Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.95

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.95.1

प्रतिज्ञाय च दुष्यन्ते प्रतियाते दिने दिने ।
गर्भश्च ववृधे तस्यां राजपुत्र्यां महात्मनः ॥ १.९५.१ ॥

杜湿衍多许诺之后日复一日离去;在那位王女腹中,这位大德者的胎儿渐渐长大。

1.95.2

शकुन्तला चिन्तयन्ती राजानं कार्यगौरवात् ।
दिवारात्रमनिद्रैव स्नानभोजनवर्जिता ॥ १.९५.२ ॥

沙恭多罗思念国王,因事关重大,日夜不眠,不沐浴也不进食。

1.95.3

राजप्रेषणिका विप्राश्चतुरङ्गबलान्विताः ।
अद्य श्वो वा परश्वो वा समायान्तीति निस्चिता ॥ १.९५.३ ॥

国王派来的婆罗门,率四军而来,今天、明天或后天就会到达——她已确信如此。

1.95.4

दिनान्पक्षानृतून्मासानयनानि च सर्वशः ।
गण्यमानानि वर्षाणि व्यतीयुस्त्रीणि भारत ॥ १.९५.४ ॥

婆罗多之裔啊,日、半月、季节、月份与二至,一一计数,三年就这样过去了。

1.95.5

त्रिषु वर्षेषु पूर्णेषु ऋषेर्वचनगौरवात् ।
ऋषिपत्न्यः सुबहुशो हेतुमद्वाक्यमब्रुवन् ॥ १.९५.५ ॥

三年已满,因敬重仙人之言,仙人之妻多次对她说出有理的话。

1.95.6

शृणु भद्रे लोकवृत्तं श्रुत्वा यद्रोचते तव ।
तत्कुरुष्व हितं देवि नावमान्यं गुरोर्वचः ॥ १.९५.६ ॥

善女子,请听世间的常理;听后,做你认为合适的事。女神啊,应做有益之事;不可轻慢师长的话。

1.95.7

देवानां दैवतं विष्णुर्विप्राणामग्निर्ब्रह्म च ।
नारीणां दैवतं भर्ता लोकानां ब्राह्मणो गुरुः ॥ १.९५.७ ॥

毗湿奴是诸神之神;阿耆尼与吠陀是婆罗门的神明。丈夫是女人的神明,婆罗门是世界的导师。

1.95.8

सूतिकाले प्रसूष्वेति भगवांस्ते पिताऽब्रवीत् ।
करिष्यामीति कर्तव्यं तदा ते सुकृतं भवेत् ॥ १.९५.८ ॥

你尊贵的父亲说:“临产之时,便生产吧。”“我会做”——这应尽的职责,那时便成为你的善业。

1.95.9

पत्नीनां वचनं श्रुत्वा साधु साध्वित्यचिन्तयत् ।
गर्भं सुषाव वामोरूः कुमारममितौजसम् ॥ १.९५.९ ॥

听到众妻子的话,她心想:“好啊,好啊。”这位美腿的女子从腹中生下了一位力量无量的儿子。

1.95.10

त्रिषु वर्षेषु पूर्णेषु प्राजायत शकुन्तला ।
रूपौदार्यगुणोपेतं दौष्यन्तिं जनमेजय ॥ १.९५.१० ॥

三年满后,沙恭达罗生下了——啊,遮娜默遮耶——那位具足美貌、慷慨与德行的杜夏塔之子。

1.95.11

जाते तस्मिन्नन्तरिक्षात्पुष्पवृष्टिः पपात ह ।
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥ १.९५.११ ॥

他一降生,天空便飘下花雨;天界的鼓声齐鸣,天女的群队翩翩起舞。

1.95.12

गायद्भिर्मधुरं तत्र देवैः शक्रोऽभ्युवाच ह ।
शकुन्तले तव सुतश्चक्रवर्ती भविष्यति ॥ १.९५.१२ ॥

众神在那里甜美地歌唱,因陀罗说:“沙恭达罗啊,你的儿子将成为转轮圣王。”

1.95.13

बलं तेजश्च रूपं च न समं भुवि केनचित् ।
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः ॥ १.९५.१३ ॥

大地上无人能与他的力量、光辉和容貌相比;那位般婆罗维将主持一百次马祭。

1.95.14

अनेकारपि साहस्रै राजसूयादिभिर्मखैः ।
स्वार्थं ब्राह्मणसात्कृत्वा दक्षिणाममितां ददत् ॥ १.९५.१४ ॥

他将举行数千次祭祀,从王祭开始,把自己的财富施予婆罗门,并奉献无量的布施。

1.95.15

देवतानां वचः श्रुत्वा कण्वाश्रमनिवासिनः ।
सभाजयन्तः कण्वस्य सुतां सर्वे महर्षयः ॥ १.९५.१५ ॥

诸大仙人听闻天神之语,居于迦奴婆仙苦行林者都开始尊敬迦奴婆的女儿。

1.95.16

शकुन्तला च तच्छ्रुत्वा परं हर्षमवाप सा ।
द्विजानाहूय मुनिभिः सत्कृत्य च महायशाः। ॥ १.९५.१६ ॥

沙恭多罗听闻此事,心中极为欢喜;这位大名远扬的女子召集婆罗门与仙人,并恭敬款待他们。

1.95.17

जातकर्मादिसंस्कारं कण्वः पुण्यवतां वरः ।
तस्याथ कारयामास वर्धमानस्य चासकृत् ॥ १.९५.१७ ॥

德行最高的迦奴婆为他举行了诞生礼等净化礼仪,并为这个渐渐长大的孩子多次举行这些礼仪。

1.95.18

यथाविधि यथान्यायं क्रियाः सर्वास्त्वकारयत् ।
दन्तैः शुक्लैः शिखरिभिःसिंहसंहननोऽभवत् ॥ १.९५.१८ ॥

他依照规定与礼法,让所有仪式都得以举行;他长成了牙齿洁白如山峰、体魄坚实如狮子的人。

1.95.19

चक्राङ्कितकरः श्रीमान्स्वयं विष्णुरिवापरः ।
चतुष्किष्कुर्महातेजा महामूर्धा महाबलः ॥ १.९५.१९ ॥

手上有轮盘印记,光荣显赫,仿佛另一位毗湿奴本人,身高四肘(kiṣku),大有光辉,头颅宏大,力量强大。

1.95.20

कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ।
ऋषेर्भयात्तु दुष्यन्तः स्मरन्नैवाह्वयत्तदा ॥ १.९५.२० ॥

那个如天神之子般光彩的少年在那里迅速成长。然而因惧怕仙人,杜湿扬多虽记得他,那时却没有召唤他。

1.95.21

गते काले तु महति न सस्मार तपोधनाम् ।
षड्वर्षेषु ततो बालः कण्वाश्रमपदं प्रति ॥ १.९५.२१ ॥

时间很久过去,他却未想起那以苦行为财富的女子;此后六年,那少年便朝着迦纳仙人的净修林而去。

1.95.22

व्याघ्रान्सिंहान्वराहांश्च वृकांश्च महिषांस्तथा ।
ऋक्षांश्चाभ्यहनद्व्यालान्पद्भ्यामाश्रमपीडकान् ॥ १.९५.२२ ॥

他用脚击倒了老虎、狮子、野猪、狼、水牛和熊,以及骚扰净修林的凶猛野兽。

1.95.23

बलाद्भुजाभ्यां संगृह्य बलवान्संनियम्य च ।
बद्ध्वा वृक्षेषु दौष्यन्तिराश्रमस्य समन्ततः ॥ १.९५.२३ ॥

力大的杜湿扬多之子,以双臂强力抓住并制服它们,把它们绑在净修林四周的树上。

1.95.24

आरुरोह द्रुमांश्चैव क्रीडन्स्म परिधावति ।
वनं च लोडयामास सिंहव्याघ्रगणैर्वृतम् ॥ १.९५.२४ ॥

他爬上树木,嬉戏奔跑,搅动满是狮群与虎群的森林。

1.95.25

ततश्च राक्षसान्सर्वान्पिशाचांश्च रिपून्रणे ।
मुष्टियुद्धेन तान्हत्वा ऋषीनाराधयत्तदा ॥ १.९५.२५ ॥

随后,他在战斗中以拳斗杀死了所有罗刹、毕舍遮和那些敌人,于是使诸仙人欢喜。

1.95.26

कश्चिद्दितिसुतस्तं तु हन्तुकामो महाबलः ।
वध्यमानांस्तु दैतेयानमर्षी तं समभ्ययात् ॥ १.९५.२६ ॥

一位提提之子,大力,想要杀他,见达伊提亚被杀,愤怒地朝他走来。

1.95.27

तमागतं प्रहस्यैव बाहुभ्यां परिगृह्य च ।
दृढं चाबध्य बाहुभ्यां पीडयामास तं तदा ॥ १.९५.२७ ॥

他笑着用双臂抓住来到的他,用双臂紧紧缚住,然后便压制了他。

1.95.28

मर्दितो न शशाकास्मान्मोचितुं बलवत्तया ।
प्राक्रोशद्भैरवं तत्र द्वारेभ्यो निःसृतं त्वसृक् ॥ १.९५.२८ ॥

他被压制,因他的力量无法让我们脱身;他在那里发出可怕的惨叫,血从孔窍中涌出。

1.95.29

तेन शब्देन वित्रस्ता मृगाः सिंहादयो गणाः ।
सुस्रुवुश्च शकृन्मूत्रमाश्रमस्थाश्च सुस्रुवुः ॥ १.९५.२९ ॥

被那声音惊吓,鹿群、狮子等兽群,以及住在静修处的人都大小便失禁。

1.95.30

निरसुं जानुभिः कृत्वा विससर्ज च सोऽपतत् ।
तद्दृष्ट्वा विस्मयं जग्मुः कुमारस्य विचेष्टितम् ॥ १.९५.३० ॥

他用膝将其压得没了生气,松开手,他便倒下了。众人见这少年的所作所为,无不惊叹。

1.95.31

नित्यकालं वध्यमाना दैतेया राक्षसैः सह ।
कुमारस्य भयादेव नैव जग्मुस्तदाश्रमम् ॥ १.९५.३१ ॥

达提耶人与罗刹一同不断被击杀,却因畏惧那孩子,始终不敢前往那座修行处。

1.95.32

ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः ।
कण्वेन सहिताः सर्वे दृष्ट्वा कर्मातिमानुषम् ॥ १.९५.३२ ॥

于是,迦纳瓦的修行处众人与迦纳瓦一同,见他有超人之举,便为他取了名字。

1.95.33

अस्त्वयं सर्वदमनः सर्वं हि दमयत्यसौ ।
स सर्वदमनो नाम कुमारः समपद्यत ॥ १.९५.३३ ॥

“愿他名为一切调伏者,因为他能调伏一切”——那孩子便得名“一切调伏者”。

1.95.34

विक्रमेणौजसा चैव बलेन च समन्वितः ।
अप्रेषयति दुष्यन्ते महिष्यास्तनयस्य च ॥ १.९५.३४ ॥

他具有勇气、活力与力量,将他送回到豆扇多和正妃之子那里。

1.95.35

पाण्डुभावपरीताङ्गीं चिन्तया समभिप्लुताम् ।
लम्बालकां कृशां दीनां तथा मलिनवाससम् ॥ १.९५.३५ ॥

沙恭多罗面色苍白,满怀忧思,发髻低垂,消瘦而憔悴,身着污秽的衣裳。

1.95.36

शकुन्तलां च संप्रेक्ष्य प्रदध्यौ स मुनिस्तदा ।
शास्त्राणि सर्ववेदाश्च द्वादशाब्दस्य चाभवन् ॥ १.९५.३६ ॥

那位仙人看见沙恭多罗,便陷入沉思;待十二年满,诸学问与一切吠陀便都归于他。