摩诃婆罗多 · 章 10.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
10.11.1
स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्पात्रौन्सखींस्तथा ।
महादुःखपरीतात्मा बभूव जनमेजय ॥ १०.११.१ ॥
他看见在战场上被杀的儿子、孙子和朋友,唉,阇那美阇耶,他的心灵被巨大的悲痛所笼罩。
10.11.2
ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः ।
स्मरतः पुत्रपौत्रांस्तान्भ्रातॄन्सुहृद एव च ॥ १०.११.२ ॥
那位伟大的人心中升起了巨大的悲痛,他追念着儿子、孙子、兄弟和朋友。
10.11.3
तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम् ।
सुहृदो भृशसंविग्नाः सांत्वयाञ्चक्रिरे तदा ॥ १०.११.३ ॥
他双眼满含泪水,颤抖而神志恍惚,此时极为忧虑的朋友们安慰了他。
10.11.4
कृत्वा तु विधिवत्तेषां पुत्राणाममितौजसाम् ।
प्रेतकार्याणि सर्वेषां बभूव भृशदुःखितः ॥ १०.११.४ ॥
为那些力量无量的儿子们全部依礼举行了亡者的葬仪之后,他变得极为悲痛。
10.11.5
तस्मिन्मुहूर्ते जवनैर्वाजिभिर्हेममालिभिः ।
नकुलः कृष्णया सार्धमुपायात्परमार्तया ॥ १०.११.५ ॥
就在那一刻,那古拉乘坐装饰着金花环的快马,与极度悲痛的克里希那一同出发了。
10.11.6
उपप्लाव्यं गता सा तु श्रुत्वा सुमहदप्रियम् ।
तदा विनाशं सर्वेषां पुत्राणां व्यथितेन्द्रिया ॥ १०.११.६ ॥
她已前往优波普拉维亚,但听到所有儿子被毁灭这一极为不幸的消息时,她的感官顿时陷入混乱。
10.11.7
कम्पमानेव कदली वातेनाभिसमीरिता ।
कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि ॥ १०.११.७ ॥
如同被风吹动而颤抖的芭蕉树,黑公主走近国王,被悲痛折磨,倒在地上。
10.11.8
न बभौ वदनं तस्या रुदन्त्याः शोककर्शितम् ।
फुल्लपद्मपलाशाक्ष्या मेघावृत इवोडुराट् ॥ १०.११.८ ॥
她因悲伤憔悴、哭泣的面容不再光彩照人,如同被云遮住的月亮;她的眼睛如盛开的莲花花瓣。
10.11.9
ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः ।
वाहुभ्यां परिजग्राह समुत्पत्य वृकोदरः ॥ १०.११.९ ॥
看见她倒下,愤怒而勇猛的毗摩跃起,用双臂将她抱住。
10.11.10
सा समाश्वासिता तेन भीमसेनेन भामिनी ।
रुदती पाण्डवज्येष्ठमिदं वचनमब्रवीत् ॥ १०.११.१० ॥
被毗摩那所安慰的这位美人,一边哭泣,一边对般度诸子中的长兄说了这些话。
10.11.11
दिष्ट्या राजन्नवाप्येमामखिलां भोक्ष्यसे महीम् ।
आत्मजान्क्षत्रधर्मेण सम्प्रदाय यमाय वै ॥ १०.११.११ ॥
国王啊,幸运的是你将获得并享有整个大地,但却是依照刹帝利的职责,把你的儿子们交给阎摩之后。
10.11.12
दिष्ट्या सर्वास्त्रकुशलं मत्तमातङ्गामिनम् ।
अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि ॥ १०.११.१२ ॥
幸运地获得整个大地之后,你将不再记得那位精通一切兵器、步履如发情象的苏跋陀罗之子。
10.11.13
आत्मजान्क्षत्रधर्मेण श्रुत्वा शूरान्निपातितान् ।
स्थितो राज्ये मया सार्धं विहरन्न स्मरिष्यसि ॥ १०.११.१३ ॥
听闻你那些英勇的儿子依照刹帝利之法而被杀,你与我一同在王国中游乐,将不再想念他们。
10.11.14
प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा ।
शोको मां दहते गाढो हुताशन इवाश्रयम् ॥ १०.११.१४ ॥
听闻德罗纳之子以恶行杀害了熟睡之人,深重的悲痛如火焚烧其居所般焚烧着我。
10.11.15
तस्य पापकृतो द्रौणेर्न चेदद्य दुरात्मनः ।
हियते सानुबन्धस्य युधि विक्रम्य जीवितम् ॥ १०.११.१५ ॥
若今日在战斗中,以勇力夺去那作恶的、邪恶的德罗纳之子及其随从的性命,
10.11.16
इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः ।
न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः ॥ १०.११.१६ ॥
诸位般度之子,请听:若德罗纳之子未得其恶行之果报,我将在此绝食至死。
10.11.17
एवमक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत् ।
युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी ॥ १०.११.१७ ॥
说罢,荣耀的耶摩娜萨娜之女克利须那便在正法王坚战面前坐下。
10.11.18
दृष्ट्वोपविष्टां राजा तु पाण्डवो महिषीं प्रियाम् ।
प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम् ॥ १०.११.१८ ॥
正法之魂的国王般度之子看到坐在那里的心爱王后,便对容貌秀美的德罗波蒂作答。
10.11.19
क्षत्रधर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे ।
पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि ॥ १०.११.१९ ॥
精通法的妻子啊,吉祥的人啊,你的儿子们和兄弟们依刹帝利之法而死去;你不应为他们悲伤。
10.11.20
स कल्याणि वनं दुर्गं दूरं द्रौणिरितो गतः ।
तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने ॥ १०.११.२० ॥
吉祥的人啊,德罗纳之子已从此处远远地进入了难以到达的森林;美丽的人啊,你将如何得知他在战斗中的陨落呢?
10.11.21
द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः ।
निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम्।
द्रौणेः शिरस उत्कृत्य जीवेयमिति मे मतिः ॥ १०.११.२१ ॥
我听说德罗纳之子头上有一颗与他一同出生的宝珠。在战斗中杀死那个恶人,我要看到那被夺走的宝珠。砍下德罗纳之子的头颅,我便能活下去——这是我的决心。
10.11.22
इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना ।
भीमसेनकरे स्पृष्ट्वा कुपिता वाक्यमब्रवीत् ॥ १०.११.२२ ॥
如此对般度王说罢,容貌美丽的黑公主触摸着怖军的手,愤怒地说了这些话。
10.11.23
त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन् ।
जहि तं पापकर्माणं शम्बरं सघवानिव ॥ १०.११.२३ ॥
啊,怖军,你应当记起刹帝利之法而保护我。杀死那作恶之人,如同因陀罗(萨伽梵)杀死商巴罗一样。
10.11.24
न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन ।
श्रुतं तत्सर्वलोकेषु परमव्यसने तथा ॥ १०.११.२४ ॥
实在没有一个人能与你的勇武相比;这在一切世界都有所闻,在极大的苦难中亦是如此。
10.11.25
द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते ।
हिडिम्बदर्शने चैव तथां त्वमभवो गतिः ॥ १०.११.२५ ॥
在瓦拉纳瓦塔城,以及与希丁巴相遇之时,你确实是般度之子的庇护之岛,也是他们的归宿。
10.11.26
तथा विराटनगरे कीचकेन भृशार्दिताम् ।
मामप्युद्वृतवान्कृच्छ्रात्पौलोमीं मघवानिव ॥ १०.११.२६ ॥
同样,在毗罗吒城,你把被迦旃那(Kīcaka)深深折磨的我从苦难中救起,犹如因陀罗救起舍已之女(Paulomī)。
10.11.27
यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा ।
तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव ॥ १०.११.२७ ॥
般度之子啊,正如你往昔曾建立这些伟业,那么,灭敌者啊,杀死德罗纳之子,愿你安乐。
10.11.28
तस्या बहुविधं दुःखं निशम्य परिदेवितम् ।
न चामर्षत कौन्तेयो भीमसेनो महाबलः ॥ १०.११.२८ ॥
听了她种种悲痛与哀叹,大力的昆提之子毗摩娑那无法忍受愤怒。
10.11.29
स काञ्चनविचित्राङ्गमारुरोह महारथम् ।
आदाय रुचिरं चित्रं समार्गणगुणं धनुः ॥ १०.११.२९ ॥
他登上了金饰斑斓的大战车,取起一张美丽而奇异的弓,连同箭矢与弓弦。
10.11.30
नकुलं सारथिं कृत्वा द्रोणपुत्रवधे धृतः ।
विस्फार्य सशरं चापं तूर्णमश्वानचोदयत् ॥ १०.११.३० ॥
他以那古罗为御者,决意杀死德罗纳之子,张开弓并搭上箭,迅速驱策马匹。
10.11.31
ते हयाः पुरुषव्याघ्र दीप्यमानाः स्वतेजसा ।
वहन्तः सहसा जग्मुर्हरयः शीघ्रगामिनः ॥ १०.११.३१ ॥
那些以自身光辉闪耀的马匹拉着战车,忽然疾驰而去——啊,人中虎,那些快步的黄褐色骏马奔驰而去。
10.11.32
शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः ।
द्रोणपुत्रगतेनाशु ययौ मार्गेण भारत ॥ १०.११.३२ ॥
那位不动者从营地出发,登上战车的座位,沿着德罗纳之子所走的道路迅速前行,啊,婆罗多。