Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.79

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.79.1

पौरवेणाथ वयसा ययातिर्नहुषात्मजः ।
रूपयौवनसंपन्नः कुमारः समपद्यत।
प्रीतियुक्तो नृपश्रेष्ठश्चरा विषयान्प्रियान् ॥ १.७९.१ ॥

随后,在鲍罗婆族中,那诃沙之子耶耶底成为一位容貌与青春兼备的青年。心怀喜悦的诸王之最,享受着令人喜爱的感官之欲。

1.79.2

यथाकामं यथोत्साहं यथाकालं यथासुखम् ।
धर्माविरुद्धं राजेन्द्रो यथा भवति सोऽन्वभूत् ॥ १.७९.२ ॥

依其所愿,依其热情,依时节,依其所喜,владыка царей享受,不违背法。

1.79.3

देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वित्पितॄनपि ।
दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥ १.७९.३ ॥

他以祭祀使诸天欢喜,又依仪轨以祭祖之施食使祖灵欢喜;以恩惠安抚贫困者,以所愿之物满足婆罗门中的最优者。

1.79.4

अतिथीनन्नपानैश्च विशश्च परिपालनैः ।
आनृशंस्येन शूद्रांश्च दस्यून्सन्निग्रहेण च ॥ १.७९.४ ॥

以饮食款待宾客,以保护安抚百姓,以仁慈对待仆役,以适当的制裁镇压盗贼。

1.79.5

धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् ।
ययातिः पालयामास साक्षादिन्द्र इवापरः ॥ १.७९.५ ॥

以法使诸臣民皆如法地欢喜,耶耶底守护他们,犹如另一位亲身降临的因陀罗。

1.79.6

स राजा सिंहविक्रान्तो युवा विषयगोचरः ।
अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥ १.७९.६ ॥

那位如狮般勇猛的年轻国王,徜徉于感官之境,在不违背法的前提下享受着至上的快乐。

1.79.7

स संप्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः ।
कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥ १.७९.७ ॥

国王得到了吉祥的欲望,既满足又疲倦;人主追忆起千年时光的终结。

1.79.8

परिसंख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् ।
यौवनं प्राप्य राजर्षिः सहस्रपरिवत्सरान् ॥ १.७९.८ ॥

这位知晓时节、威力强大的王仙计算了刹那与时段,重获青春,便数着千年岁月。

1.79.9

विश्वाच्या सहितो रेमे व्यभ्राजन्नन्दने वने ।
अलकायां स कालं तु मेरुशृङ्गे तथोत्तरे ॥ १.७९.९ ॥

他与毗什婆其一同欢乐,在难陀园中光彩焕发;他在阿拉卡城,也在北方的须弥山峰上度过时光。

1.79.10

यदा स पश्यते कालं धर्मात्मा तं महीपतिः ।
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥ १.७९.१० ॥

当那位心怀正法的国王看到时间已满,便认为其已尽,遂对儿子普鲁说道。

1.79.11

यथाकामं यथोत्साहं यथाकालमरिन्दम ।
सेविता विषयाः पुत्र यौवनेन मया तव ॥ १.७९.११ ॥

降敌者啊,孩儿,我依照欲望,依照热情,依照时节,借你的青春享受了诸般欲乐。

1.79.12

न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १.७९.१२ ॥

欲望绝不会因享受欲乐而止息;正如以酥油供养时,黑道之火只会更加旺盛,欲望也是如此,一再增长。

1.79.13

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
एकस्यापि न पर्याप्तं तस्मान्नृष्णां परित्यजेत् ॥ १.७९.१३ ॥

大地上的稻米、大麦、黄金、牲畜与女子,即使对一个人也不足够;因此应当舍弃贪欲。

1.79.14

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योऽसौ प्राणान्तिको रोगस्तांतृष्णां त्यजतः सुखम् ॥ १.७९.१४ ॥

愚人难以舍弃的那种渴望,即使人已衰老它也不老,是致命的疾病;舍弃此渴望者即得安乐。

1.79.15

पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः ।
तथाप्यनुदिनं तृष्णा ममैतेष्वभिजायते ॥ १.७९.१५ ॥

我心执着于诸境,已度过整整千年;然而这些事物上的渴望,仍然每日在我心中生起。

1.79.16

तस्मादेनामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् ।
निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह ॥ १.७९.१६ ॥

因此,我舍弃此欲,将心安住于梵,离于二元对立,无我所执,将与鹿群一同漫游。

1.79.17

पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् ।
राज्यं चेदं गृहाण त्वं यावदिच्छसि यौवनम्।
तावद्दीर्घायुषा भुङ्ख त्वं हि मे प्रियकृत्सुतः ॥ १.७९.१७ ॥

普鲁啊,我很欣慰,愿你吉祥。收回你的青春吧,连这王国也一并拿去;你想要多久,就以青春和长寿去享受吧,因为你是使我欢喜的儿子。

1.79.18

प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा ।
यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मवान् ॥ १.७९.१८ ॥

于是,那哈沙之子国王耶耶提接受了衰老;而自制的普鲁则重新获得了自己的青春。

1.79.19

अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् ।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥ १.७९.१९ ॥

当国王想要立他最小的儿子补卢为王时,以婆罗门为首的诸种姓对他说了这番话。

1.79.20

कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ।
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रयच्छसि ॥ १.७९.२० ॥

主啊,你为何越过长子耶图——湿婆罗的孙子、提婆耶尼之子——而把王国交给补卢?

1.79.21

यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः ।
शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ॥ १.७९.२१ ॥

你的长子耶图出生;其次是图尔婆苏。德鲁希优是舍尔弥什塔之子,其次是阿奴,还有补卢。

1.79.22

कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति ।
एतत्संबोधयामस्त्वां धर्मं त्वं प्रतिपालय ॥ १.७९.२२ ॥

幼子越过长者,怎能配得王位?这是我们对你说的:请守护法(达摩)。

1.79.23

ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ।
ज्येष्ठं प्रति यथा राज्यं न देयं मे कथंचन ॥ १.७९.२३ ॥

愿以婆罗门为首的诸种姓都听我的话:我绝不能违背长子而把王国交给他人。

1.79.24

मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥ १.७९.२४ ॥

我的长子耶图没有遵从我的命令;违逆父亲的人,在善人看来不算是儿子。

1.79.25

मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः ।
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥ १.७९.२५ ॥

遵从父母之言、有益而合宜的儿子,才是真正的儿子;对父母如同儿子一般行事的人,也是儿子。

1.79.26

पुदिति नरकस्याख्या दुःखं च नरकं विदुः ।
पुतस्त्राणात्ततः पुत्त्रमिहेच्छन्ति परत्र च ॥ १.७९.२६ ॥

“普特”是地狱的名字,人们知道地狱即是苦;因此凭借儿子的救度,人们在此世与彼世都希望有儿子。

1.79.27

आत्मनः सदृशः पुत्रः पितृदेवर्षिपूजने ।
यो बहूनां गुणकरः स पुत्रो ज्येष्ठ उच्यते ॥ १.७९.२७ ॥

与自己相似、敬奉祖先、诸天与仙人,且利益众人的儿子,才被称为长子。

1.79.28

मूकोऽन्धो बधिरः श्वित्री स्वधर्मं नानुतिष्ठति ।
चोरः किल्बिषिकः पुत्रो ज्येष्ठो न ज्येष्ठ उच्यते ॥ १.७९.२८ ॥

哑、盲、聋、患癞、不行自身本分、为盗贼或有罪之子,不是长子,也不被称为长子。

1.79.29

ज्येष्ठांशहारी गुणकृदिह लोके परत्र च ।
श्रेयान्पुत्रो गुणोपेतः स पुत्रो नेतरो वृथा।
वदन्ति धर्मं धर्मज्ञाः पितॄणां पुत्रकारणात् ॥ १.७९.२९ ॥

承受长子之分、于今世与来世皆有益的儿子最为优秀;有德之子才是儿子,其余则徒然。知法者说,为祖先之故,儿子即是法。

1.79.30

वेदोक्तं संभवं मह्यमनेन हृदयोद्भवम् ।
तस्य जातमिदं कृत्स्नमात्मा पुत्र इति श्रुतिः ॥ १.७९.३० ॥

按吠陀所说,我的出生由此子而来,他生于我心,由他此一切皆生。“自我即是儿子”,经典如此说。

1.79.31

यदुनाऽहमवज्ञातस्तथा तुर्वसुनापि च ।
द्रुह्युना चानुना चैव मय्यवज्ञ कृता भृशम् ॥ १.७९.३१ ॥

耶都轻视我,图尔婆修亦然;德鲁希尤与阿奴也对我极为不敬。

1.79.32

पूरुणा तु कृतं वाक्यं मानितं च विशेषतः ।
कनीयान्मम दायादो धृता येन जरा मम ॥ १.७९.३२ ॥

然而普如遵从了我的话,并格外尊重它;我的幼子,他承担了我的衰老。

1.79.33

मम कामः स च कृतः पूरुणा मित्ररूपिणा ।
शुक्रेण च वरोदत्तः काव्येनोशनसा स्वयम् ॥ १.७९.३३ ॥

普如以朋友的形象满足了我的愿望;而诗人乌莎那斯·首陀罗本人曾赐予我恩惠。

1.79.34

पुत्रो यस्त्वाऽनुवर्तेत स राजा पृथिवीपतिः ।
यो वानुवर्ती पुत्राणां स पुत्रो दायभाग्भवेत् ॥ १.७९.३४ ॥

谁顺从于我的儿子,便将成为国王,大地之主;或者,在众子中谁顺从,那子便分享继承。

1.79.35

भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् ।
यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा ॥ १.७९.३५ ॥

因此我恳求你们:让普如在王国中受灌顶,因为他是具备德行的儿子,始终有益于父母。

1.79.36

सर्वमर्हति कल्याणं कनीयानपि सत्तमः ।
वेद धमार्थशास्त्रेषु मुनिभिः कथितं पुरा ॥ १.७९.३६ ॥

虽然最年幼,他却是善人中最优秀的,应得一切福祉;他精通法与利的论典,正如古代诸牟尼所宣说。

1.79.37

अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव ।
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥ १.७९.३७ ॥

令你欢喜的儿子普鲁配得这王位;因为究罗的恩赐,我们无法回答。

1.79.38

पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा ।
अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मनः ॥ १.७९.३८ ॥

城乡民众欢喜地如此进言,那时那胡莎便将自己的儿子普鲁立为自己王国的君主。

1.79.39

यदुं च तुर्वसुं चोभौ द्रुह्युं चैव सहानुजम् ।
अन्तेषु स विनिक्षिप्य नाहुषः स्वात्मजान्सुतान् ॥ १.७९.३९ ॥

那胡莎将雅都与图尔婆苏两人,以及德鲁希尤与其幼弟,他自己的儿子们,安置于边境。

1.79.40

दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः ।
पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥ १.७९.४० ॥

将王国交给普鲁,并发誓进入森林苦修之后,国王便与婆罗门和苦行者一同离开了城市。

1.79.41

देवयान्या च सहितः शर्मिष्ठया च भारत ।
अकरोत्स वने राजा सभार्यस्तप उत्तमम् ॥ १.७९.४१ ॥

婆罗多啊,国王与提婆尤尼及舍尔弥瑟陀同行,与妻子们一起在森林中行最高的苦行。

1.79.42

यदोस्तु यादवा जातास्तुर्वसोर्यवनाः स्मृताः ।
द्रुह्योः सुतास्तु वै भोजा अनोस्तु म्लेच्छजातयः ॥ १.७९.४२ ॥

雅都的后裔为雅达瓦人;图尔婆苏的后裔被称为耶婆那人。德鲁希尤的儿子们是博阁人,阿奴的后代则是野蛮部族。

1.79.43

पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव ।
इदं वर्षसहस्राणि राज्यं कारयितुं वशी ॥ १.७९.४३ ॥

普鲁的家族称为波罗婆族,你,国王啊,就出生在这一族中。这个自制的家族能够统治王国数千年。