Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 1.97

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.97.1

गतान्मुनिगणान्दृष्ट्वा पुत्रं संगृह्य पाणिना ।
मातापितृभ्यां रहिता यथा शोचन्ति दारकाः ॥ १.९७.१ ॥

她看到众多仙人已经离去,便牵着儿子的手,像失去父母的孩子一样悲伤哭泣。

1.97.2

तथा शोकपरीताङ्गी धृतिमालम्ब्य दुःखिता ।
गतेषु तेषु विप्रेषु राजमार्गेण भामिनी ॥ १.९७.२ ॥

同样,她身体被悲伤笼罩,痛苦地强自镇定,待那些婆罗门离去后,沿着王道前行。

1.97.3

पुत्रेणैव सहायेन सा जगाम शनैः शनैः ।
अदृष्टपूर्वान्पश्यन्वै राजमार्गेण पौरवः ॥ १.९७.३ ॥

她只带着儿子作伴,缓缓而行,沿着王道,看见从未见过的景象,这位波卢族女子。

1.97.4

हर्म्यप्रसादचैत्यांश्च सभा दिव्या विचित्रिताः ।
कौतूहलसमाविष्टो दृष्ट्वा विस्मयमागतः ॥ १.९७.४ ॥

他看见宅第、宫殿、神庙以及神圣而装饰各异的议事厅,充满好奇,心生惊叹。

1.97.5

सर्वे ब्रुवन्ति तां दृष्ट्वा पद्महीनामिव श्रियम् ।
गत्या च संहीसदृशीं कोकिलेन स्वरे समाम् ॥ १.९७.५ ॥

众人见到她,都说她像失去莲花的吉祥天女;步态如天鹅,声音与杜鹃相等。

1.97.6

मुखेन चन्द्रसदृशीं श्रिया पद्मालयासमाम् ।
स्मितेन कुन्दसदृशीं पद्मगर्भसमत्वचम् ॥ १.९७.६ ॥

面容如月,光彩与居于莲花中的吉祥天女相等;微笑如茉莉花,肌肤如莲花的花心。

1.97.7

पद्मपत्रविशालाक्षीं तप्तजाम्बूनदप्रभाम् ।
करान्तमितमध्यैषा सुकेशी संहतस्तनी ॥ १.९७.७ ॥

她眼如荷花瓣般宽大,光彩如熔化的黄金,腰细得可以用手掌尖量度,发色优美,双乳坚挺紧致。

1.97.8

जघनं सुविशालं वै ऊरू करिकरोपमौ ।
रक्ततुङ्गतलौ पादौ धरण्यां सुप्रतिष्ठितौ ॥ १.९७.८ ॥

她的臀部极为宽阔,大腿如象鼻一般,足底红润而隆起,双足稳稳地踏在大地上。

1.97.9

एवं रूपसमायुक्ता स्वर्गलोकादिवागता ।
इति स्म सर्वेऽमन्यन्त दुष्यन्तनगरे जनाः ॥ १.९७.९ ॥

她拥有如此容貌,仿佛从天界降临;杜尚陀城中的所有人都这样认为。

1.97.10

पुनः पुनरवोचंस्ते शाकुन्तलगुणानपि ।
सिंहेक्षणः सिंहदंष्ट्रः सिंहस्कन्धो महाभुजः ॥ १.९७.१० ॥

他们一次又一次地也称颂沙恭达罗的美德,说他有狮子般的眼睛、狮子般的牙齿、狮子般的肩膀和强壮的手臂。

1.97.11

सिंहोरस्कः सिंहबलः सिंहविक्रान्तगाम्ययम् ।
पृथ्वंसः पृथुवक्षाश्च छत्राकारशिरा महान् ॥ १.९७.११ ॥

他有狮子般的胸膛、狮子般的力量与狮子般的步伐;肩宽胸阔,头部如伞盖,这位伟大的人。

1.97.12

पाणिपादतले रक्तो रक्तास्यो दुन्दुभिस्वनः ।
राजलक्षणयुक्तश्च राजश्रीश्चास्य लक्ष्यते ॥ १.९७.१२ ॥

手掌与足底泛红,口唇红润,声音如鼓;他具备王者的相貌,身上可见王者的威仪。

1.97.13

आकारेण च रूपेण शरीरेणापि तेजसा ।
दुष्यन्तेन समो ह्येष कस्य पुत्रो भविष्यति ॥ १.९७.१३ ॥

他在external形貌、容貌、身體與光輝上,確實與杜什安塔相同。他將是誰的兒子?

1.97.14

एवं ब्रुवन्तस्ते सर्वे प्रशशंसुः सहस्रशः ।
युक्तिवादानवोचन्त सर्वाः प्राणभृतः स्त्रियः ॥ १.९७.१४ ॥

如此议论,他们成千上万地赞叹;所有有生命的女人都说出了合理的话。

1.97.15

बान्धवा इव सस्नेहा अनुजग्मुः शकुन्तलाम् ।
पौराणां तद्वचः श्रुत्वा तूष्णींभूता शकुन्तला ॥ १.९७.१५ ॥

他们如亲友般充满情谊地跟随沙恭达罗;沙恭达罗听到市民的那番话,便沉默不语。

1.97.16

वेश्मद्वारं समासाद्य विह्वला सा नृपात्मजा ।
चिन्तयामास सहसा कार्यगौरवकारणात् ॥ १.९७.१६ ॥

到达宫门后,那位忧虑不安的公主因事情的重大而突然陷入沉思。

1.97.17

लज्जया च परीताङ्गी राजन्राजसमक्षतः ।
अघृणा किं नु वक्ष्यामि दुष्यन्तं मम कारणात् ॥ १.९७.१७ ॥

她羞愧得浑身发颤。国王啊,在国王面前,为了我的事,我怎能厚颜地对杜什安塔说什么呢?

1.97.18

एवमुक्त्वा तु कृपणा चिन्तयन्ती शकुन्तला ।
अभिसृत्य च राजानं वेदिता सा प्रवेशिता ॥ १.९७.१८ ॥

说罢,可怜的沙恭达罗陷入沉思,走近国王;她表明身份后,被引入殿内。

1.97.19

सह तेन कुमारेण तरुणादित्यवर्चसा ।
सिंहासनस्थं राजानं महेन्द्रसदृशद्युतिम् ॥ १.९७.१९ ॥

她与那少年一同前往,少年光芒如初升的太阳;她走向端坐在宝座上的国王,国王的光彩如同因陀罗。

1.97.20

शकुन्तला नतशिराः परं हर्षमवाप्य च ।
पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला ॥ १.९७.२० ॥

沙恭多罗低首,得到极大的喜悦,依礼敬拜了他,然后对他说道。

1.97.21

अभिवादय राजानं पितरं ते दृढव्रतम् ।
एवमुक्त्वा सुतं तत्र लज्जानतमुखी स्थिता ॥ १.९७.२१ ॥

"向你的父亲、誓言坚定的国王行礼吧。"对儿子这样说后,她羞涩地低着头站在那里。

1.97.22

स्तम्भमालिङ्ग्य राजानं प्रसीदस्वेत्युवाच सा ।
शाकुन्तलोपि राजानमभिवाद्य कृताञ्जलिः ॥ १.९७.२२ ॥

她抱住一根柱子说道:"请大王垂怜。"沙恭多罗之子也合掌向国王行礼。

1.97.23

हर्षेणोत्फुल्लनयनो राजानं चान्ववैक्षत ।
दुष्यन्तो धर्मबुद्ध्या तु चिन्तयन्नेव सोब्रवीत् ॥ १.९७.२३ ॥

国王喜悦得睁大了眼睛看着她;杜什扬塔以正直的心思量着,便说道。

1.97.24

किमागमनकार्यं ते ब्रूहि त्वं वरवर्णिनि ।
करिष्यामि न संदेहः सपुत्राया विशेषतः ॥ १.९७.२४ ॥

"美丽的女子,请告诉我你来的目的。毫无疑问,我会去做,尤其是为了你和你的儿子。"

1.97.25

प्रसीदस्व महाराज वक्ष्यामि पुरुषोत्तम ।
एष पुत्रो हि ते राजन्मय्युत्पन्नः परंतप ॥ १.९७.२५ ॥

大王请垂怜,人中之最,我将直言。国王啊,这个儿子确实是你的,是我所生,敌人的烧灼者啊。

1.97.26

तस्मात्पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् ।
यथोक्तमाश्रमे तस्मिन्वर्तस्व पुरुषोत्तम ॥ १.९७.२६ ॥

因此,国王啊,请为这个儿子举行太子的灌顶。人中之最,依照所说,在那座修行林中居住吧。

1.97.27

मया समागमे पूर्वं कृतः स समयस्त्वया ।
तत्त्वं स्मर महाबाहो कण्वाश्रमपदं प्रति ॥ १.९७.२७ ॥

你先前与我结合时所立的那个誓约,请记起来,大臂者啊,望向迦奴的修行林吧。

1.97.28

तस्योपभोगसक्तस्य स्त्रीषु चान्यासु भारत ।
शकुन्तला सपुत्रा च मनस्यन्तरधीयत ॥ १.९७.२८ ॥

婆罗多啊,沉溺于其他女子之乐的他,心中的沙恭达罗连同她的儿子消失了。

1.97.29

स धारयन्मनस्येनां सपुत्रां सस्मितां तदा ।
तदोपगृह्य मनसा चिरं सुखमवाप सः ॥ १.९७.२९ ॥

他心中怀着她,她与儿子含笑相伴,那时他在心里拥抱她,长久地获得了喜乐。

1.97.30

सोऽथ श्रुत्वापि तद्वाक्यं तस्या राजा स्मरन्नपि ।
अब्रवीन्न स्मरामीति त्वया भद्रे समागमम् ॥ १.९७.३० ॥

国王虽然听了她的话,甚至记得,却说:“善女啊,我不记得与你的结合。”

1.97.31

मैथुनं च वृथा नाहं गच्छेयमिति मे मतिः ।
नाभिजानामि कल्याणि त्वया सह समागमम् ॥ १.९७.३१ ॥

我决意不会徒然去行房事。吉祥的女子啊,我不记得曾与你有过交合。

1.97.32

धर्मार्थकामसंबन्धं न स्मरामि त्वया सह ।
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ॥ १.९७.३२ ॥

我不记得与你之间有法、利、欲的任何关联。去或留,随你心意,你想做什么便做什么。