摩诃婆罗多 · 章 1.74
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.74.1
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह ।
वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥ १.७४.१ ॥
于是婆利古族中最杰出的迦维耶(室建陀罗,即Śukra)愤怒地走近,不加思索地对端坐的毗梨沙波婆那说道。
1.74.2
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव ।
शनैरावर्त्यमानो हि कर्तुर्मूलानि कृन्तति ॥ १.७४.२ ॥
大王啊,所作的不义不会立即结果,就像母牛一样;它慢慢地回转,砍断作恶者的根基。
1.74.3
पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति ।
फलत्येव ध्रुवं पायं गुरुभुक्तमिवोदरे ॥ १.७४.३ ॥
即便不在儿子或孙子身上看到,甚至不在自己身上看到,它也必定结果,就像重食在腹中消化一样。
1.74.4
अधीयानं हितं राजन्क्षमावन्तं जितेन्द्रियम् ।
यदघातयथा विप्रं कचमाङ्गिरसं तदा।
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ॥ १.७४.४ ॥
大王啊,当你杀了那位婆罗门迦恰——安吉罗的儿子,他好学、有益、忍耐、克制诸根、品行无罪、通晓法,并在我家中专心服侍——的时候。
1.74.5
शर्मिष्ठया देवयानी क्रूरमुक्ता बहु प्रभो ।
विप्रकृत्य च संरम्भात्कूपे क्षिप्ता मनस्विनी ॥ १.७४.५ ॥
主啊,舍尔弥瑟陀对提婆雅尼说了许多刻薄的话;她怀着愤怒,侮辱了这位心志高尚的女子,并将她推入井中。
1.74.6
सा न कल्पेत वासाय तयाहं रहितः कथम् ।
वसेयमिह तस्मात्ते त्यजामि विषयं नृप ॥ १.७४.६ ॥
她并非不配与我同居;但没有她,我如何能住在这里?因此,大王啊,我离开你的国土。
1.74.7
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम ।
वषपर्वन्निबोधेयं त्यक्ष्यामि त्वां सबान्धवम्।
स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ॥ १.७४.७ ॥
杀他不当,杀我的女儿也不当。伐里舍波尔凡,你要明白:我将离开你和你的亲族。大王,我不能与你一同留在你的国土之中。
1.74.8
मा शोच वृषपर्वंस्त्वं मा क्रुध्यस्व विशांपते ।
स्थातुं ते विषये राजन्न शक्ष्यामि तया विना।
अस्या गतिर्गतिर्मह्यं प्रियमस्याः प्रियं मम ॥ १.७४.८ ॥
伐里舍波尔凡,不要悲伤,不要愤怒,众生之主。大王,没有她,我不能留在你的国土之中。她所走的路就是我的路;她所喜爱的,也是我所喜爱的。
1.74.9
यदि ब्रह्मन्घातयामि यदि वा क्रोशयाम्यहम् ।
शर्मिष्ठया देवयानीं तेन गच्छाम्यसद्गतिम् ॥ १.७४.९ ॥
婆罗门啊,若我杀了她,或辱骂她,则愿我因舍尔弥湿陀之故、因对天车的所为,堕入凄惨的归宿。
1.74.10
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् ।
यथेममात्मनो दोषं न नियच्छस्पुपेक्षसे ॥ १.७४.१० ॥
啊,阿修罗啊,你竟以为我是妄语之人。你不克制自己的这一过失,反而置之不理。
1.74.11
नाधर्मं न मृषावादं त्वयि जानामि भार्गव ।
त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ॥ १.७४.११ ॥
婆利古之子啊,我不知你有不义,也不知你有妄语。你身上有法与真实,愿您对我们施以恩惠。
1.74.12
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव ।
समुद्रं संप्रवेक्ष्यामि पूर्वं मद्बान्धवैः सह ॥ १.७४.१२ ॥
婆利古之子啊,若你舍弃我们而从此离去,我将先与我的亲族一同投入大海。
1.74.13
पातालमथवा चाग्निं नान्यदस्ति परायणम् ।
यद्येव देवान्गच्छेस्त्वं मां च त्यक्त्वा ग्रहाधिप।
सर्वत्यागं ततः कृत्वा प्रविशामि हुताशनम् ॥ १.७४.१३ ॥
除了地下世界或火,别无庇护。行星之主啊,若你舍我而只去见诸神,那么我将舍弃一切,投入祭火之中。
1.74.14
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः ।
दुहितुर्नाप्रियं सोहुं शक्तोऽहं दयिता हि मे ॥ १.७४.१४ ॥
阿修罗们啊,你们或进入大海,或四散奔逃吧。我不能容忍任何令女儿不快之事,因为她是我最心爱的人。
1.74.15
प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम् ।
योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥ १.७४.१५ ॥
请安抚天护(德瓦雅尼),我的生命就系于她。正如木星(布利哈斯帕蒂)之于因陀罗,我也是为你谋求福祉与安稳之人。
1.74.16
यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव ।
भुवि हस्तिगवाश्वं च तस्य त्वं मम चेश्चरः ॥ १.७४.१६ ॥
婆利伽婆啊,阿修罗之主们在大地上拥有的一切财富——象、牛、马——你是它们的主人,也是我的主人。
1.74.17
यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर ।
तस्येश्वरोस्मि यद्येषा देवयानी प्रसाद्यताम् ॥ १.७४.१७ ॥
大阿修罗啊,诸大提提之主所拥有的一切财富,我都是它的主人。只愿这位天护(德瓦雅尼)得到安抚。
1.74.18
एवमुक्तस्तथेत्याह वृषपर्वा महाकविम् ।
देवयान्यन्तिकं गत्वा तमर्थं प्राह भार्गवः ॥ १.७४.१८ ॥
被如此告知后,毗梨沙波婆回答大仙说:“就这样吧。”婆利伽婆便前往天护(德瓦雅尼)身边,将此事告诉了她。
1.74.19
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव ।
नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ॥ १.७४.१९ ॥
亲爱的婆employed Bhārgava,若你是国王财富的主人,我并不知道;请国王自己说吧。
1.74.20
शुक्रस्य वचनं श्रुत्वा वृषपर्वा सबान्धवः ।
देवयानि प्रसीदेति पपात भुवि पादयोः ॥ १.७४.२० ॥
闻沙迦之言,毗湿婆跋婆连同亲属,俯伏于地,伏在她的脚下,说道:“提婆耶尼啊,请息怒。”
1.74.21
स्तुत्यो वन्द्यश्च सततं मया तातश्च ते शुभे ।
यं काममभिकामाऽसि देवयानि शुचिस्मिते।
तत्तेऽहं संप्रदास्यामि यदि वापि हि दुर्लभम् ॥ १.७४.२१ ॥
吉祥的人啊,我时常赞美、敬拜的父亲,也属于你;纯净微笑的提婆耶尼啊,你所想要的任何愿望,即便难以得到,我也必定给你。
1.74.22
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये ।
अनु मां तत्र गच्छेत्सा यत्र दद्याच्च मे पिता ॥ १.७४.२२ ॥
我想要沙尔弥什塔作为侍女,连同一千位少女;无论父亲把我给了谁,她都要跟随我去那里。
1.74.23
उत्तिष्ठ त्वं गच्छ धात्रि शर्मिष्ठां शीघ्रमानय ।
यं च कामयते कामं देवयानी करोतु तम् ॥ १.७४.२३ ॥
起来吧,乳母,快去把沙尔弥什塔带来;提婆耶尼所求的任何愿望,都让她去实现。
1.74.24
त्यजेदेकं कुलस्यार्थे ग्रामार्थे च कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १.७४.२४ ॥
为了家族,应当舍弃一人;为了村庄,应当舍弃家族;为了国土,应当舍弃村庄;为了自身,甚至应当舍弃大地。
1.74.25
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् ।
उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥ १.७४.२५ ॥
于是乳母前去对莎米什塔说:起来吧,善良的莎米什塔,为你的亲族带来幸福。
1.74.26
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः ।
सायं कामयते कां स कार्योऽद्य त्वयाऽनघे ॥ १.७४.२६ ॥
受德瓦雅尼催促,婆罗门舍弃了他的弟子。无瑕的女子啊,他今晚所渴望的那位女子——这件事今天须由你来办。
1.74.27
यं सा कामयते कां करवाण्यहमद्य तम् ।
यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम्।
मद्दोषान्मागमच्छुक्रो देवयानी च मत्कृते ॥ १.७४.२७ ॥
莎米什塔说:她所渴望的那个男人,今天我就为她带来。若是为了德瓦雅尼,舍克拉召唤我,那么舍克拉和德瓦雅尼的到来,正是因为我的过错。
1.74.28
ततः कन्यासहस्रेण वृता शिबिकया तदा ।
पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ॥ १.७४.२८ ॥
于是,她被千名少女簇拥,乘坐轿子,遵从父亲的命令匆匆地离开了那座殊胜的城市。
1.74.29
अहं दासीसहस्रेण दासी ते परिचारिका ।
अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥ १.७४.२९ ॥
莎米什塔说:我将率领一千名侍女,作为你的婢女与侍从,跟随你前往你父亲所交付你的任何地方。
1.74.30
स्तुवतो दुहिताऽहं ते याचतः प्रतिगृह्णतः ।
स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥ १.७४.३० ॥
德瓦雅尼说:我是你的女儿——赞颂者、乞求者、受施者之女。你既是受赞颂者之女,又怎么会沦为婢女呢?
1.74.31
येनकेनचिदार्तानां ज्ञातीनां सुखमावहेत् ।
अतस्त्वामनुयास्यामि तत्र दास्यति ते पिता ॥ १.७४.३१ ॥
无论用何种方法,只要能为受苦的亲族带来幸福;因此我将跟随你,到那里你的父亲会把她给你。
1.74.32
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः ।
देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥ १.७४.३२ ॥
当跋利沙波尔瓦的女儿同意为奴的状态后,王中之最,提婆雅尼对她的父亲说了这些话。
1.74.33
प्रविशामि पुरं तात तुष्टाऽस्मि द्विजसत्तम ।
अमोघं तव विज्ञानमस्ति विद्याबलं च ते ॥ १.७४.३३ ॥
父亲,我要进城了;婆罗门中最优秀的,我很满意。您的智慧不会落空,您的学问之力也是如此。
1.74.34
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः ।
प्रविवेश पुरं हृष्टः पूजितः सर्वदानैवः ॥ १.७४.३४ ॥
女儿这样说了,那位大名的婆罗门中最优秀者,欢喜地进入城中,受到各种布施的敬重。