不认得我。国王啊,这是我的右手,手指和指甲呈铜红色。

1.72.21

समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ।
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् ॥ १.७२.२१ ॥

请拉住我,把我扶起来。我认为你出身高贵。我知道你平和、有力量、有名望。

1.72.22

तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि ।
तामथो ब्राह्मणीं कन्यां विज्ञायनहुषात्मजः ॥ १.७२.२२ ॥

因此,你应当把我从这口井中拉出来。那时,那花苏之子(Nahuṣa的儿子)知道她是一位婆罗门少女,

1.72.23

गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ।
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः ॥ १.७२.२३ ॥

他握住她的右手,迅速把她从那坑中拉起;从那口井中,人间之主把她拉起来,

1.72.24

गच्छ भद्रे यथाकामं न भयं विद्यते तव ।
इत्युच्यमाना नृपतिं देवयानीदमुत्तरम् ॥ १.७२.२४ ॥

善良的人啊,你随心所欲地去吧,你没有什么可怕的。国王这样说,提婆雅尼便回答道:

1.72.25

उवाच मामुपादाय गच्छ शीघ्रं प्रियो हि मे ।
गृहीताहं त्वया पाणौ तस्माद्भर्ता भविष्यसि ॥ १.७२.२५ ॥

他对我说:“快去吧,因为你是我所爱的人。你已握住我的手,因此你将成为我的妻子。”

1.72.26

इत्येवमुक्तो नृपतिराह क्षत्रकुलोद्भवः ।
त्वं भद्रे ब्राह्मणी तस्मान्मया नार्हसि सङ्गमम् ॥ १.७२.२६ ॥

被这样说后,出身刹帝利种姓的国王说道:“善良的女子啊,你是婆罗门女子,因此你不适合与我结合。”

1.72.27

सर्वलोकगुरुः काव्यस्त्वं तस्य दुहिता शुभे ।
तस्मादपि भयं मेऽद्य ततः कल्याणि नार्हसि ॥ १.७२.२७ ॥

“善良的女子啊,你是一切世界之师迦维(室罗)的女儿;因此今日连他我也感到畏惧。美丽的女子啊,所以你不应当这样做。”

1.72.28

यदि मद्वचनान्नाद्य मां नेच्छसि नराधिप ।
त्वामेव वरये पित्रा तस्माल्लप्स्यसि गच्छ हि ॥ १.७२.२८ ॥

提婆雅尼说:“人主啊,今日若你不依从我的话、不愿要我,那么我就向父亲求你为夫;你去吧。”

1.72.29

आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ।
गते तु नाहुषे तस्मिन्देवयान्यप्यनिन्दिता ॥ १.७२.२९ ॥

向那美腰的女子告别后,那呼什之子耶耶提回到自己的城中。他离去之后,那无可指摘的提婆雅尼也……

1.72.30

क्वचिद्गत्वा च रुदती वृक्षमाश्रित्य धिष्ठिता ।
ततश्चिरायमाणायां दुहितर्यथ भार्गवः ॥ १.७२.३० ॥

她走到某处,哭泣着,倚着一棵树站立。后来女儿迟迟未归,那婆利古的后裔……

1.72.31

संस्मृत्योवाच धात्रीं तां दुहितुः स्नेहविक्लवः ।
धात्रि त्वमानय क्षिप्रं देवयानीं समुध्यमाम् ॥ १.७२.३१ ॥

他因对女儿的爱怜而心神慌乱,念及乳母,便说:“乳母啊,快把提婆耶尼带来。”

1.72.32

इत्युक्तमात्रे सा धात्री त्वरिताऽऽनयितुं गता ।
यत्रयत्र सशीभिः सा गता पदममार्गत ॥ १.७२.३२ ॥

话音刚落,乳母便急忙前去寻找她。提婆耶尼与伙伴们曾去过的每一处,她都循着足迹寻找。

1.72.33

सा ददर्श तथा दीनां श्रमार्तां रुदतीं स्थिताम् ।
वृत्तान्तं किमिदं भद्रे शीघ्रं वद पिताह्वयत् ॥ १.७२.३३ ॥

她看见提婆耶尼站在那里,悲伤、疲惫而哭泣。“好女子,发生了什么事?快说吧!”父亲呼唤道。

1.72.34

एवमुक्ताह धात्रीं तां शर्मिष्ठावृजिनं कृतम् ।
उवाच शोकसंतप्ता घूर्णिकामागतां पुरः ॥ १.७२.३४ ॥

听她这样问,提婆耶尼因悲痛而煎熬,便向走到面前的乳母诉说了舍尔弥什陀所犯的过错。

1.72.35

त्वरितं घूर्णिके गच्छ शीघ्रमाचक्ष्व मे पितुः ॥ १.७२.३५ ॥

“乳母啊,快去,立刻告诉我的父亲。”

1.72.36

नेदानीं संप्रवेक्ष्यामि नगरं वृषपर्वणः ।
सा तत्र त्वरितं गत्वा घूर्णिकाऽसुरमन्दिरम् ॥ १.७२.३६ ॥

“我现在不进入跋舍波婆的城了。”于是,乳母急忙前往那里,进入了阿修罗的宫殿。

1.72.37

दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना ।
आचचक्षे महाप्राज्ञं देवयानीं वने हताम् ॥ १.७२.३७ ॥

她见到迦婆耶,心神因惊慌而失措,便说出这些话,向大智者讲述了在林中受伤的天耶妮。

1.72.38

शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ।
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् ॥ १.७२.३८ ॥

大福之人啊,听闻女儿在那里被毗湿波尔万之女沙尔弥什塔所伤,迦婆耶……

1.72.39

त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ।
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने ॥ १.७२.३९ ॥

他因忧伤急忙出去,在林中寻找女儿;在林中见到女儿天耶妮,迦婆耶……

1.72.40

बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत् ।
आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः ॥ १.७२.४० ॥

他以双臂紧紧拥抱她,悲伤地说道:"世人都因自己的过错而招致苦乐。"

1.72.41

मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता ।
निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम ॥ १.७२.४१ ॥

我想你一定犯了某种过错,因此才举行了这次赎罪。无论我是否能得赎罪,你都要专心听我说。

1.72.42

शर्मिष्ठया यदुक्ताऽस्मि दुहित्रा वृषपर्वणः ।
सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ॥ १.७२.४२ ॥

毗湿波尔万之女沙尔弥什塔对我所说的话确实是真的;她说:"你是达伊提亚的歌者。"

1.72.43

एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी ।
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् ॥ १.७२.४३ ॥

毗湿波尔万之女莎尔弥瑟塔如此对我说话,因愤怒而双眼通红,言辞尖刻而粗暴。

1.72.44

स्तुवतो दुहिता नित्यं याचतः प्रतिगृह्णतः ।
अहं तु स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥ १.७२.४४ ॥

你是那总是赞颂、乞求、接受之人的女儿;而我是被赞颂、施予、不接受之人。

1.72.45

इदं मामाह शर्मिष्ठा दुहिता वृषपर्वणः ।
क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः ॥ १.७२.४५ ॥

毗湿波尔万之女莎尔弥瑟塔一再对我说此话,因愤怒而双眼深红,充满骄傲。

1.72.46

यद्यह स्तुवतस्तात दुहिता प्रतिगृह्णतः ।
प्रसादयिष्ये शर्मिष्ठामित्युक्ता तु सखी मया ॥ १.७२.४६ ॥

父亲,若你是那赞颂与接受之人的女儿,我便去安抚莎尔弥瑟塔——我曾这样对我的女伴说。

1.72.47

उक्ताप्येवं भृशं मां सा निगृह्य विजने वने ।
कूपे प्रक्षेपयामास प्रक्षिप्य गृहमागमत् ॥ १.७२.४७ ॥

虽然我这样说,她仍用力抓住我,将我投入荒野林中的一口井中,投下后便回家去了。

1.72.48

स्तुवतो दुहिता न त्वं याचतः प्रतिगृह्णतः ।
अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ॥ १.७२.४८ ॥

你不是那赞颂、乞求、接受之人的女儿;你是德瓦亚尼,不赞颂者与被赞颂者的女儿。

1.72.49

वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः ।
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ॥ १.७२.४९ ॥

毗栗婆婆也知道此事,帝释天与那呼沙王亦知。我的力量不可思议,超越二元对立,是主宰的梵力。

1.72.50

जानामि जीविनीं विद्यां लोकेस्मिञ्शाश्वतीं ध्रुवम् ।
मृतः संजीवते जन्तुर्यया कमललोचने ॥ १.७२.५० ॥

我知道此世间永恒而确定的生命之术,凭此死者得以复生,莲花眼的女子啊。

1.72.51

कत्थनं स्वगुणानां च कृत्वा तप्यति सज्जनः ।
ततो वक्तुमशक्तोऽस्मित्वं मे जानासि यद्बलम् ॥ १.७२.५१ ॥

君子自夸己德则心中不安,故我不能言说。你知道我的力量有多大。

1.72.52

तसमादुत्तिष्ठ गच्छामः स्वगृहं कुलनन्दिनि ।
क्षमां कृत्वा विशालाक्षि क्षमासारा हि साधवः ॥ १.७२.५२ ॥

故起身吧,家族之喜悦,我们回家去。宽目的女子啊,请宽恕吧,因为忍让乃善人之本质。

1.72.53

यच्च किंचित्सर्वगतं भूमौ वा यदि वा दिवि ।
तस्याहमीश्वरो नित्यं तुष्टेनोक्तः स्वयंभुवा ॥ १.७२.५३ ॥

无论大地或天界中何物遍在一切,我永远是其主宰;此乃自生者欢喜时对我所说。

1.72.54

अहं जलं विमुञ्चामि प्रजानां हितकाम्यया ।
पुष्णाम्यौषधयः सर्वा इति सत्यं ब्रवीमि ते ॥ १.७२.५४ ॥

为了众生的利益,我降下甘霖,滋养一切草药。这是我对你说的真实之言。

1.72.55

एवं विषादमापन्नां मन्युना संप्रपीडिताम् ।
वचनैर्मधुरैः श्लक्ष्णैः सान्त्वयामास तां पिता ॥ १.७२.५५ ॥

她陷入绝望,被悲痛深深折磨,父亲便以甜美温柔的话语安慰她。