摩诃婆罗多 · 章 1.92
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.92.1
ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् ।
नापश्यच्चाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ॥ १.९२.१ ॥
于是大臂王独自前行,遣散了大臣,在那净修林中却没有看见那位持严格誓戒的仙人。
1.92.2
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तथाऽऽश्रमम् ।
उवाच क इहेत्युच्चैर्वनं सन्नादयन्निव ॥ १.९२.२ ॥
他没有看见那位仙人,见净修林空无一人,便高声喊道:“这里有谁?”仿佛要让整座森林回响。
1.92.3
श्रुत्वाऽथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी ।
निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी ॥ १.९२.३ ॥
听到那声音,一位容貌如吉祥天女的少女,身穿苦行女的衣装,从那净修林中走了出来。
1.92.4
सा तं दृष्ट्वैव राजानं दुष्यन्तमसितेक्षणा ।
सुप्रीताऽभ्यागतं तं तु पूज्यं प्राप्तमथेश्वरम् ॥ १.९२.४ ॥
黑眼睛的少女一见国王十勇士,便十分欢喜,迎接前来的那位值得尊敬的贵客,真如同主宰。
1.92.5
रूपयौवनसंपन्ना शीलाचारवती शुभा ।
सा तमायतपद्माक्षं व्यूढोरस्कं महाभुजम् ॥ १.९२.५ ॥
这位吉祥的少女,容貌青春兼备,品行端正,凝视着他:那位长眼如莲、胸膛宽阔、双臂有力的国王。
1.92.6
सिंहस्कन्धं दीर्घबाहुं सर्वलक्षणपूजितम् ।
स्पृष्टं मधुरया वाचा साऽब्रवीज्जनमेजया ॥ १.९२.६ ॥
她以甜美的言语向那位肩如狮子、双臂修长、具足诸般吉相的国王致辞,说道:“哦,阇那美阁耶!”
1.92.7
स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ।
आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि ॥ १.९२.७ ॥
她立刻说道:"欢迎您",并以礼相还,以座位、洗足水和敬奉的供物(阿尔加)招待他。
1.92.8
पप्रच्छानामयं राजन्कुशलं च नराधिपम् ।
यथावदर्चयित्वाऽथ पृष्ट्वा चानामयं तदा ॥ १.९२.८ ॥
国王啊,她依礼恭敬地招待后,询问这位人主的安好与康健;随后又询问他的身体是否安康。
1.92.9
उवाच स्मयमानेव किं कार्यं क्रियतामिति ।
आश्रमस्याभिगमने किं त्वं कार्यं चिकीर्षसि ॥ १.९२.९ ॥
她仿佛微笑着说道:"要做什么呢?你来到这座修行处,想要做什么?"
1.92.10
कस्त्वमद्येह संप्राप्तो महर्षेराश्रमं शुभम् ।
तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् ॥ १.९२.१० ॥
"今天来到这位大仙的吉祥修行处的你是谁?"于是国王对那位言语甜美的少女说道。
1.92.11
दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः ।
राजर्षेस्तस्य पुत्रोऽहमिलिनस्य महात्मनः ॥ १.९२.११ ॥
他见到这位肢体无瑕的少女,得到了应有的礼敬,便说道:"我是王仙、大德的伊利那之子。"
1.92.12
दुष्यन्त इति मे नाम सत्यं पुष्करलोचने ।
आगतोऽहं महाभागमृषिं कण्वमुपासितुम् ॥ १.९२.१२ ॥
"荷花眼的少女啊,我的名字确实叫杜什扬塔。我是来侍奉这位大福德的仙人迦纳瓦的。"
1.92.13
क्व गतो भगवान्भद्रे गन्ममाचक्ष्व शोभने ।
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात्।
मुहूर्तं संप्रतीक्षस्व द्रष्टास्येनमुपागतम् ॥ १.९२.१३ ॥
吉祥的女子啊,光彩照人的女子啊,尊者去了哪里?请告诉我。我的父亲尊者已从修道院去采摘果实了。请稍候片刻,你将看到他归来。
1.92.14
अपश्यमानस्तमृषिं तथा चोक्तस्तया च सः ।
तां दृष्ट्वा च वरारोहां श्रीमतीं चारुहासिनीम् ॥ १.९२.१४ ॥
他没有看见那位仙人,又被她这样说了,便看见了那位腰肢优美、光彩照人、笑容甜美的女子。
1.92.15
विभ्राजमानां वपुषा तपसा च दमेन च ।
रूपयौवनसंपन्नामित्युवाच महीपतिः ॥ १.९२.१५ ॥
她身体光彩照人,以苦行与克制而显耀,具有美貌与青春,国王对她这样说道。
1.92.16
का त्वं कस्यासि सुश्रोणि किमर्थं चागता वनम् ।
एवंरूपगुणोपेता कुतस्त्वमसि शोभने ॥ १.९२.१६ ॥
你是谁,腰肢优美的女子?你是谁家的人,为何来到森林?具有如此容貌与德行的你,从何处而来,光彩照人的女子?
1.92.17
दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः ।
इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने ॥ १.९२.१७ ॥
吉祥的女子啊,仅仅看见你,你就夺走了我的心。我想知道你是谁,请告诉我,光彩照人的女子。
1.92.18
स्थितोस्म्यमितसौभाग्ये विवक्षुश्चास्मि किंचन ।
शृणु मे नागनासोरु वचनं मत्तकाशिनि ॥ १.९२.१८ ॥
具有无量福德的女子啊,我站在这里,想说几句话。请听我的话,象鼻般美妙大腿的女子,令人沉醉的女子。
1.92.19
राजर्षेरन्वये जातः पूरोरस्मि विशेषतः ।
वृण्वे त्वामद्य सुश्रोणि दुष्यन्तो वरवर्णिनि ॥ १.९२.१९ ॥
我出身于王仙之家,尤其是普卢族。美臀的姑娘,肤色美丽的女子,我杜史安多今天选择你。
1.92.20
न मेऽन्यत्र क्षत्रियाया मनो जातु प्रवर्तते ।
ऋषिपुत्रीषु चान्यासु नावरासु परासु च ॥ १.९२.२० ॥
我的心从不转向刹帝利女子以外的任何女子,无论是仙人之女,还是其他女子,无论地位低下还是高贵。
1.92.21
तस्मात्प्रणिहितात्मानं विद्दि मां कलभाषिणि ।
यस्यां मे त्वयि भावोऽस्ति क्षत्रिया ह्यसि का वदा ॥ १.९२.२१ ॥
因此你应知我心意坚定,甜言蜜语的女子。我的情意在你身上。你是刹帝利女子吗?告诉我,你是谁?
1.92.22
न हि मे भीरु विप्रायां मनः प्रसहते गतिम् ।
भजे त्वामायतापाङ्गे भक्तं भजितुमर्हसि।
भुङ्क्ष राज्यं विशालाक्षि बुद्धिं मात्वन्यथा कृथाः ॥ १.९२.२२ ॥
胆怯的女子啊,我的心不愿转向婆罗门女子。长眼的女子,我爱慕你;你应当接纳这个虔诚的人。大眼的女子,享受王国吧,不要改变你的主意。
1.92.23
एवमुक्ता तु सा कन्या तेन राज्ञा तमाश्रमे ।
उवाच हसती वाक्यमिदं सुमधुराक्षरम् ॥ १.९२.२३ ॥
国王在静修处如此说后,少女微笑着用极为甜美的话语说道:
1.92.24
कण्वस्याहं भगवतो दुष्यन्त दुहिता मता ।
तपस्विनो धृतिमतो धर्मज्ञस्य महात्मनः ॥ १.९२.२४ ॥
杜史安多啊,我被认为是尊贵的迦那瓦之女——那位苦行者、坚定、通晓法度、大德的人。
1.92.25
अस्वतन्त्रास्मि राजेन्द्र काश्यपो मे गुरुः पिता ।
तमेव प्रार्थय स्वार्थं नायुक्तं कर्तुमर्हसि ॥ १.९२.२५ ॥
王中之王啊,我不能自作主张;迦叶波是我的导师和父亲。你的请求应向他提出;你不应做不合宜之事。
1.92.26
ऊर्ध्वरेता महाभागे भगवाँल्लोकपूजितः ।
चलेद्धि वृत्ताद्धर्मोपि न चलेत्संशितव्रतः ॥ १.९२.२६ ॥
大福之人啊,那位上升精液的尊者,受世界敬仰,誓愿坚定。即使法也可能从其行为中动摇,他却不会动摇。
1.92.27
कथं त्वं तस्य दुहिता संभूता वरवर्णिनी ।
संशयो मे महानत्र तन्मे छेत्तुमिहार्हसि ॥ १.९२.२७ ॥
容貌优美的女子啊,你怎么会成为他的女儿?我在此有很大的疑惑,请你为我解开,这是你应当做的。
1.92.28
यथाऽयमागमो मह्यं यथा चेदमभूत्पुरा ।
अन्यथा सन्तमात्मानमन्यथा सत्सु भाषते ॥ १.९२.२८ ॥
我此来之事如何发生,以及往昔此事如何发生,正是如此:自身已异于此,却在善人面前说另一套话。
1.92.29
स पापेनावृतो मूर्खस्तेन आत्मापहारकः ।
शृणु राजन्यथातत्त्वं यथाऽस्मि दुहिता मुनेः ॥ १.९२.२९ ॥
那个被罪恶所覆的愚人,是小偷,是偷窃自己之人。国王啊,请听真实的情况:我如何是那位牟尼的女儿。
1.92.30
ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् ।
ऊर्ध्वरेता यथासि त्वं कुतस्त्वेयं शकुन्तला ॥ १.९२.३० ॥
这里来了某位仙人,提起了我的出身:“你既然是上升精液者,这个沙恭达罗从何而来?”
1.92.31
पुत्री त्वत्तः कथं जाता तत्त्वं मे ब्रूहि काश्यप ।
तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिवा ॥ १.९२.३१ ॥
女儿是如何从你而生的?迦叶啊,请告诉我。于是世尊对她说:国王啊,听我讲述它是如何发生的。
1.92.32
तप्यमानः किल पुरा विश्वामित्रो महत्तपः ।
सुभृशं तापयामास शक्रं सुरगणेश्वरम् ॥ १.९२.३२ ॥
往昔,毗首弥多罗修行大苦行,极度烦扰了诸天之主因陀罗。
1.92.33
तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति ।
भीतः पुरन्दरस्तस्मान्मेनकामिदमब्रवीत् ॥ १.९२.३३ ॥
因恐惧此人以苦行所生的光耀威力将把我从我的位置上驱逐,受惊的补兰达罗对梅娜卡说了这些话。
1.92.34
गुणैरप्सरसां दिव्यैर्मेनके त्वं विशिष्यसे ।
श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु ॥ १.९२.३४ ॥
梅娜卡啊,你以神圣的品德超越了天女。吉祥的人啊,为我行善吧;听我将要对你说的话。
1.92.35
असावादित्यशङ्काशो विश्वामित्रो महातपाः ।
तप्यमानस्तपो घोरं मम कम्पयते मनः ॥ १.९२.३५ ॥
那位如太阳般、大苦行的毗首弥多罗正在修行可怕的苦行,我的心在颤抖。
1.92.36
मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे ।
शंसितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ॥ १.९२.३६ ॥
梅娜卡啊,这重任在你,纤腰的人啊。毗首弥多罗自制、难以战胜,正在进行猛烈的苦行。
1.92.37
स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय ।
चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् ॥ १.९२.३७ ॥
他不能使我离开我的位置。你去诱惑他,阻碍他的苦行,做我最想要的事吧。
1.92.38
रूपयौवनमाधुर्यचेष्टितस्मितभाषणैः ।
लोभयित्वा वरारोहे तपसस्तं निवर्तय ॥ १.९२.३८ ॥
美腰的女子啊,以容貌、青春、柔媚、姿态、微笑和言语诱惑他,使他离开苦行。
1.92.39
महातेजाः स भगवांस्तथैव च महातपाः ।
कोपनश्च तथा ह्येनं जानाति भगवानपि ॥ १.९२.३९ ॥
他大有光辉,大有苦行,也易怒;尊者也知道这一点。
1.92.40
तेजस्तपसश्चैव कोपस्य च महात्मनः ।
त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ॥ १.९२.४० ॥
连你都因这位大心者的光辉、苦行与愤怒而不安;我又怎能不为他而不安呢?
1.92.41
महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् ।
क्षत्रजातश्च यः पूर्वमभवद्ब्राह्मणो बलात् ॥ १.९२.४१ ॥
他使大福的婆私湿陀与他心爱的儿子们分离;他先前生为刹帝利,却以武力成为婆罗门——
1.92.42
शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः ।
यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः ॥ १.९२.४२ ॥
他为了净化,以众多水流使一条河难以渡过——世人称这条最为神圣的河为“憍尸迦”。
1.92.43
बभार यत्रास्य पुरा काले दुर्गे महात्मनः ।
दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ॥ १.९२.४३ ॥
往昔,那位大德在此供养他的妻子;正法的摩única,王仙,堕入了猎人的境地。
1.92.44
अतीतकाले दुर्भिक्षे अभ्येत्य पुनराक्षमम् ।
मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ॥ १.९२.४४ ॥
往昔饥荒之时,那位仙人又回到修行处,那时那位主宰为这条河取名为「Pāra」。
1.92.45
मतङ्गं याजयाञ्चक्रे यत्र प्रीतमनाः स्वयम् ।
त्वं च सोमं भयाद्यस्य गतः पातुं सुरेश्वर ॥ १.९२.४५ ॥
在那里,他心中欢喜,亲自令摩única主持祭祀;而且,诸神之主啊,你因惧怕他而去饮用苏摩。
1.92.46
चकारान्यं च लोकं वै क्रुद्धो नक्षत्रसंपदा ।
प्रतिश्रवणपूर्वाणि नक्षत्राणि चकार यः।
गुरुशापहतस्यापि त्रिशङ्कोः शरणं ददौ ॥ १.९२.४६ ॥
他在愤怒中又以星辰之富创造了另一个世界;先前许诺的星宿正是他所造,他也庇护了为师父诅咒所伤的特里尚库。
1.92.47
ब्रह्मर्षिशापं राजर्षिः कथं मोक्ष्यति कौशिकः ।
अवमत्य तदा देवैर्यज्ञाङ्गं तद्विनाशितम् ॥ १.९२.४७ ॥
王仙憍尸迦如何能从梵仙的诅咒中解脱?那时诸神轻慢于他,毁坏了祭祀的一个部分。
1.92.48
अन्यानि च महातेजा यज्ञाङ्गान्यसृजत्प्रभुः ।
निनाय च तदा स्वर्गं त्रिशङ्कुं स महातपाः ॥ १.९२.४८ ॥
那位大光明的主宰又创造了祭祀的其他肢体;那位大苦行者随即将特里尚库引向天界。
1.92.49
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे ।
यथाऽसौ न दहेत्क्रुद्धस्तथाऽऽज्ञापय मां विभो ॥ १.९२.४९ ॥
这些功业之人,我深感惧怕。主啊,请吩咐我,使他即使震怒也不会焚烧我。
1.92.50
तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा ।
संक्षिपेच्च महामेरुं तूर्णमावर्तयेद्दिशः ॥ १.९२.५० ॥
他能以光辉焚烧诸世界,以足使大地震动,收缩大麦鲁山,并迅速使四方旋转。
1.92.51
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् ।
कथमस्मद्विधा नारी जितेन्द्रियमभिस्पृशेत् ॥ १.९२.५१ ॥
像我这样的女子,怎敢触碰这样一位具足苦行、如燃烧之火、克制诸根的人?
1.92.52
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् ।
कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ॥ १.९२.५२ ॥
面如祭火,光耀炽盛,日月为目,星辰点缀,舌如死神,诸神之最,像我这样的女子怎敢触碰他?
1.92.53
यमश्च सोमश्च महर्षयश्च ।
साध्या विश्वे वालस्विल्याश्च सर्वे।
एतेऽपि यस्योद्विजन्ते प्रभावा-
त्तस्मात्कस्मान्मादृशी नोद्विजेत ॥ १.९२.५३ ॥
阎摩、月神、大仙人、萨陀耶诸神、毗首天神与婆罗希利耶,这些都因他的威力而惊惧。像我这样的女子又怎能不惧怕?
1.92.54
त्वयैवमुक्ता च कथं समीप-
मृषेर्न गच्छेयमहं सुरेन्द्र।
रक्षां च मे चिन्तय देवराज ।
यथा त्वदर्थं रक्षिताऽहं चरेयम् ॥ १.९२.५४ ॥
你这样吩咐之后,我怎能不前往仙人身边?诸神之主啊,请考虑我的保护,使我能为你而受庇护地行走。
1.92.55
कामं तु मे मारुतस्तत्र वासः ।
प्रक्रीडिताया विवृणोतु देव।
भवेच्च मे मन्मथस्तत्र कार्ये ।
सहायभूतस्तु तव प्रसादात् ॥ १.९२.५५ ॥
就这样吧。愿风在那里成为我的居所,当我嬉戏时,愿它揭开我的衣裳,天神啊。愿爱神曼马陀凭你的恩典在此事中成为我的助手。
1.92.56
वनाच्च वायुः सुरभिः प्रवाया-
त्तस्मिन्काले तमृषिं लोभयन्त्याः।
तथेत्युक्त्वा विहिते चैव तस्मिं-
स्ततो ययौ साऽऽश्रमं कौशिकस्य ॥ १.९२.५६ ॥
在那时,当我诱惑那位仙人之际,愿森林中吹来芬芳的风。她说:“就这样吧。”安排妥当后,她便前往憍尸迦的修行处。