摩诃婆罗多 · 章 1.98
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.98.1
एवमुक्ता वरारोहा व्रीडितेव मनस्विनी ।
विसंज्ञेव च दुःखेन तस्थौ स्थूणेव निश्चला ॥ १.९८.१ ॥
女子听到这番话,身姿优美,心志高远,仿佛羞愧,又仿佛因悲痛而失神,像柱子一样一动不动地站着。
1.98.2
संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसंपुटा ।
कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ॥ १.९८.२ ॥
她因愤怒与不甘而双目通红,嘴唇颤抖,斜眼看着国王,仿佛要以斜视的目光将他焚烧。
1.98.3
आकारं गूहमाना च मन्युना च समीरितम् ।
तपसा संभृतं तेजो धारयामास वै तदा ॥ १.९८.३ ॥
她掩饰着自己的外表,被愤怒所激,于是压住了以苦行积聚的炽烈威力。
1.98.4
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता ।
भर्तारमभिसंप्रेक्ष्य यथान्यायं वचोऽब्रवीत् ॥ १.९८.४ ॥
她满怀悲痛与不平,仿佛思索片刻,然后望着丈夫,说出了合乎道理的话。
1.98.5
जानन्नपि महाराज कस्मादेवं प्रभाषसे ।
न जानामीति निःशङ्कं यथान्यः प्राकृतस्तथा ॥ १.९८.५ ॥
大王啊,你明明知道,为何这样说?像普通人一样毫不犹豫地说“我不知道”?
1.98.6
तस्य ते हृदयं वेद सत्यस्यैवानृतस्य च ।
साक्षिणं बत कल्याणमात्मानमवमन्यसे ॥ १.९८.६ ॥
你自己的心知道,它是真与假的见证。唉,善良的人啊,你竟自轻自贱!
1.98.7
योऽन्यथा सन्तमात्मानन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ १.९८.७ ॥
凡以异于本相示人者,何罪不为?此乃窃取自我之贼。
1.98.8
एकोऽहमस्मीति च मन्यसे त्वं ।
न हृच्छयं वेत्सि मुनिं पुराणम्।
यो वेदिता कर्मणः पापकस्य ।
तस्यान्तिके त्वं वृजिनं करोषि ॥ १.९८.८ ॥
你以为“我独自一人”。你不知那居于心中的古老圣人。在知晓恶行者面前,你却作恶。
1.98.9
धर्म एव हि साधूनां सर्वेषां हितकारणम् ।
नित्यं मिथ्याविहीनानां न च दुःखावहो भवेत् ॥ १.९८.९ ॥
法乃善人与众人福祉之因。对于远离虚妄之人,它从不带来痛苦。
1.98.10
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति ।
विदन्ति चैनं देवाश्च यश्चैवान्तरपूरुषः ॥ १.९८.१० ॥
人作恶之后,以为“无人知我”。然而诸神知之,内在之补鲁沙也知之。
1.98.11
आदित्यचन्द्रावनिलोऽनलश्च ।
द्यौर्भूमिरापो हृदयं यमश्च।
अहश्च रात्रिश्च उभे च सन्ध्ये ।
धर्मश्च जानाति नरस्य वृत्तम् ॥ १.९८.११ ॥
日月、风火、天地、水、心、阎摩、昼夜、两个黄昏与法,都知晓人的行为。
1.98.12
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् ।
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ॥ १.९८.१२ ॥
毗婆娑之子阎摩使其承受恶行的报应。居于心中的业之见证者、田之知者,对谁满意,便对谁欢悦。
1.98.13
न तुष्यति च यस्यैष पुरुषस्य दुरात्मनः ।
तं यमः पापकर्माणं निर्भर्त्सयति दुष्कृतम् ॥ १.९८.१३ ॥
此(居于心中的见证者)不悦于其人,那心怀恶念、作恶多端者,阎摩便加以斥责。
1.98.14
योऽवमत्यात्मनात्मानमन्यथा प्रतिपद्यते ।
न तस्य देवाः श्रेयांसो यस्यात्मापि न कारणम् ॥ १.९८.१४ ॥
自轻自贱、行事相违者,诸神也不会更加善待他;连自己的本性也不能成为其依凭的人。
1.98.15
स्वयं प्राप्तेति मामेवं मावमंस्था पतिव्रताम् ।
अर्चार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् ॥ १.९८.१५ ॥
不要因为想着“她是自己来的”而轻视我这位忠贞的妻子。值得尊敬的我,你却不尊重;我自己已作为你的妻子来到面前。
1.98.16
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि ।
नखल्वहमिदं शून्ये रौमि किं न शृणोषि मे ॥ १.९८.१६ ॥
你为何在大众面前像看待一个普通女子那样看我?我确实在这空旷之处呼喊——你难道没有听见我的声音吗?
1.98.17
यदि मे याचमानाया वचनं न करिष्यसि ।
दुष्यन्त शतधा त्वद्य मूर्धा ते विफलिष्यति ॥ १.९८.१७ ॥
若你不听从我这恳求者的话,那么今天,杜什扬多啊,你的头颅将碎裂成一百片。
1.98.18
जायां पतिः संप्रविश्य यदस्यां जायते पुनः ।
जायायास्तद्धि जायात्वं पौराणाः कवयो विदुः ॥ १.९८.१८ ॥
丈夫进入妻子之中,又在她身中重生;这便是妻子之为妻,古老的智者如此知晓。
1.98.19
यदागमवतः पुंसस्तदपत्यं प्रजायते ।
तत्तारयति संतत्या पूर्वप्रेतान्पितामहान् ॥ १.९८.१९ ॥
精通经典之人所生的子嗣,借香火延续,度脱先前故去的祖父们。
1.98.20
पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।
तस्मात्पुत्र इति प्रोक्तः पूर्वमेव स्वयंभुवा ॥ १.९८.२० ॥
因为儿子能从名为「普特」的地狱中拯救父亲,所以自生者早就称他为「补special」——即「子」。
1.98.21
पुत्रेण लोकाञ्जयन्ति पौत्रेणानन्त्यमश्नुते ।
अथ पौत्रस्य पुत्रेण मोदन्ते प्रपितामहाः ॥ १.९८.२१ ॥
因儿子而得胜诸界;因孙子而得无尽;因孙子之子,曾祖们欢喜。
1.98.22
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती ।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥ १.९८.२२ ॥
能持家者方为妻;有子嗣者方为妻;以夫为生命者方为妻;忠于丈夫者方为妻。
1.98.23
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा ।
भार्या मूलं त्रिवर्गस्य यः सभार्यः स बन्धुमान् ॥ १.९८.२३ ॥
妻子是人的一半,妻子是最好的朋友,妻子是三大目标的根本;有妻者方有亲人。
1.98.24
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः ।
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियावृताः ॥ १.९८.२४ ॥
有妻者、行祭祀者、与妻同居的家主欢喜;有妻者被吉祥环绕而欢喜。
1.98.25
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः ।
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥ १.९८.२५ ॥
在幽静之处,她们是朋友,言语温柔;在法务之中,她们如父;对于受苦之人,她们如母。
1.98.26
कान्तारेष्वपि विश्रामो जनस्याध्वनि कस्य वै ।
यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः। ॥ १.९८.२६ ॥
即使在荒野或路途之中,谁能得到安歇?与妻同行者才值得信赖;因此,妻子是至高的归宿。
1.98.27
संसरन्तमभिप्रेतं विषमेष्वेकपातिनम् ।
भार्यैवान्वेति भर्तारं सततं या पतिव्रता ॥ १.९८.२७ ॥
当心爱的丈夫独自行走于艰险之地时,始终忠于丈夫的妻子便跟随其后。
1.98.28
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते ।
पूर्वप्रेतं तु भर्तारं पश्चात्साप्यनुगच्छति ॥ १.९८.२८ ॥
妻子先留在世间,待丈夫死去后便等候;若丈夫先已离世,她也随后追随他。
1.98.29
एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते ।
यदाप्नोति पतिर्भार्यामिह लोके परत्र च ॥ १.९८.२९ ॥
因此,大王啊,规定要执手(婚礼),因为丈夫在今世与来世都得以拥有妻子。
1.98.30
पोषणार्थं शरीरस्य पाथेयं स्वर्गतस्य वै ।
आत्माऽऽत्मनैव जनितः पुत्र इत्युच्यते बुधैः ॥ १.९८.३० ॥
既为养育身体,又是升天者的路粮;自我由自我所生,智者称之为儿子。
1.98.31
तस्माद्भार्यां पतिः पश्येन्मातृवत्पुत्रमातरम् ।
अन्तरात्मैव सर्वस्य पुत्रो नामोच्यते सदा ॥ १.९८.३१ ॥
因此丈夫应当视其妻为子之母,如同母亲。众生的内在自我,常被称为“子”。
1.98.32
गती रूपं च चेष्टा च आवर्ता लक्षणानि च ।
पितॄणां यानि दृश्यन्ते पुत्राणां सन्ति तानि च ॥ १.९८.३२ ॥
步态、容貌、行为,发旋及其他特征,凡在父亲身上所见者,在儿子身上也同样存在。
1.98.33
तेषां शीलगुणाचारास्तत्संपर्काच्छुभाशुभात् ।
भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् ॥ १.९८.३३ ॥
他们的品性、德行与举止,无论善恶,因与之接触而生,便反映在妻子所生之子身上,如同镜中照见自己的面容。
1.98.34
जनिता मोदते प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत् ।
पतिव्रतारूपधराः परबीजस्य संग्रहात् ॥ १.९८.३४ ॥
生父见子而欢喜,如行善者得升天界一般。假作贞节妻子之相的女人,因接纳他人之种,(不能享有此乐)。
1.98.35
कुलं विनाश्य भर्तॄणां नरकं यान्ति दारुणम् ।
परेण जनिताः पुत्राः स्वभार्यायां यथेष्टतः ॥ १.९८.३५ ॥
毁灭夫家之族,她们将堕入可怖的地狱;他人随意在自己妻子中所生之子,(亦然)。
1.98.36
मम पुत्रा इति मतास्ते पुत्रा अपि शत्रवः ।
द्विषन्ति प्रतिकुर्वन्ति न ते वचनंकारिणः ॥ १.९८.३६ ॥
虽认为“这是我的儿子”,那些儿子其实是仇敌。他们憎恨、反抗;他们不听从(父亲的)话。
1.98.37
द्वेष्टि तांश्च पिता चापि स्वबीजे न तथा नृप ।
न द्वेष्टि पितरं पुत्रो जनितारमथापि वा ॥ १.९८.३७ ॥
父亲也憎恨他们,但在自己的种子中并非如此,大王。儿子不憎恨父亲或生他的人。
1.98.38
न द्वेष्टि जनिता पुत्रं तस्मादात्मा सुतो भवेत् ।
दह्यमाना मनोदुःखैर्व्याधिभिस्तुमुलैर्जनः ॥ १.९८.३८ ॥
生父不憎恨儿子;因此儿子应当是他自己的自我。人们被心中的苦痛和猛烈的疾病所灼烧。
1.98.39
ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव ।
विप्रवासकृशा दीना नरा मलिनवाससः ॥ १.९८.३९ ॥
如同被炎热所困的人在水中得到喜悦,他们在自己的妻子中得到欢乐;因长期离乡流亡而消瘦、可怜、身穿脏衣的人。
1.98.40
तेऽपि स्वदारांस्तुष्यन्ति दरिद्रा धनलाभवत् ।
अप्रियोक्तोपि दाराणां न ब्रूयादप्रियं बुधः ॥ १.९८.४० ॥
他们也对自己的妻子感到满足,如同贫穷的人获得财富。即使妻子对他说了不悦耳的话,智者也不应对她们说不悦耳的话。
1.98.41
रतिं प्रीतिं च धर्मं च तदायत्तमवेक्ष्य च ।
आत्मनोऽर्धमिति श्रौतं सा रक्षति धनं प्रजाः ॥ १.९८.४१ ॥
看到欢愉、爱情与法也都依赖于她,且天启经典宣称她是自我的一半,她守护财富与子嗣。
1.98.42
शरीरं लोकयात्रां वै धर्मं स्वर्गमृषीन्पितॄन् ।
आत्मनो जन्मनः क्षेत्रं पुण्या रामाः सनातनाः ॥ १.९८.४२ ॥
身体、世界的运行、法、天堂、仙人与祖先、自身出生的田地——这一切都是有福而永恒的女子。
1.98.43
ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजा- ।
देवानामपि का शक्तिः कर्तुं संभवमात्मनः ॥ १.९८.४३ ॥
没有女子,即使是仙人又有什么能力生育子嗣?即使是诸神,又有什么能力使自己降生?
1.98.44
पण्डितस्यापि लोकेषु स्त्रीषु सृष्टिः प्रतिष्ठिता ।
ऋषिभ्यो ह्यृषयः केचिच्चण्डालीष्वपि जज्ञिरे ॥ १.९८.४४ ॥
即便是智者的诞生,在世间也确立于女子之中。确实,有些仙人甚至诞生于旃陀罗女子之中。
1.98.45
परिसृत्य यथा सूनुर्धरणीरेणुकुण्ठितः ।
पितुरालिङ्गतेऽङ्गानि किमस्त्यभ्यधिकं ततः ॥ १.९८.४५ ॥
儿子满身尘土,爬到父亲身边拥抱他的肢体,此外还有什么比这更大的快乐呢?
1.98.46
स त्वं सूनुमनुप्राप्तं साभिलाषं मनस्विनम् ।
प्रेक्षमाणं कटाक्षेण किमर्थमवमन्यसे ॥ १.९८.४६ ॥
你的儿子走近你,满怀渴望,心志高尚,以斜视的目光望着你,你为何要轻慢他呢?
1.98.47
अण्डानि बिभ्रति स्वानि न त्यजन्ति पिपीलिकाः ।
किं पुनस्त्वं न मन्येथाः सर्वथा पुत्रमीदृशम् ॥ १.९८.४७ ॥
蚂蚁尚且背负自己的卵,不会舍弃它们。何况你,怎能无论如何都不承认这样的儿子呢?
1.98.48
न भरेथाः कथं नु त्वं मयि जातं स्वमात्मजम् ।
ममाण्डानीति वर्ध्ते कोकिलाण्डानि वायसाः ॥ १.९८.४८ ॥
你为何不抚养由我所生的你自己的儿子呢?乌鸦甚至把杜鹃的卵当作“我的卵”来养育。
1.98.49
किं पुनस्त्वं न मन्येथाः सर्वज्ञः पुत्रमीदृशम् ।
मलयाच्चन्दनं जातमतिशीतं वदन्ति वै ॥ १.९८.४९ ॥
你怎能不认可这样一个全知的儿子呢?人们说,生于摩罗耶山的檀香极其清凉。
1.98.50
शिशोरालिङ्गनं तस्माच्चन्दनादधिकं भवेत् ।
न वाससां न रामाणां नापां स्पर्शस्तथाविधः ॥ १.९८.५० ॥
孩子的拥抱甚至胜过那檀香;衣物、女人或水的触感都不是这样的。
1.98.51
शिशुनालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः ।
पुत्रस्पर्शात्प्रियतरः स्पर्शो लोके न विद्यते ॥ १.९८.५१ ॥
儿子的触碰如同幼子拥抱时那般愉悦;世上没有比儿子的触碰更可爱的触感。
1.98.52
स्पृशतु त्वां समालिङ्ग्य पुत्रोऽयं प्रियदर्शनः ।
ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥ १.९८.५२ ॥
愿这俊美的儿子拥抱你、触碰你。二足者中最好的是婆罗门,四足者中最好的是母牛。
1.98.53
मुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ।
त्रिषु वर्षेषु पूर्णेषु प्रजातोऽयमरिन्दमः ॥ १.९८.५३ ॥
这个儿子是受尊敬者中最优秀的,如穆如,是触碰者中的首领;三年圆满之时降生,他是制服敌人者。
1.98.54
अद्यायं मन्नियोगात्तु तवाह्वानं प्रतीक्षते ।
कुमारो राजशार्दूल तव शोकप्रणाशनः ॥ १.९८.५४ ॥
此刻,这位王子奉我之命,等待你的召唤。王中之虎啊,他能消除你的忧愁。
1.98.55
आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः ।
राजसूयादिकानन्यान्क्रतूनमितदक्षिणान् ॥ १.९८.५५ ॥
百次马祭的主持者——宝罗婆,以及以王祭为首的其他祭祀,施与的布施无量无边。
1.98.56
इति गौरन्तरिक्षे मां सूतके ह्यवदत्पुरा ।
हन्त स्वमङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः ॥ १.९८.५६ ॥
从前在出生礼时,天空中有一头母牛对我这样说:“唉!人们把孩子放在膝上,出于爱,却已前往别的村庄。”
1.98.57
मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ।
वेदेष्वपि वदन्तीमं मन्त्रग्रामं द्विजातयः ॥ १.९८.५७ ॥
人们嗅吻儿子的头顶,并欢喜地回应;在吠陀中,再生者也诵念这一组咒语。
1.98.58
जातकर्मणि पुत्राणां तवापि विदितं ध्रुवम् ।
अङ्गादङ्गात्संभवसि हृदयादधिजायसे ॥ १.९८.५८ ॥
在儿子的出生礼中,你也必定知道:你从各个肢体中生出,又从心中再度诞生。
1.98.59
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ।
उपजिघ्रन्ति पितरो मन्त्रेणानेन मूर्धनि ॥ १.९८.५९ ॥
你自己就是自我,以儿子之名而存在;所以愿你活满一百个秋天。父亲以这咒语嗅闻儿子的头。
1.98.60
पोषणं त्वदधीनं मे सन्तानमपि चाक्षयम् ।
तस्मात्त्वं जीव मे पुत्र स सुखी शरदां शतम् ॥ १.९८.६० ॥
我的供养和我不朽的子嗣也都仰赖于你;所以,儿啊,你要活着,愿你快乐地活满一百个秋天。
1.98.61
एको भूत्वा द्विधा भूत इति वादः प्रवर्तते ।
त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषः परः ॥ १.९८.६१ ॥
俗云:一而成二。此子生于你的肢体;由一人而生另一人。
1.98.62
सरसीवामलेऽऽत्मानं द्वितीयं पश्य ते सुतम् ।
सरसीवामले सोमं प्रेक्षात्मानं त्वमात्मनि ॥ १.९८.६२ ॥
如在清澈的湖中见到自己,便看你的第二个自身——你的儿子。如在清澈的湖中见到月亮,便在你自己之中看见你自己。
1.98.63
यथाचाहवनीयोऽग्निर्वर्हपत्यात्प्रणीयते ।
एवं त्वत्तः प्रणीतोऽयं त्वमेकः सन्द्विधा कृतः ॥ १.९८.६३ ॥
犹如从家主火取出祭火,他是从你而生;你本是一体,却被分为二。
1.98.64
मृगापकृष्टेन हि वै मृगयां परिधावता ।
अहमासादिता राजन्कुमारी पितुराश्रमे ॥ १.९८.६४ ॥
大王,他追逐一只鹿打猎,被引开而来,那时我还是个少女,身在父亲的修行林中。
1.98.65
उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका ।
विश्वाची च घृताची च षडेवाप्सरसां वराः ॥ १.९८.६५ ॥
乌尔瓦希、普尔瓦奇提、萨哈姜雅、梅纳卡、毗湿伐奇与格里塔奇——这六位是天女中的翘楚。
1.98.66
तासां वै मेनका नाम ब्रह्मयोनिर्वराप्सराः ।
दिवः संप्राप्य जगतीं विश्वामित्रादजीजनत् ॥ १.९८.६६ ॥
其中有名叫梅纳卡的最优天女,出身梵天一系。她自天界降临大地,从毗首密多罗那里生下了我。
1.98.67
श्रीमानृषिर्धर्मपरो वैश्वानर इवापरः ।
ब्रह्मयोनिः कुशो नाम विश्वामित्रपितामहः ॥ १.९८.६७ ॥
这位光荣的仙人,专注于法,仿佛另一位火神毗首婆那,婆罗门之源,名叫俱舍,是毗首弥多罗的祖父。
1.98.68
कुशस्य पुत्रो बलवान्कुशनाभश्च धार्मिकः ।
गाधिस्तस्य सुतो राजन्विश्वामित्रस्तु गाधिजः ॥ १.९८.६८ ॥
俱舍之子是有力的、正法的俱舍那婆。大王啊,他的儿子是伽陀,毗首弥多罗是伽陀之子。
1.98.69
एवंविधो मम पिता मेनका जननी वरा ।
सा मां हिमवतः पृष्ठे सुषुवे मेनकाऽप्सराः ॥ १.९८.६९ ॥
我的父亲便是如此,我那卓越的母亲是门迦。那位天女门迦在喜马拉雅山的坡上生下了我。
1.98.70
परित्यज्य च मां याता परात्मजमिवासती ।
पक्षिणः पुम्यवन्तस्ते सहिता धर्मतस्तदा ॥ १.९८.७० ॥
她抛下我离去了,如同不贞之妇抛弃别人的孩子。那时,那些有功德的鸟儿依照法聚集在一起。
1.98.71
पक्षैस्तैरभिगुप्ता च तस्मादस्मि शकुन्तला ।
ततोऽहमृषिणा दृष्टा काश्यपेन महात्मना ॥ १.९८.७१ ॥
我被那些翅膀所护卫,因此名为沙恭达罗。那时,大心的仙人迦叶波看见了我。
1.98.72
जलार्थमग्निहोत्रस्य गतं दृष्ट्वा तु पक्षिणः ।
न्यासभूतामिव मुनेः प्रददुर्मां दयावतः ॥ १.९८.७२ ॥
看见仙人为火祭去取水,群鸟便把我交给这位慈悲的仙人,如同托付给仙人的寄存之物。
1.98.73
कण्वस्त्वालोक्य मां प्रीतो हसन्तीति हविर्भुजः ।
स माऽरणिमिवादाय स्वमाश्रममुपागमत् ॥ १.९८.७३ ॥
迦婉见我,心中欢喜,仿佛食供物的火神在微笑,他便像取钻木之杵一样将我带回自己的净修林。
1.98.74
सा वै संभाविता राजन्ननुक्रोशान्महर्षिणा ।
तेनैव स्वसुतेवाहं राजन्वै वरवर्णिनी ॥ १.९८.७४ ॥
大王,那位大仙出于怜悯而敬重我,像抚养亲生女儿一样养育我;大王,我容貌美丽。
1.98.75
विश्वामित्रसुता चाहं वर्धिता मुनिना नृप ।
यौवने वर्तमानां च दृष्टवानसि मां नृप ॥ १.९८.७५ ॥
我是毗首弥多罗之女,由仙人抚养长大;大王,您见到我时我正值青春年华,大王。
1.98.76
आश्रमे पर्णशालायां कुमारीं विजने तदा ।
धात्रा प्रचोदितां शून्ये पित्रा विरहितां मिथः ॥ १.९८.७६ ॥
在净修林的叶屋中,当时在寂静之处,我还是个少女,受乳母催促,在空旷处,离开了父亲,我们彼此相对。
1.98.77
वाग्भिस्त्वं सूनृताभिर्मामपत्यार्थमचूचुदः ।
अकार्षीस्त्वाश्रमे वासं धर्मकामार्थनिश्चितम् ॥ १.९८.७७ ॥
你以甜美而真实的言语劝我生育子嗣;在净修林中,你所居之处以法、欲、利为根基。
1.98.78
गान्धर्वेण विवाहेन विधिना पाणिमग्रहीः ।
साऽहं कुलं च शीलं च सत्यवादित्वमात्मनः ॥ १.९८.७८ ॥
你以乾闼婆的婚礼依礼娶了我的手;我则要陈述我的家世、品行与诚实。
1.98.79
स्वधर्मं च पुरस्कृत्य त्वामद्य शरणं गता ।
तस्मान्नर्हसि संश्रुत्य तथेति वितथं वचः ॥ १.९८.७९ ॥
我以自己的法为先,今日来到你的庇护之下。因此,你不应使你以“就这样吧”所许下的诺言变成虚假。
1.98.80
स्वधर्मं पृष्ठतः कृत्वा परित्यक्तुमुपस्थिताम् ।
त्वन्नाथां लोकनाथस्त्वं नार्हसि त्वमनागसम् ॥ १.९८.८० ॥
你将自己的法置于身后,作为世界之主的你,不应抛弃我——我站在被遗弃的边缘,以你为主,我是无辜的。
1.98.81
किं नु कर्माशुभं पूर्वं कृतवत्यस्मि पार्थिव ।
यदहं बान्धवैस्त्यक्ता बाल्ये संप्रति वै त्वया ॥ १.९८.८१ ॥
国王啊,我前世究竟做了什么不吉祥的事,以致幼时便被亲属抛弃,如今你也抛弃了我?
1.98.82
कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् ।
इमं बालं तु संत्युक्तं नार्हस्यात्मजमात्मना ॥ १.९८.८२ ॥
好吧,我被你抛弃,将去往苦行林。但这个孩子,虽已被抛弃,却是你自己的儿子,你不应当抛弃他。
1.98.83
न पुत्रमभिजानामि त्वयि जातं शकुन्तले ।
असत्वचना नार्यः कस्ते श्रद्धास्यते वचः ॥ १.९८.८३ ॥
沙恭多罗啊,我并不认得在你身上所生的儿子。那些说谎的女人的话,谁会相信呢?
1.98.84
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे ।
विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् ॥ १.९८.८४ ॥
说出如此不可信的话,你不觉得羞愧吗?尤其是在我面前!邪恶的苦行女,走开吧。
1.98.85
क्व महर्षिस्तपस्युग्रः क्वाप्सराः सा च मेनका ।
क्व च त्वमेवं कृपणा तापसीवेषधारिणी ॥ १.९८.८५ ॥
那苦修严厉的大仙在哪里?天女梅纳卡在哪里?而你这身披苦行女装束的可怜人又在哪里?
1.98.86
अतिकायश्च पुत्रस्ते बालोऽतिबलवानयम् ।
कथमल्पेन कालेन सालस्कन्ध इवोद्गतः ॥ १.९८.८६ ॥
你这孩子身材极其高大,力气也十分强壮。短短时间之内,他怎么就长得像一棵娑罗树的树干那样了?
1.98.87
सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे ।
यदृच्छया कामरागाज्जाता मेनकया ह्यसि ॥ १.९८.८७ ॥
你的出身极为低贱,在我看来你像是个淫荡的女人。出于情欲,偶然地,你是梅纳卡所生。
1.98.88
सर्वमेव परोक्षं मे यत्त्वं वदसि तापसि ।
सर्वा वामाः स्त्रियो लोके सर्वाः कामपरायणाः ॥ १.९८.८८ ॥
苦行女啊,你所说的一切,我都无从得知。世上的女人都心性邪曲,个个都以欲望为归宿。
1.98.89
सर्वाः स्त्रियः परवशाः सर्वाः क्रोधसमाकुलाः ।
असत्योक्ताः स्त्रियः सर्वा न कण्वं वक्तुमर्हसि ॥ १.९८.८९ ॥
女人都依附于他人,个个被怒火所扰。女人个个都说谎。你不该谈论迦那婆。
1.98.90
मेनका निरनुक्रोशा वर्धकी जननी तव ।
यया हिमवतः पादे निर्माल्यवदुपेक्षिता ॥ १.९८.९० ॥
无慈悲心的梅纳卡,是你的乳母与生母,她把你像弃置的供花一样,丢在喜马拉雅山脚下。
1.98.91
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव ।
विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः ॥ १.९८.९१ ॥
你的父亲也是无慈悲之人,出身刹帝利;毗奢弥多罗虽为婆罗门,却贪婪而沉溺于欲望。
1.98.92
सुषाव सुरनारी मां विश्वामित्राद्यथेष्टतः ।
अहो जानामि ते जन्म कुत्सितं कुलटे जनैः ॥ १.९८.९२ ॥
天女依其所愿,与毗奢弥多罗生下了我。唉,你这放荡的女人,我知道人们都鄙视你的出身。
1.98.93
मेनकाऽप्सरसां श्रेष्ठा महर्षिश्चापि ते पिता ।
तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिभाषसे ॥ १.९८.९३ ॥
梅娜卡是天女中最优秀的,大仙人也是你的父亲。你作为他们两人的后代,为何说话像个妓女?
1.98.94
जातिश्चापि निकृष्टो ते कुलीनेति विजल्पसे ।
जनयित्वा त्वमुत्सृष्टा कोकिलेन परैर्भृता ॥ १.९८.९४ ॥
你的出身也卑贱,却自夸出身高贵。就像杜鹃的幼雏一样,你出生后被遗弃,由他人抚养。
1.98.95
अरिष्टैरिव दुर्बद्धिः कण्वो वर्धयिता पिता ।
अश्रद्धेयमिदं वाक्यं यत्त्वं जल्पसि तापसि ॥ १.९८.९५ ॥
如同阿利什塔鸟,愚昧的迦那婆是养育你的父亲。苦行女,你所说的话令人难以置信。
1.98.96
ब्रुवन्ती राजसान्निध्ये गम्यतां यत्र चेच्छसि ।
सुवर्णमणिमुक्तानि वस्त्राण्याभरणानि च ॥ १.९८.९६ ॥
你在国王面前如此说话,想去哪里就去哪里吧;金子、宝石、珍珠、衣物和首饰也一并带走吧。
1.98.97
यदिहेच्छसि भोगार्थं तापसि प्रतिगृह्यताम् ।
नाहं त्वां द्रष्टुमिच्छामि यथेष्टं गम्यतामितः ॥ १.९८.९७ ॥
若你在此想要享乐之物,苦行女啊,便请收下。我不愿见你;你想去哪里,便从此离开吧。