摩诃婆罗多 · 章 1.86
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.86.1
कतरस्त्वनयोः पूर्वं देवानामेति साम्यताम् ।
उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव ॥ १.८६.१ ॥
大王啊,这两人如同日月般奔驰,其中谁将首先达到与诸神同等的境界?
1.86.2
अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः ।
ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः ॥ १.८६.२ ॥
在家人与随欲而活的人之中,无家而自制,虽居村落却是乞士的人,已先于那两人而去。
1.86.3
अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् ।
तप्यते यदि तत्कृत्वा चरेत्सोऽन्यत्तपस्ततः ॥ १.८६.३ ॥
若人未得长寿而陷于衰败,因此而悔恨,则应随后修习另一种苦行。
1.86.4
पापानां कर्मणां नित्यं बिभीयाद्यस्तु मानवः ।
सुखमप्याचरन्नित्यं सोऽत्यन्तं सुखमेधते ॥ १.८६.४ ॥
常怀恐惧于恶业之人,即使时时行善求乐,也会在极大的安乐中兴盛。
1.86.5
यद्वै नृशंसं तदसत्यमाहु-
र्यः सेवते धर्ममनर्थबुद्धिः।
अस्वोऽप्यनीशश्च तथैव राजं-
स्तदार्जवं स समाधिस्तदार्यम् ॥ १.८६.५ ॥
残忍被称为虚妄。若人以无私利之心奉行法,即使无财无权,大王啊,那便是正直,便是定心,便是高尚的行为。
1.86.6
केनासि हूतः प्रहितोऽसि राज-
न्युवा स्रग्वी दर्शनीयः सुवर्चाः।
कुतऋ आयातः कतरस्यां दिशि त्व-
मुताहोस्वित्पार्थिवं स्थानमस्ति ॥ १.८६.६ ॥
大王啊,是谁召你、派你而来?你年轻,佩戴花环,相貌俊美,光彩照人。你从哪个方向而来?还是你在大地上有自己的居所?
1.86.7
त्वरन्ति मां लोकपा ब्राह्मणा ये ॥ १.८६.७ ॥
诸界护持者与婆罗门们催促我。
1.86.8
सतां सकाशे तु वृतः प्रपात-
स्ते सङ्गता गुणवन्तश्च सर्वे।
शक्राच्च लब्धो हि वरो मयैष ।
पतिष्यता भूमितलं नरेन्द्र ॥ १.८६.८ ॥
在善人面前,我的坠落已定;他们都是有德之人,齐聚于此。此恩典我得自因陀罗。啊,人中之王!
1.86.9
पृच्छामि त्वां मा प्रपत प्रपातं ।
यदि लोकाः पार्थिव सन्ति मेऽत्र।
यद्यन्तरिक्षे यदि वा दिवि स्थिताः ।
क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ १.८६.९ ॥
我问你:不要坠落。啊,国王,若我的诸界存在于此、于虚空、或于天上,那么我认为你知晓那法。
1.86.10
यावत्पृथिव्यां विहितं गवाश्वं ।
सहारण्यैः पशुभिः पार्वतैश्च।
तावल्लोका दिवि ते संस्थिता वै ।
तथा विजानीहि नरेन्द्रसिंह ॥ १.८६.१० ॥
地上所分配的牛、马、森林、禽兽与山岳有多少,你在天上所立的诸界便有多少。请如此知晓,啊,王中之狮!
1.86.11
तांस्ते ददामि मा प्रपत प्रपातं ।
ये मे लोका दिवि राजेन्द्र सन्ति।
यद्यन्तरिक्षे यदि वा दिवि श्रिता-
स्तानाक्रम क्षिप्रमपेतमोहः ॥ १.८६.११ ॥
啊,诸王之主,我将天上属于我的诸界交给你;不要坠落。若它们安住于虚空或天上,你便当摆脱迷惑,迅速登上它们。
1.86.12
नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च ।
प्रतिग्रहे वर्तते राजमुख्य।
यथा प्रदेयं सततं द्विजेभ्य-
स्तथाऽददं पूर्वमहं नरेन्द्र ॥ १.८६.१२ ॥
王中之最,像我这样非婆罗门却知梵者,不从事受施。人主啊,正如应当常常布施给再生族,我先前也是这样施予的。
1.86.13
नाब्राह्मणः कृपणो जातु जीवे-
द्या चाप्यस्याऽब्राह्मणी वीरपत्नी।
सोऽहं नैवाकृतपूर्वं चरेयं ।
विधित्समानः किमु तत्र साधुः ॥ १.८६.१३ ॥
吝啬的非婆罗门从不长久活着,他那非婆罗门的英雄之妻也一样。我不会做以前从未做过的事;想要施予时,那里什么才是好的?
1.86.14
पृच्छामि त्वां स्पृहणीयरूप ।
प्रतर्दनोऽहं यदि मे सन्ति लोकाः।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः ।
क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ १.८६.१४ ॥
具可欲之形者啊,我问你:我是普罗塔尔丹那。若我的诸界存在于虚空中或天上,我认为你是那法的知者。
1.86.15
सन्ति लोका बहवस्ते नरेन्द्र ।
अप्येकैकः सप्तसप्ताप्यहानि।
मधुच्युतो घृतपृक्ता विशोका-
स्ते नान्तवन्तः प्रतिपालयन्ति ॥ १.८६.१५ ॥
人主啊,你有许多世界;其中每一个,即使经过七个七日,滴着蜜、混着酥油、无忧而无尽,都在等待你。
1.86.16
तांस्ते ददानि मा प्रपत प्रपातं ।
ये मे लोकास्तव ते वै भवन्तु।
यद्यन्तरिक्षे यदि वा दिवि श्रिता-
स्तानाक्रम क्षिप्रमपेतमोहः ॥ १.८६.१६ ॥
我把它们给你;不要坠落,不要陷入堕落。我的那些世界,愿它们成为你的,无论它们位于虚空中还是天上;摆脱迷惑,迅速踏上它们。
1.86.17
न तुल्यतेजाः सुकृतं कामयेत ।
योगक्षेमं पार्थिव पार्थिवः सन्।
दैवादेशादापदं प्राप्य विद्वां-
श्चरेन्नृशंसं न हि जातु राजा ॥ १.८६.१७ ॥
与其同等光辉者不应贪求善业;身为君王者不应贪求利益与安稳。因天命之令而遭遇灾难时,有智慧的君王绝不应行残忍之事。
1.86.18
धर्म्यं मार्गं यतमानो यशस्यं ।
कुर्यान्नृपो धर्ममवेक्षमाणः।
न मद्विधो धर्मबुद्धिः प्रजान-
न्कुर्यादेवं कृपणं मां यथाऽत्थ ॥ १.८६.१८ ॥
君王应努力走正法而光荣的道路,顾念正法而行事。像我这样心怀正法的人,即便知道,也不会像你对我这个可怜人所说的那样去做。
1.86.19
कुर्यादपूर्वं न कृतं यदन्यै-
र्विधित्समानः किमु तत्र साधु।
धर्माधर्मौ सुविनिश्चित्य सम्य-
क्कार्याकार्येष्वप्रमत्तश्चरेद्यः ॥ १.८६.१९ ॥
即使有人想做前人未做过的事,那又有什么好处呢?能够审慎确定正法与非法,在应做与不应做之事上保持警觉而行事的人,才是最优秀的。
1.86.20
स वै धीमान्सत्यसन्धः कृतात्मा ।
राजा भवेल्लोकपालो महिम्ना।
यदा भवेत्संशयो धर्मकार्ये ।
कामार्थौ वा यत्र विन्दन्ति सम्यक् ॥ १.८६.२० ॥
这位智慧、守信、自制的人,凭其威德成为国王与世界的守护者。当法事上生出疑惑,或欲与利在此得到正当获取时。
1.86.21
कार्यं तत्र प्रथमं धर्मकार्यं ।
यन्नो विरुध्यादर्थकामौ स धर्मः
ब्रुवाणमेवं नृपतिं ययातिं ।
नृपोत्तमो वसुमानब्रवीत्तम् ॥ १.८६.२१ ॥
在那里,首要之务是法事;不与利和欲相违者即是法。对如此说话的王者耶耶提,最优秀的国王婆苏摩那回答道。