摩诃婆罗多 · 章 1.87
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.87.1
पृच्छामि त्वां वसुमानौषदश्वि-
र्यद्यस्ति लोको दिवि मे नरेन्द्र।
यद्यन्तरिक्षे प्रथितो महात्मन् ।
क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ १.८७.१ ॥
人主啊,伟大的人,我问你:天上是否有属于我的世界,或空中是否有著名的世界?我认为你通晓那法。
1.87.2
यदन्तरिक्षं पृथिवी दिशश्च ।
यत्तेजसा तपते भानुमांश्च।
लोकास्तावन्तो दिवि संस्थिता वै ।
तेनान्तवन्तः प्रतिपालयन्ति ॥ १.८७.२ ॥
空界、大地、诸方以及以光辉照耀的太阳所有之境,天上所立诸界亦与之相等;它们虽有穷尽,却依此而得维持。
1.87.3
तांस्ते ददानि मा प्रपत प्रपातं ।
ये मे लोकास्तव ते वै भवन्तु।
क्रीणीष्वैतांस्तृणकेनापि राज-
न्प्रतिग्रहस्ते यदि धीमन्प्रदुष्टः ॥ १.८७.३ ॥
我将它们给你;不要坠入堕落的深渊。愿我的诸界归于你。国王啊,即使以一根草的代价买下它们吧,只要你接受布施、智者啊,没有玷污。
1.87.4
न मिथ्याऽहं विक्रयं वै स्मरामि ।
वृथा गृहीतं शिशुकाच्छङ्कमानः।
कुर्यां न चैवाकृतपूर्वमन्यै-
र्विधित्समानः किमु तत्र साधुः ॥ १.८७.४ ॥
我不记得曾经虚假地进行买卖;像孩子一样担心白白接受的布施,我不会做前人从未做过的事。若想做连他人也不该做的事,那里又有什么是善的呢?
1.87.5
तांस्त्वं लोकान्प्रतिपद्यस्व राज-
न्मया दत्तान्यदि नेष्टः क्रयस्ते।
अहं न तान्वै प्रतिगन्ता नरेन्द्र ।
सर्वे लोकास्तव ते वै भवन्तु ॥ १.८७.५ ॥
国王啊,若我所施予的这些不被你视为买价,那么你便去获得那些世界吧。人主啊,我不会去获得它们;愿那一切世界都属于你。
1.87.6
पृच्छामि त्वां शिबिरौशीनरोऽहं ।
ममापि लोका यदि सन्तीह तात।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः ।
क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ १.८७.६ ॥
我,乌沙那罗之子尸毗,问你:若我的世界也存在于此,亲爱的,若它们安居于虚空或天界,那么我便认为你是知晓那法的人。
1.87.7
यत्त्वं वाचा हृदयेनापि साधू-
न्परीप्समानान्नावमंस्था नरेन्द्र।
तेनानन्ता दिवि लोकाः श्रितास्ते ।
विद्युद्रूपाः स्वनवन्तो महान्तः ॥ १.८७.७ ॥
人主啊,你即使在言语上、心意上也未曾轻慢那些想要保护你的善人;因此你那无尽的、如闪电般的、响彻的伟大世界安居于天界。
1.87.8
तांस्त्वं लोकान्प्रतिपद्यस्व राज-
न्मया दत्तान्यदि नेष्टः क्रयस्ते।
न चाहं तान्प्रतिपत्स्ये ह दत्त्वा ।
यत्र गत्वा नानुशोचन्ति धीराः ॥ १.८७.८ ॥
国王啊,若我所施予的那些世界不被你视为买价,那你便去获得它们吧。我在此施舍之后,不会去获得那些世界——智者前往那里便不再悲伤。
1.87.9
यथा त्वमिन्द्रप्रतिमप्रभाव-
स्ते चाप्यनन्ता नरदेव लोकाः।
तथाऽद्य लोके न रमेऽन्यदत्ते ।
तस्माच्छिबे नाभिनन्दामि दायम् ॥ १.८७.९ ॥
人主啊,正如你的威力与因陀罗相等,你的诸界也无穷无尽,而今我在这由他人所赐的世界中并不快乐。因此,尸毗之裔啊,我不欣赏所施之布施。
1.87.10
न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि ।
सर्वे प्रदाय भवते गन्तारो नरकं वयम् ॥ १.८७.१० ॥
国王啊,如果你不一一接受我们的诸界,那么我们都将把它们交给你,然后堕入地狱。
1.87.11
यदर्होऽहं तद्यतध्वं सन्तः सत्याभिनन्दिनः ।
अहं तन्नाभिजानामि यत्कृतं न मया पुरा ॥ १.८७.११ ॥
诸位好人,喜爱真理的人们啊,请努力做那适合于我的事。我不记得以前做过什么我未曾做过的事情。
1.87.12
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः ।
यानारुह्य नरो लोकानभिवाञ्छति शाश्वतान् ॥ १.८७.१२ ॥
这五辆可见的金色战车是谁的?人乘上它们便渴望那永恒的诸界。
1.87.13
युष्मानेते वहिष्यन्ति रथाः पञ्च हिरण्मयाः ।
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥ १.८७.१३ ॥
这五辆金色战车将载你们前行。诸位好人,它们高高地闪耀着,如同燃烧的火焰。
1.87.14
अश्वमेधे महायज्ञे स्वयंभुविहिते पुरा ।
हयस्य यानि चाङ्गानि संनिकृत्य यथाक्रमम् ॥ १.८७.१४ ॥
在往昔由自生主所制定的大祭马祀中,依次切割马的各个肢体。
1.87.15
होताऽध्वर्युरथोद्गाता ब्रह्मणा सह भारत ।
अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः ॥ १.८७.१५ ॥
婆罗多的后裔啊,祭司(hotṛ)、行祭者(adhvaryu)、歌咏者(udgātṛ)与梵祭司一同,全部十六位祭官依法将供品投入火中。
1.87.16
धूमगन्धं च पापिष्ठा ये जिघ्रन्ति नरा भुवि ।
विमुक्तपापाः पूतास्ते तत्क्षणेनाभवन्नराः ॥ १.८७.१६ ॥
世间最罪孽深重之人若嗅到烟的香气,便立即脱离罪业、获得清净,成为真正的人。
1.87.17
एतस्मिन्नन्तरे चैव माधवी सा तपोधना ।
मृगचर्मपरीताङ्गी परिधाय मृगत्वचम् ॥ १.८७.१७ ॥
就在此时,以苦行为财富的摩陀维,身披鹿皮、全身裹着鹿皮衣走了过来。
1.87.18
मृगैः परिचरन्ती सा मृगाहारविचेष्टिता ।
यज्ञवाटं मृगगणैः प्रविश्य भृशविस्मिता ॥ १.८७.१८ ॥
她侍奉鹿群,以鹿的食物为生活,与鹿群一同走进祭场,极为惊讶。
1.87.19
आघ्रायन्ती धूमगन्धं मृगैरेव चचार सा ।
यज्ञवाटमटन्ती सा पुत्रांस्तानपराजितान् ॥ १.८७.१९ ॥
她嗅着烟的香气,与鹿群一同游荡;在祭场中漫步时,她看见了那些不可战胜的儿子们。
1.87.20
पश्यन्ती यज्ञमाहात्म्यं मुदं लेभे च माधवी ।
असंस्पृशन्तं वसुधां ययातिं नाहुषं यदा ॥ १.८७.२० ॥
摩陀维看到祭祀的伟大,心中生出喜悦;那时,那呼沙之子耶耶底尚未踏上大地。
1.87.21
दिविष्ठं प्राप्तमाज्ञाय ववन्दे पितरं तदा ।
तदा वसुमनापृच्छन्मातरं वै तपस्विनीम् ॥ १.८७.२१ ॥
他认出天上居住的父亲已经到来,便向他行礼。于是婆苏摩那问他那位苦行的母亲。
1.87.22
भवत्या यत्कृतमिदं वन्दनं पादयोरिह ।
कोयं देवोपमो राजा याऽभिवन्दसि मे वद ॥ १.८७.२२ ॥
你在这里向我的脚行礼,是什么缘故?你所拜的这位如神般的国王是谁?请告诉我。
1.87.23
शृणुध्वं सहिताः पुत्रा नाहुषोयं पिता मम ।
ययातिर्मम पुत्राणां मातामह इति स्मृतः ॥ १.८७.२३ ॥
儿子们,你们都来听:这是那胡沙之子耶延提,我的父亲。他被视为我儿子们的外祖父。
1.87.24
पूरुं मे भ्रातरं राज्ये समावेश्य दिवं गतः ।
केन वा कारणेनैवमिह प्राप्तो महायशाः ॥ १.८७.२४ ॥
他让我的弟弟普鲁登上王位后便升天而去。这位大名远扬的人,因何缘故这样来到这里?
1.87.25
तस्यास्तद्वचनं श्रुत्वा स्वर्गाद्भ्रष्टेति चाब्रवीत् ।
सा पुत्रस्य वचः श्रुत्वा संभ्रमाविष्टचेतना ॥ १.८७.२५ ॥
他听了她的话,说他已从天上坠落。她听到儿子的话,心中为慌乱所充满。
1.87.26
माधवी पितरं प्राह दौहित्रपरिवारितम् ।
तपसा निर्जिताँल्लोकान्प्रतिगृह्णीष्व मामकान् ॥ १.८७.२६ ॥
摩陀维对被外孙们环绕的父亲说:'请接受我以苦行赢得的世界,那些属于我的世界。'
1.87.27
पुत्राणामिव पौत्राणां धर्मादधिगतं धनम् ।
स्वार्थणेव वदन्तीह ऋषयो धर्मपाठकाः।
तस्माद्दानेन तपसा चास्माकं दिवमाव्रज ॥ १.८७.२७ ॥
正如子孙所得,以法而得的财富,法之教导者诸仙在此说为自己的。因此,凭布施与苦行,升往我们的天界吧。
1.87.28
यदि धर्मफलं ह्येतच्छोभनं भविता तव ।
दुहित्रा चैव दौहित्रैस्तारितोऽहं महात्मभिः ॥ १.८७.२८ ॥
若此法之果于你为吉祥,那么我已经由女儿及其大德的外孙们得以救度。
1.87.29
तस्मात्पवित्रं दौहित्रमद्यप्रभृति पैतृके ।
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ॥ १.८७.२९ ॥
因此从今日起,女儿之子在祖先祭祀中为清净者。在施食礼中有三种清净之物:女儿之子、库塔帕与芝麻。
1.87.30
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ।
भोक्तारः परिवेष्टारः श्रावितारः पवित्रकाः ॥ १.८७.३० ॥
此处称颂三事:清净、不怒、不急。食者、奉食者、诵经者皆为清净之人。
1.87.31
दिवसस्याष्टमे भागे मन्दीभवति भास्करे ।
स कालः कुतपो नाम पितॄणां दत्तमक्षयम् ॥ १.८७.३१ ॥
白日的第八分,太阳渐暗之时,名为库塔帕之时;此时所献给祖先之物为不坏之物。
1.87.32
तिलाः पिशाचाद्रक्षन्ति दर्भा रक्षन्ति राक्षसात् ।
रक्षन्ति श्रोत्रियाः पङ्क्तिं यतिभिर्भुक्तमक्षयम् ॥ १.८७.३२ ॥
芝麻护佑免于毗舍遮,吉祥草护佑免于罗刹;博学的婆罗门守护席位,苦行者所食之物为不坏之物。
1.87.33
लब्ध्वा पात्रं तु विद्वांसं श्रोत्रियं सुव्रतं शुचिम् ।
स कालः कालतो दत्तं नान्यथा काल इष्यते ॥ १.८७.३३ ॥
若得到值得受施的人——博学、精通吠陀、持守善誓且清净者——则应在适当的时候布施,方为所求;不应以他法。
1.87.34
एवमुक्त्वा ययातिस्तु पुनः प्रोवाच बुद्धिमान् ।
सर्वे ह्यवभृथस्नातास्त्वरध्वं कार्यगौरवात् ॥ १.८७.३४ ॥
如此说罢,智慧的耶耶提又说:“你们都已在阿婆鲁陀沐浴完毕;因事务重大,请快些。”
1.87.35
आतिष्ठ स्वरथं राजन्विक्रमस्व विहायसम् ।
वयमप्यनुयास्यामो यदा कालो भविष्यति ॥ १.८७.३५ ॥
大王,登上你的战车,勇敢地向天空前进;时机到来时,我们也将跟随你。
1.87.36
सर्वैरिदानीं गन्तव्यं सह स्वर्गजितो वयम् ।
एष नो विरजाः पन्था दृश्यते देवसद्मनः ॥ १.८७.३६ ॥
现在我们都应一同前往,我们这些征服天界者;通往诸神居所的这条纯净之路正呈现在我们眼前。
1.87.37
अष्टकश्च शिबिश्चैव काशेयश्च प्रतर्दनः ।
ऐक्ष्वाकवो वसुमनाश्चत्वारो भूमिपास्तदा।
सर्वे ह्यवभृथस्नाताः स्वर्गताः साधवः सह ॥ १.८७.३७ ॥
阿湿吒迦、尸毗、迦尸耶·普罗达那,以及甘蔗王族的婆苏摩那斯——这四位国王在阿婆鲁陀沐浴后,与善人一同升入天界。
1.87.38
तेऽधिरुह्य रथान्सर्वे प्रयाता नृपस्तमाः ।
आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ॥ १.८७.३८ ॥
这些最优秀的国王都登上战车出发,以光辉升向天空,以法遍覆天地两界。
1.87.39
अहं मन्ये पूर्वमेकोऽस्मि गन्ता ।
सखा चेन्द्रः सर्वथा मे महात्मा।
कस्मादेवं शिबिरौशीनरोऽय-
मेकोऽत्यगात्सर्ववेगेन वाहान् ॥ १.८७.३९ ॥
我本以为会是我独自先行;大方的因陀罗在各方面都是我的朋友。为何乌叔那罗之子尸毗独自以全速超过了马匹?
1.87.40
अददद्याचमानाय यावद्वित्तमविन्दत ।
उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठोहि वः शिबिः ॥ १.८७.४० ॥
乌叔那罗之子尸毗,向乞求者给予他所拥有的全部财富。因此,在你们之中,尸毗最为优秀。
1.87.41
दानं तपः संत्यमथाऽपि धर्मो ।
ह्रीः श्रीः क्षमा सौम्यमथो विधित्सा।
राजन्नेतान्यप्रमेयाणि राज्ञः ।
शिबेः स्थितान्यप्रतिमस्य बुद्ध्या ॥ १.८७.४१ ॥
布施、苦行、真实、法、羞耻、光荣、忍耐、温和,以及依法施与的愿望——大王啊,这些无量的美德安住在智慧无比的尸毗王身上。
1.87.42
एवं वृत्तो ह्रीनिषेवश्च यस्मा-
त्तस्माच्छिबिरत्यगाद्वै रथेन।
अथाष्टकः पुनरेवान्वपृच्छ-
न्मातामहं कौतुकेनेन्द्रकल्पम् ॥ १.८७.४२ ॥
因为尸毗如此行事并守持羞耻,他果然乘车超过了众人。于是阿湿吐迦出于好奇,又向他那如同因陀罗一般的外祖父发问。
1.87.43
पृच्छामि त्वां नृपते ब्रूहि सत्यं ।
कुतश्च कश्चासि सुतश्च कस्य।
कृतं त्वया यद्धि न तस्य कर्ता ।
लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ॥ १.८७.४३ ॥
大王啊,我问你,请据实相告:你从何处来,你是谁,是谁的儿子?你所做的事,世上除你之外,任何刹帝利或婆罗门都无法做到。
1.87.44
ययातिरस्मि नहुषस्य पुत्रः ।
पूरोः पिता सार्वबौमस्त्विहासम्।
गुह्यं चार्थं मामकेभ्यो ब्रवीमि ।
मातामहोऽहं भवतां प्रकाशम् ॥ १.८७.४४ ॥
我是那诃沙之子耶耶提,补卢之父,统治整个大地的君主。此处我说出隐秘之事,以及应告诉我族人的话;公开地说,我是你们的外祖父。
1.87.45
सर्वामिमां पृथिवीं निर्जिगाय ।
दत्त्वा प्रतस्थे विपिनं ब्राह्मणेभ्यः।
मेध्यानश्वानेकशतान्सुरूपां-
स्तदा देवाः पुण्यभाजो भवन्ति ॥ १.८७.४५ ॥
我征服了整个大地。将它布施给婆罗门后,我进入森林;我还施舍了数百匹纯净美丽的马。那时,诸神便分享功德。
1.87.46
अदामहं पृथिवीं ब्राह्मणेभ्यः ।
पूर्णामिमामखिलां वाहनेन।
गोभिः सुवर्णेन धनैश्च मुख्यै-
स्तदाऽददं गाः शथमर्बुदानि ॥ १.८७.४६ ॥
我将这整个满盈的大地连同车乘、牛群、黄金和主要财富一并施予婆罗门;那时我又施予一百亿头牛。
1.87.47
सत्येन मे द्यौश्च वसुन्धरा च ।
तथैवाग्निज्वर्लते मानुषेषु।
न मे वृथा व्याहृतमेव वाक्यं ।
सत्यं हि सन्तः प्रतिपूजयन्ति ॥ १.८७.४७ ॥
凭着真实,天与地为我而立,人间的火也同样燃烧。我所说的话并非虚言,因为善人尊崇真实。
1.87.48
यदष्टक प्रब्रवीमीह सत्यं ।
प्रतर्दनं चौषदश्विं तथैव।
सर्वे च लोका मुनयश्च देवाः ।
सत्येन पूज्या इति मे मनोगतम् ॥ १.८७.४८ ॥
阿湿吒迦啊,我在此宣说的真实,以及关于补罗陀那与奥沙达施毗的事:一切世界、圣者与诸神都应凭真实而受尊敬,这是我心中的定见。
1.87.49
यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् ।
अनसूयुर्द्विजाग्र्येभ्यः स लभेन्नः सलोकताम् ॥ १.८७.४९ ॥
凡不妒忌地将我们这些赢得天界者的所有经历如实禀告给最尊贵的再生者的人,愿他得到与我们同一世界的位置。
1.87.50
एवं राजा स महात्मा ह्यतीव ।
स्वैर्दौहित्रैस्तारितोऽमित्रसाह।
त्यक्त्वा महीं परमोदारकर्मा ।
स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥ १.८७.५० ॥
如此,这位大德之王、征服敌人者,由其自己的外孙们大力拯救,行事极为高尚,以业绩遍满大地,离开大地而升往天界。