Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 1.94

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.94.1

सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे ।
भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥ १.९४.१ ॥

吉祥なる女よ、あなたの話し方から見て、あなたは王女であることが明らかだ。美しい腰の女よ、私の妻となれ。言ってくれ、あなたのために私は何をしようか。

1.94.2

सुवर्णमालां वासांसि कुण्डले परिहाटके ।
नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ॥ १.९४.२ ॥

金の首飾り、衣服、耳飾り、金の装身具、そして様々な都市で作られた輝かしく見事な宝玉と宝石。

1.94.3

आहरामि तवाद्याहं निष्कादीन्यजिनानि च ।
सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ॥ १.९४.३ ॥

今すぐあなたのために、ニシュカなどの金貨と獣皮を持ってこよう。今日から王国全体をあなたのものとしよう。輝かしい女よ、私の妻となれ。

1.94.4

गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि ।
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥ १.९४.४ ॥

臆病な女よ、美しき女よ、ガンダルヴァ婚によって私のもとへ来なさい。芭蕉の腿を持つ女よ、婚姻の中でガンダルヴァ婚こそ最上と言われている。

1.94.5

फलाहारो गतो राजन्पिता मे इत आश्रमात् ।
मुहूर्तं संप्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥ १.९४.५ ॥

王よ、私の父は果物を食べるためにこの庵を出ています。しばらくお待ちください。父があなたに私を与えるでしょう。

1.94.6

पिता हि मे प्रभुर्नित्यं दैवतं परमं मम ।
यस्मै मां दास्यति पिता स मे भर्ता भविष्यति ॥ १.९४.६ ॥

父はいつも私の主であり、私の最高の神です。父が私を与える人こそ、私の夫となるでしょう。

1.94.7

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ १.९४.७ ॥

幼少期は父が守り、若いときは夫が守り、老年には息子が守る。女は独立に値しない。

1.94.8

समन्यमाना राजेन्द्र पितरं मे तपस्विनम् ।
अधर्मेण हि धर्मिष्ठ कथं वरमुपास्महे ॥ १.९४.८ ॥

王の中の王よ、苦行者である私の父を思えば、最も正しい方よ、不正によってどうして求婚者に仕えられましょうか。

1.94.9

मामैवं वद कल्याणि तपोराशिं दमात्मकम् ।
मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः ॥ १.९४.९ ॥

吉祥なる女よ、私をそのように言ってはならない。苦行の塊であり自制した者である私を。バラモンは怒りを武器とし、手に武器を持つ者ではない。

1.94.10

मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान् ।
अग्निर्दहति तेजोभिः सूर्यो दहति रश्मिभिः ॥ १.९४.१० ॥

彼らは怒りによって敵を打ち倒す。インドラが金剛杵でアスラを打つように。火は炎で焼き、太陽は光線で焼く。

1.94.11

राजा दहति दण्डेन ब्राह्मणो मन्युना दहेत् ।
क्रोधिता मन्युना घ्नन्ति वज्रपाणिरिवासुरान् ॥ १.९४.११ ॥

王は罰の杖によって焼き、バラモンは怒りによって焼くことができる。怒った者は金剛杵を持つ者のようにアスラを打つ。

1.94.12

जाने भद्रे महर्षिं तं तस्य मन्युर्न विद्यते ।
इच्छामि त्वां वरारोहे भजमानामनिन्दिते।
त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥ १.९४.१२ ॥

吉祥なる女よ、あの大仙には怒りがないと私は知っている。美しい腰の女よ、汚れなき女よ、私に仕えるおまえを私は望む。私はおまえのためにここに立っているのだと知れ。私の心はおまえに向かっている。

1.94.13

आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः ।
आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥ १.९४.१३ ॥

自己こそ自己の友、自己こそ自己の拠り所。法に従い、汝は自らによって自らを与えるべきである。

1.94.14

अष्टावेव समासेन विवाहा धर्मतः स्मृताः ।
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः ॥ १.९४.१४ ॥

要約すれば、法に従い結婚は八種と伝えられる。梵、天、仙、生主、そして阿修羅である。

1.94.15

गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ।
तेषां धर्म्यान्यथापूर्वं मनुः स्वायंभुवोऽब्रवीत् ॥ १.९४.१५ ॥

乾闥婆、羅刹、畢舎遮——第八はこのように伝えられる。その中で法に適うものを、スヴァーヤンブヴァ・マヌが先の順序で説いた。

1.94.16

प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय ।
षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ॥ १.९४.१६ ॥

バラモンには、前の四種の称えられる結婚を考えよ。クシャトリヤには、順に六種が法に適うと知れ、無垢なる人よ。

1.94.17

राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः ।
पञ्चानां तु त्रयो धर्म्या अधर्म्यौ द्वौ स्मृताविह ॥ १.९४.१७ ॥

王族には羅刹の結婚も説かれ、ヴァイシャとシュードラには阿修羅の結婚が伝えられる。五種のうち三つは法に適い、ここで二つは非法とされる。

1.94.18

पैशाच आसुरश्चैव न कर्तव्यौ कदाचन ।
अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ॥ १.९४.१८ ॥

畢舎遮と阿修羅の結婚は決して行ってはならない。この規則に従って行うべきである。これが法の道として伝えられる。

1.94.19

गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः ।
पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥ १.९४.१९ ॥

ガーンダルヴァとラークシャサの婚姻は戦士にとって法に適う。疑ってはならない。それらは別々にも混ぜても行うことができ、これには疑いがない。

1.94.20

सा त्वं मम सकामस्य सकामा वरवर्णिनी ।
गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ॥ १.९४.२० ॥

美しい容貌の女よ、私に望まれる汝は私と同じ願いを持つ。ガーンダルヴァの婚姻によって、汝は私の妻となるにふさわしい。

1.94.21

यदि धर्मपथस्त्वेव यदि चात्मा प्रभुर्मम ।
प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ॥ १.९४.२१ ॥

これがまことにダルマの道であり、私の身が私自身の主であるならば、パウラヴァ族の最良の方よ、主よ、私を与えることについての私の条件を聞いてください。

1.94.22

सत्यं मे प्रतिजानीहि यथा वक्ष्याम्यहं रहः ।
मयि जायेत यः पुत्रः स भवेत्त्वदनन्तरः ॥ १.९४.२२ ॥

私がひそかに告げるとおりに、真実の誓いを私に立てよ。私から生まれた息子が、あなたの後の継承者となるように。

1.94.23

युवराजो महाराज सत्यमेतद्ब्रवीमि ते ।
यद्येतदेवं दुष्यन्त अस्तु मे सङ्गमस्त्वया ॥ १.९४.२३ ॥

偉大な王、王太子よ、私は真実をあなたに告げる。ドゥシャンタよ、もしそうであるなら、あなたと私が結ばれますように。

1.94.24

तस्यास्तु सर्वं संश्रुत्य यथोक्तं स विशांपतिः ।
दुष्यन्तः पुनरेवाह यद्यदिच्छसि तद्वद ॥ १.९४.२४ ॥

彼女の言ったことすべてを聞き入れ承諾したのち、王ドゥシャンタは再び言った。あなたの望むことを言いなさい。

1.94.25

ख्यातो लोकप्रवादोयं विवाह इति शास्त्रतः ।
वैवाहिकीं क्रियां सन्तः प्रशंसन्ति प्रजाहिताम् ॥ १.९४.२५ ॥

婚姻は聖典によって定められている、という世の言い伝えがある。賢者たちは子孫に益をもたらす婚礼の儀式を称賛する。

1.94.26

लोकप्रवादशान्त्यर्थं विवाहं विधिना कुरु ।
सन्त्यत्र यज्ञपात्राणि दर्भाः सुमनसोऽक्षताः ॥ १.९४.२६ ॥

世間の噂を静めるため、規定どおりに婚礼を行ってください。ここには祭器、クシャ草、花、無傷の穀物があります。

1.94.27

यथा युक्तो विवाहः स्यात्तथा युक्ता प्रजा भवेत् ।
तस्मादाज्यं हविर्लाजाः सिकता ब्राह्मणास्तव ॥ १.९४.२७ ॥

婚姻が正しく、子孫もまた正しくあるように。ここにはギー、供物、炒り米、砂、そしてあなたのバラモンがいます。

1.94.28

वैवाहिकानि चान्यानि समस्तानीह पार्थिव ।
दुरुक्तमपि राजेन्द्र क्षन्तव्यं धर्मकारणात् ॥ १.९४.२८ ॥

王よ、婚礼に関わるその他のものもすべてここにあります。王中の王よ、ダルマのために、私の荒い言葉もお許しください。

1.94.29

एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् ।
अपि च त्वां हि नेष्यामि नगरं स्वं शुचिस्मिते ॥ १.९४.२९ ॥

「そうしよう」と王は迷わず彼女に答えた。「清らかに微笑む人よ、必ずやお前を我が都へ連れて行こう。」

1.94.30

यथा त्वमर्हा सुश्रोणि मन्यसे तद्ब्रवीमि ते ।
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् ॥ १.९४.३० ॥

「美しい腰の人よ、お前がふさわしいと思うことを、私はお前に告げよう。」こう言って、その王仙は、歩みに欠けたところのない彼女に向かって……

1.94.31

पुरोहितं समाहूय वचनं युक्तमब्रवीत् ।
राजपुत्र्या यदुक्तं वै न वृथा कर्तुमुत्सहे ॥ १.९४.३१ ॥

家の司祭を呼び寄せ、ふさわしい言葉を告げた。「王女が言われたことを、私は無駄にしたくはない。」

1.94.32

क्रियाहीनो हि न भवेन्मम पुत्रो महाद्युतिः ।
तथा कुरुष्व शास्त्रोक्तं विवाहं मा चिरंकुरु ॥ १.९४.३२ ॥

我が輝かしい息子が儀礼を欠くことのないように。だから聖典に定められた通りに婚礼を行い、長く遅らせてはならない。

1.94.33

एवमुक्तो नृपतिना द्विजः परमयन्त्रितः ।
शोभनं राजराजेति विधिना कृतवान्द्विजः ॥ १.९४.३३ ॥

王にこう言われ、その婆羅門は極めて自制して「吉祥あれ、王の中の王よ」と言い、規定どおりに儀式を行った。

1.94.34

शासनाद्विप्रमुख्यस्य कृतकौतुकमङ्गलः ।
जग्राह विधिवत्पाणावुवास च तया सह ॥ १.९४.३४ ॥

最高の婆羅門の命により吉祥の婚礼の儀式を行い、規定どおり彼女の手を取り、彼女と共に暮らした。

1.94.35

विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः ।
प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ॥ १.९४.३५ ॥

彼女を安心させてから彼は去り、幾度も言った。「あなたのために、四軍からなる軍勢を送ろう。」

1.94.36

त्रैविद्यवृद्धैः सहितां नानाराजजनैः सह ।
शिबिकासहस्रैः सहिता वयमायान्ति बान्धवाः ॥ १.९४.३६ ॥

三ヴェーダに通じた長老や多くの王族の人々を伴い、幾千もの輿とともに、私たち親族がやって来ている。

1.94.37

मूकाश्चैव किराताश्च कुब्जा वामनकैः सह ।
सहिताः कञ्चुकिवरैर्वाहिनी सूतमागधैः ॥ १.९४.३७ ॥

唖者とキラータ族、せむしと小人、そして最良の侍従、スータとマーガダの者たちと共に、軍勢がやって来るでしょう。

1.94.38

शङ्खदुन्दुभिनिर्घोषैर्वनं च समुपैष्यति ।
तथा त्वामानयिष्यामि नगरं स्वं शुचिस्मिते ॥ १.९४.३८ ॥

ほら貝と太鼓の轟きとともに、軍勢は森にまで近づくでしょう。こうして、清らかな微笑みの人よ、わたしはあなたを自分の都へ迎え入れます。

1.94.39

अन्यथा त्वां न नेष्यामि स्वनिवेशमसत्कृताम् ।
सर्वमङ्गलसत्कारैः सुभ्रु सत्यं करोमि ते ॥ १.९४.३९ ॥

さもなければ、軽んじられたあなたを私の住まいへ連れて行くことはしません。あらゆる吉祥の礼をもって、美しい眉の人よ、私はあなたのためにこれを真実にします。

1.94.40

एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् ।
परिष्वज्य च बाहुभ्यां स्मितपूर्वमुदैक्षत ॥ १.९४.४० ॥

こう言って王仙は、歩みに非の打ち所のないその人を両腕で抱きしめ、まず微笑みながら彼女を見つめた。

1.94.41

प्रदक्षिणीकृतां देवीं पुनस्तां परिषस्वजे ।
शकुन्तला सा सुमुखी पपात नृपपादयोः ॥ १.९४.४१ ॥

右回りに巡られたその女神を、彼は再び抱きしめた。美しい顔の女シャクンタラーは王の足もとに倒れ伏した。

1.94.42

तां देवीं पुनरुत्थाप्य मा शुचेति पुनः पुनः ।
शपेयं सुकृतेनैव प्रापयिष्ये नृपात्मजे ॥ १.९४.४२ ॥

女神を再び助け起こし、「嘆くな」と幾度も言って、わたしは自らの善行にかけて誓う。王の娘よ、わたしは必ずこれを成し遂げよう。

1.94.43

इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय ।
मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिव ॥ १.९४.४३ ॥

ジャナメージャヤよ、こうして彼女に約束した王は、心に思いを巡らせながらカーシャパの方へ向かった、王よ。

1.94.44

भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति ।
तं न प्रसाद्यागतोऽहं प्रसीदेति द्विजोत्तमम्।
एवं संचिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥ १.९४.४४ ॥

苦行に満ちた尊き方は、聞いてどうなさるだろうか。私は彼をなだめずに来てしまった。あの最上の再生族に『どうか御心を和らげたまえ』と言わねばならない。そう思いながら、彼は自分の町に入った。

1.94.45

ततो मुहूर्ते याते तु कण्वोऽप्याश्रममागमत् ।
शकुन्तला च पितरं ह्रिया नोपजगाम तम् ॥ १.९४.४५ ॥

やがて一瞬が過ぎると、カンヴァも庵に戻ってきた。しかしシャクンタラーは恥じらいのため、父のもとへ行かなかった。

1.94.46

शङ्कितेव च विप्रर्षिमुपचक्राम सा शनैः ।
ततोऽस्य भारं जग्राह आसनं चाप्यकल्पयत् ॥ १.९४.४६ ॥

彼女は不安げに、ゆっくりとそのバラモンの聖者に近づいた。そして彼の荷を受け取り、また座席も用意した。

1.94.47

प्राक्षालयच्च सा पादौ काश्यपस्य महात्मनः ।
न चैनं लज्जयाऽशक्नोदक्षिभ्यामभिवीक्षितुम् ॥ १.९४.४७ ॥

彼女は大いなる魂の持ち主カーシャパの両足を洗った。しかし恥じらいのため、目を向けて彼を見ることができなかった。

1.94.48

शकुन्तला च सव्रीडा तमृषिं नाभ्यभाषत ।
तस्मात्स्वधर्मात्स्खलिता भीता सा भरतर्षभ ॥ १.९४.४८ ॥

シャクンタラーは恥じらいに満ち、その聖者に話しかけなかった。バラタの牡牛よ、自らのダルマから踏み外したため、彼女は怯えていた。

1.94.49

अभवद्दोषदर्शित्वाद्ब्रह्मचारिण्ययन्त्रिता ।
स तदा व्रीडितां दृष्ट्वा ऋषिस्तां प्रत्यभाषत ॥ १.९४.४९ ॥

過ちを見たために、彼女は梵行者であるにもかかわらず自制を失った。そのとき聖仙は彼女が恥じ入っているのを見て、彼女に語りかけた。

1.94.50

सव्रीडैव च दीर्घायुः पुरेव भविता न च ।
वृत्तं कथय रम्भोरु मा त्रासं च प्रकल्पय ॥ १.९४.५० ॥

恥じ入っていても、あなたは長寿を得るだろう。以前のようではないが。芭蕉のような腿を持つ人よ、起きたことを話しなさい。恐れるな。

1.94.51

ततः प्रक्षाल्य पादौ सा विश्रान्तं पुनरब्रवीत् ।
निधाय कामं तस्यर्षेः कन्दानि च फलानि च ॥ १.९४.५१ ॥

それから彼女は足を洗い、休みながら再び語った。その聖仙の望みどおりに根茎と果実を置いて。

1.94.52

ततः संवाह्य पादौ सा विश्रान्तं वेदिमध्यमा ।
शकुन्तला पौरवाणां दुष्यन्तं जग्मुषी पतिम् ॥ १.९४.५२ ॥

そして細い腰のシャクンタラーは足をさすって休み、パウラヴァ族の夫ドゥシュヤンタのもとへ行った。

1.94.53

ततः कृच्छ्रादतिशुभा सव्रीडा श्रमती तदा ।
सगद्गदमुवाचेदं काश्यपं सा शुचिस्मिता ॥ १.९४.५३ ॥

そのとき、非常に美しく、恥じらい疲れた、清らかな微笑のシャクンタラーは、かろうじて声を震わせながらカーシュヤパにこう言った。

1.94.54

राजा ताताजगामेह दुष्यन्त इलिलात्मजः ।
मया पतिर्वृतो योऽसौ दैवयोगादिहागतः ॥ १.९४.५४ ॥

お父様、イラーの子であるドゥシュヤンタ王がここに来られました。私が夫として選んだ方が、天の巡り合わせでここに来られたのです。

1.94.55

तस्य तात प्रसीद त्वं भर्ता मे सुमहायशाः ।
अतः सर्वं तु यद्वृत्तं दिव्यज्ञानेन पश्यसि ॥ १.९४.५५ ॥

父上よ、私の夫である、かの大いに名高き方にお情けをかけてください。あなたは起こったことすべてを神的な知によって見ておられます。

1.94.56

अभयं क्षत्रियकुले प्रसादं कर्तुमर्हसि ।
चक्षुषा स तु दिव्येन सर्वं विज्ञाय काश्यपः ॥ १.९४.५६ ॥

クシャトリヤの家系に庇護と恵みを与えることは、あなたにふさわしいことです。カーシュヤパは神の眼ですべてを知り……

1.94.57

ततो धर्मिष्ठतां मत्वा धर्मे चास्खलितं मनः ।
उवाच भगवान्प्रीतस्तद्वृत्तं सुमहातपाः ॥ १.९४.५७ ॥

そこで、ダルマに堅固で心がダルマに揺るがぬことを見て、喜んだ尊き大苦行者はその出来事について語った。

1.94.58

एवमेतन्मया ज्ञातं दृष्टं दिव्येन चक्षुषा ।
त्वयाऽद्य राजान्वयया मामनादृत्य यत्कृतम् ॥ १.९४.५८ ॥

このことを私は神の眼で知り、見た。王族の娘よ、今日おまえは私を軽んじて行ったことは……

1.94.59

पुंसा सह समायोगो न स धर्मोपघातकः ।
न भयं विद्यते भद्रे मा शुचः सुकृतं कृतम् ॥ १.९४.५९ ॥

男性とのそのような結合はダルマの侵害ではない。幸いなる者よ、恐れることはない。嘆くな。なされたことは善くなされたのだ。

1.94.60

क्षत्रियस्य तु गान्धर्वो विवाहः श्रेष्ठ उच्यते ।
सकामायाः सकामेन निमन्त्रः श्रेष्ठ उच्यते ॥ १.९४.६० ॥

クシャトリヤにとって、ガーンダルヴァの婚姻が最善とされる。望む女性と望む男性の相互の合意こそ最善とされる。

1.94.61

किं पुनर्विधिवत्कृत्वा सुप्रजस्त्वमवाप्स्यसि ।
धर्मात्मा च महात्मा च दुष्यन्तः पुरुषोत्तमः ॥ १.९४.६१ ॥

作法どおりに結婚すれば、さらに優れた子を得るであろう。義にかない偉大な心を持つドゥシュヤンタは、人中の最上の者である。

1.94.62

अभ्यागच्छत्पतिर्यस्त्वां भजमानां शकुन्तले ।
महात्मा जनिता लोके पुत्रस्तव महायशाः ॥ १.९४.६२ ॥

シャクンタラーよ、お前を求めてやって来た夫は偉大な魂の持ち主である。彼は世の父となり、お前の息子は大いなる名声を得るであろう。

1.94.63

स च सर्वां समुद्रान्तां कृत्स्नां भोक्ष्यति मेदिनीम् ।
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः ॥ १.९४.६३ ॥

彼は海に至るまでの大地全体を享受するであろう。その偉大な魂が進軍するとき、彼の輪宝は最高のものとなる。

1.94.64

भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ।
प्रसन्न एव तस्याहं त्वकृते वरवर्णिनि ॥ १.९४.६४ ॥

転輪聖王の輪宝は絶えず妨げられることがないであろう。美しき女よ、私は彼に満足している、そしてお前のためにも。

1.94.65

ऋतवो बहवस्ते वै गता व्यर्थाः शुचिस्मिते ।
सार्थकं सांप्रतं ह्येतन्न च पाप्मास्ति तेऽनघे।
गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ॥ १.९४.६५ ॥

清らかな微笑みの女よ、お前の多くの季節は空しく過ぎ去った。しかし今やこれは意義を得た。無垢なる女よ、お前に罪はない。そのためにお前の望む恩恵を私から受け取れ。

1.94.66

मया पतिर्वृतो योऽसौ दुष्यन्तः पुरुषोत्तमः ।
मम चैव पतिर्दृष्टो देवतानां समक्षतः।
तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ॥ १.९४.६६ ॥

私が夫として選んだのは、あの人中の最上の者、ドゥシュヤンタである。神々の前で、彼は私の夫として見られたのです。大臣たちとともに、彼にお恵みを与えてくださいますように。

1.94.67

इत्येवमुक्त्वा मनसा प्रणिधाय मनस्विनी ।
ततो धर्मिष्ठतां वव्रे राज्ये चास्खलनं तथा ॥ १.९४.६७ ॥

このように心で語り、意を定めた気高い女性は、法に最も篤い境地と、王国における揺るぎなさを望んだ。

1.94.68

शकुन्तलां पौरवाणां दुष्यन्तहितकाम्यया ।
एवमस्त्विति तां प्राह कण्वो धर्मभृतां वरः ॥ १.९४.६८ ॥

法を守る者の中で最も優れたカṇヴァは、プール族のシャクンタラーに、ドゥシュヤンタの幸福を願って言った。「そうなりますように。」

1.94.69

पस्पर्श चापि पाणिभ्यां सुतां श्रीमिवरूपिणीम् ॥ १.९४.६९ ॥

そして彼は両手で、シュリー(吉祥天)のような姿をした娘に触れた。

1.94.70

अद्यप्रभृति देवी त्वं दुष्यन्तस्य महात्मनः ।
पतिव्रतानां या वृत्तिस्तां वृत्तिमनुपालय ॥ १.९४.७० ॥

今日から、あなたは大いなる魂の持ち主ドゥシュヤンタの王妃です。夫に貞節な妻としてのふるまいを守りなさい。

1.94.71

इत्येवमुक्त्वा धर्मात्मा तां विशुद्ध्यर्थमस्पृशत् ।
स्पृष्टमात्रे शरीरे तु परं हर्षमवाप सा ॥ १.९४.७१ ॥

このように言って、法の魂を持つカṇヴァは彼女を清めるために触れた。身体に触れたとたん、彼女は無上の喜びを得た。