Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.81

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.81.1

स्वर्गतः स तु राजेन्द्रो निवसन्देववेश्मनि ।
पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ॥ १.८१.१ ॥

这位王中之王升天后居于诸神之宫,受到三十三天、萨提耶、摩录多和婆苏的尊敬。

1.81.2

देवलोकं ब्रह्मलोकं संचरन्पुण्यकृद्वशी ।
अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥ १.८१.२ ॥

他游历诸神之界与梵天之界,这位行善、自制的大地守护者,据传说在那里住了很久。

1.81.3

स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् ।
कथान्ते तत्र शक्रेण स पृष्टः पृथिवीपतिः ॥ १.८१.३ ॥

一次,王者中最优秀的雅提到了因陀罗处。谈话结束时,因陀罗向这位大地之主提出了一个问题。

1.81.4

यदा स पूरुस्तव रूपेण राज-
ञ्जरां गृहीत्वा प्रचचार भूमौ।
तदा च राज्यं संप्रदायैव तस्मै ।
त्वया किमुक्तः कथयेह सत्यम् ॥ १.८१.४ ॥

国王啊,当普鲁以你的形貌背负衰老在大地上游走时,你便将王国交给了他。你对他说了什么?请在此如实说来。

1.81.5

गङ्गायमुनयोर्मध्ये कृत्स्नोयं विषयस्तव ।
मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ॥ १.८१.५ ॥

恒河与亚穆纳河之间的整片疆土都是你的。你是大地中央的国王,你的兄弟们则是边远地区的统治者。

1.81.6

न च कुर्यान्नरो दैन्यं शाठ्यं क्रोधं तथैव च ।
जैहयं च मत्सरं वैरं सर्वत्रेदं न कारयेत् ॥ १.८१.६ ॥

人不应当怯懦、欺诈、愤怒、因胜利而骄傲、嫉妒或结仇;也不应到处促使这些发生。

1.81.7

मातरं पितरं ज्येष्ठं विद्वांसं च तपोधनम् ।
क्षमावन्तं च राजेन्द्र नावमन्येत बुद्धिमान् ॥ १.८१.७ ॥

王中之王啊,智者不应轻视母亲、父亲、长者、学者、以苦行为财富者,以及有忍耐力之人。

1.81.8

ळशक्तस्तु क्षमते नित्यमशक्तः क्रुध्यते नरः ।
दुर्जनः सुजनं द्वेष्टि दुर्बलो बलवत्तरम् ॥ १.८१.८ ॥

有能力者常常宽恕,无能力者便愤怒。恶人憎恨善人,弱者憎恨更强者。

1.81.9

रूपवन्तमरूपी च धनवन्तं च निर्धनः ।
अकर्मी कर्मिणं द्वेष्टि धार्मिकं च नधार्मिकः ॥ १.८१.९ ॥

丑陋者憎恶美貌者,贫穷者憎恶富有者,懒惰者憎恶勤勉者,不义者憎恶虔诚者。

1.81.10

निर्गुणो गुणवन्तं च पुत्रैतत्कलिलक्षणम् ।
विपरीतं च राजेन्द्र एतेषु कृतलक्षणम् ॥ १.८१.१० ॥

儿啊,无德者憎恶有德者,这是迦利时代的标志;王中之王啊,与此相反,则是克里塔时代的标志。

1.81.11

ब्राह्मणो वाथ वा राजा वैश्यो वा शूद्र एव वा ।
प्रशस्तेषु प्रसक्ताश्चेत्प्रशस्यन्ते यशस्विनः ॥ १.८१.११ ॥

无论是婆罗门、刹帝利、吠舍,还是首陀罗,若他专注于值得赞扬之人,有名望者便会赞扬他。

1.81.12

तस्मात्प्रशस्ते राजेन्द्र नरः सक्तमना भवेत् ।
अलोकज्ञा ह्यप्रशस्ता भ्रातरस्ते ह्यबुद्धयः ॥ १.८१.१२ ॥

因此,王中之王啊,人应当将心专注于值得赞扬之人。你那些不谙世故、不值得称赞的兄弟,确实愚昧无知。

1.81.13

अन्त्याधिपतयः सर्वे ह्यभवन्गुरुशासनात् ।
त्वं हि धर्मविदो राजन्कत्थसे धर्मसुत्तमम्।
कथयस्व पुनर्मेऽद्य लोकवृत्तान्तमुत्तमम् ॥ १.८१.१३ ॥

所有末位的主宰都是依师父的教导而成的。大王啊,你通晓法,却自夸最上的法。现在请再为我讲述最上的世间之事。

1.81.14

अक्रोधनः क्रोधनेभ्यो विशिष्ट-
स्तथा तितिक्षुरतितिक्षोर्विशिष्टः।
अमानुषेभ्यो मानुषाश्च प्रधाना ।
विद्वांस्तथैवाविदुषः प्रधानः ॥ १.८१.१४ ॥

不动怒者胜于易怒者;同样,忍耐者胜于不能忍耐者。人胜于非人;有学问者胜于无学问者。

1.81.15

आक्रुश्यमानो नाकोशेन्मन्युरेव तितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ १.८१.१५ ॥

受辱时不应以牙还牙;忍耐者的怒火会烧毁辱骂者,并夺取他的功德。

1.81.16

नारुन्तुदः स्यान्न नृशंसवादी ।
न हीनतः परमभ्याददीत।
ययाऽस्य वाचा पर उद्विजेत ।
न तां वदेद्रुशतीं पापलोक्याम् ॥ १.८१.१६ ॥

不应以言语伤人,不应说残忍之语;不应从卑贱者那里取得上等之物。不要说那种让别人痛苦、导向罪恶世界的粗暴之言。

1.81.17

अरुन्तुदं पुरुषं तीक्ष्णवाचं ।
वाक्कण्टकैर्वितुदन्तं मनुष्यन्।
विद्यादलक्ष्मीकतमं जनानां ।
मुखे निबद्धां निर्ऋतिं वहन्तम् ॥ १.८१.१७ ॥

应当知道,那舌锋锐利、以言语之刺伤害他人的人,是众人中最不吉祥的,他口中衔着灾祸。

1.81.18

सद्भिः पुरस्तादभिपूजितः स्या-
त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात्।
सदाऽसतामतिवादांस्तितिक्षे-
त्सतां वृत्तं चाददीतार्यवृत्तः ॥ १.८१.१८ ॥

愿他在前受善人尊崇,在后受善人庇护。应常忍受恶人的粗言,效法善人的行为,成为行为高尚之人。

1.81.19

वाक्सायका वदनान्निष्पतन्ति ।
यैराहतः शोचति रात्र्यहानि।
परस्य ये मर्मसु संपतन्ति ।
तान्पण्डितो नावसृजेत्परेषु ॥ १.८१.१९ ॥

话语之箭从口中射出;被其所伤者日夜悲伤。那些落在他人要害之处的,智者不应射向他人。

1.81.20

नहीदृशं संवननं त्रिषु लोकेषु विद्यते ।
दया मैत्री च भूतेषु दानं च मधुरा च वाक् ॥ १.८१.२० ॥

三界之中没有像这样的纽带:对众生的慈悲与友爱、布施,以及甜美的言辞。

1.81.21

तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् ।
पूज्यान्संपूजयेद्दद्यान्न च याचेत्कदाचन ॥ १.८१.२१ ॥

因此应当常说安慰之言,不可说粗暴之语。应敬重值得尊敬的人,应施舍,且绝不乞求。