Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 10.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.12.1

तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः ।
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥ १०.१२.१ ॥

那位难以战胜者离去后,耶度族的雄牛、莲花眼者便对贡蒂之子坚战说道。

10.12.2

एष पाण्डवे ते भ्राता पुत्रशोकपरायणः ।
जिघांसुर्द्रौणिमाक्रन्दे एक एवाभिधावति ॥ १०.१२.२ ॥

般度之子啊,你的兄弟沉溺于丧子之痛,想要杀死德罗纳之子,正独自在呼喊声中奔跑。

10.12.3

भीमः प्रियस्ते सर्वेभ्यो भ्रातृभ्यो भरतर्षभ ।
तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्युपपद्यसे ॥ १०.१२.३ ॥

婆罗多族的雄牛啊,怖军对你来说比所有兄弟都珍贵。如今他身陷困境,你为何不去救他?

10.12.4

यत्तदाचष्ट पुत्राय द्रोणः परपुरञ्जयः ।
अस्त्रं ब्रह्मशिरो नाम दहेत पृथिवीमपि ॥ १०.१२.४ ॥

那件名为梵首(Brahmaśiras)的武器,是征服敌城的德罗纳教给儿子的,它甚至能焚烧大地。

10.12.5

तन्महात्मा महाभागः केतुः सर्वधनुष्मताम् ।
प्रत्यपायदाचार्यः प्रीयमाणो धनञ्जयम् ॥ १०.१२.५ ॥

那件武器,这位宏大、极有福德的导师——诸弓手之旗——满心欢喜地归还给了财主(阿周那)。

10.12.6

तं पुत्रोऽप्येक एवैनमन्वयाचदमर्षणः ।
ततः प्रोवाच पुत्राय नातिहृष्टमना इव ॥ १०.१२.६ ॥

那位怒火中烧的儿子也独自向他请求了那件武器。于是德罗纳心中并不十分欢喜,对儿子说道。

10.12.7

विदितं चापलं ह्यासीदात्मजस्य दुरात्मनः ।
सर्वधर्मविदाचार्यः सोऽन्वशासत्सुतं ततः ॥ १०.१२.७ ॥

众人皆知儿子的轻率与邪恶之心。于是通晓一切法的师尊教诲了他的儿子。

10.12.8

परमापद्गतेनापि न स्म तात त्वया रणे ।
इदमस्त्रं प्रयोक्तव्यं मानुषेषु विशेषतः ॥ १०.१२.८ ॥

亲爱的孩子,即使陷入最大的困境,你在战场上也不可使用此武器,尤其不可用于对付人类。

10.12.9

इत्युक्त्वान्गुरुः पुत्रं द्रोणः पश्चाथोक्तवान् ।
न त्वं जातु सतां मार्गे स्थातेति पुरुषर्षभ ॥ १०.१२.९ ॥

说完这些,师尊德罗纳又对儿子说:“人中雄牛啊,你永远不会站在善人的道路上。”

10.12.10

स तदाज्ञाय दुष्टात्मा पितुर्वचनमप्रियम् ।
निराशः सर्वकल्याणैः शोकात्पर्यचरन्महीम् ॥ १०.१२.१० ॥

那个心怀恶意的人明白了父亲不悦的话语,对一切福祉绝望,悲伤地在大地上流浪。

10.12.11

ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत ।
अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः ॥ १०.१२.११ ॥

那时,俱卢中的最优者、婆罗多的后裔啊,当你住在森林里时,他前往德瓦拉卡,受到毗湿尼族的极大尊敬而居住在那里。

10.12.12

स कदाचित्समुद्रान्ते वसन्द्वारवतीमनु ।
एक एकं समागम्य मामुवाच हसन्निव ॥ १०.१२.१२ ॥

有一次,他住在海边的德瓦拉瓦蒂,独自来到我面前,仿佛带着笑意对我说话。

10.12.13

यत्तदुग्रं तपः कृष्ण चरन्नमितविक्रमः ।
अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता ॥ १०.१२.१३ ॥

克里希那啊,婆罗多族的导师、我的父亲,以无量的勇力修习那严苛的苦行,从阿伽斯提亚处获得了它。

10.12.14

अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम् ।
तदद्य मयि दाशार्ह यथा पितरि मे तथा ॥ १०.१२.१४ ॥

达沙尔哈的后裔啊,为诸神与乾闼婆所崇敬的名为梵首的武器,今日在我身中,正如它曾在我父身中一样。

10.12.15

अस्मत्तस्दुपादाय दिव्यमस्त्रं यदूत्तम ।
ममाप्यस्रं प्रयच्छ त्वं चक्रं रिपुहणं रणे ॥ १०.१२.१५ ॥

诸雅度中最上者啊,既从我们这里取得那神圣的武器,也请把你那在战场上摧毁敌人的圆盘赐给我。

10.12.16

स राजन्प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः ।
याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ ॥ १०.१२.१६ ॥

国王啊,我欢喜地与他交谈,他合掌恳切地向我求取神兵——婆罗多族的雄牛啊!

10.12.17

देवदानवगन्धर्वमनुष्यपतगोरगाः ।
न समा मम वीर्यस्य शतांशेनापि पिण्डिताः ॥ १०.१२.१७ ॥

天神、达那婆、乾闼婆、人类、飞禽与蛇众,即使聚集在一起,也不及我威力的百分之一。

10.12.18

इदं धनुरियं शक्तिरिदं चक्रमियं गदा ।
यद्यदिच्छसि चेदस्रं मत्तस्तत्तद्ददामि ते ॥ १०.१२.१८ ॥

这是弓,这是矛,这是圆盘,这是铁锤——你向我所求的任何神兵,我都会把它给你。

10.12.19

यच्छक्नोषि समुद्यन्तुं प्रयोक्तुमपि वा रणे ।
तद्गृहाण विनाऽस्त्रेण यन्मे दातुमभीप्ससि ॥ १०.१२.१९ ॥

凡你能在战场上举起或使用的,不借兵器便可取去;凡你想从我这里获得的,皆可取之。

10.12.20

स सुनाभं सहस्रारं वज्रनाभमयस्मयम् ।
वव्रे चक्रं महाभागो मत्तः स्पर्धन्मया सह ॥ १०.१२.२० ॥

那位大福之人与我竞争,从我这里选取了一只铁轮,轮毂美好,有千辐,轮毂如金刚。

10.12.21

गृहाण चक्रमित्युक्तो मया तु तदनन्तरम् ।
जग्राहोत्पत्य सहसा चक्रं सव्येन पाणिना ॥ १०.१२.२१ ॥

我说:‘拿去这个轮。’他随即跃起,突然用左手抓住了这只轮。

10.12.22

न चैनमशकत्स्थानात्सञ्चालयितुमप्युत ।
अथैनं दक्षिणेनापि ग्रहीतुमुपचक्रमे ॥ १०.१२.२२ ॥

他甚至无法将它从原处移动;于是他又开始用右手去抓它。

10.12.23

सर्वयत्नेन तेनापि गृह्य नैनमकम्पयत् ॥ १०.१२.२३ ॥

他竭尽全力抓住它,却无法使它动摇分毫。

10.12.24

ततः सर्वबलेनापि यदैनं न शशाक ह ।
उद्यन्तुं वा चालयितुं द्रौणिः परमदुर्मनाः।
कृत्वा यत्नं परिश्रान्तः स न्यवर्तत भारत ॥ १०.१२.२४ ॥

于是,他用尽全力也无法举起或移动它,德罗纳之子深感沮丧,因用力而疲惫,婆罗多啊,便转身返回。

10.12.25

निवृत्मनसं तस्मादभिप्रायाद्विचेतसम् ।
अहमामन्त्र्य संविग्नमश्वत्थामानमब्रुवम् ॥ १०.१२.२५ ॥

我对心已转离那一意图、心神迷乱的阿说瓦塔曼焦急地说道。

10.12.26

यः स दैवमनुष्येषु प्रमाणं परमं गतः ।
गाण्डीवधन्वा श्वेताश्चः कपिप्रवरकेतनः ॥ १०.१२.२६ ॥

在神与人之中成为最高权威的那位,持甘狄拔弓者,白马之主,旗上绘有最优秀猿猴的人。

10.12.27

यः साक्षाद्देवदेवेशं शितिकण्ठमुमापतिम् ।
द्वन्द्वयुद्धे पुरा जिष्णुस्तोषयामास शङ्करम् ॥ १०.१२.२७ ॥

往昔在单打独斗中,亲自使神中之神、青颈、乌摩之夫湿婆(商羯罗)欢喜的那位胜利者(阿周那)。

10.12.28

यस्मात्प्रियतरो नास्ति ममान्यः पुरुषो भुवि ।
नादेयं यस्य मे किञ्चिदपि प्राणान्महात्मनः ॥ १०.१२.२८ ॥

世上没有比他更让我珍爱的人;对这位大德之人,即便是我的性命,我也不会有所隐瞒。

10.12.29

तेनापि सुहृदा ब्रह्मन्पार्थेनाक्लिष्टकर्मणा ।
नोक्पूर्वमिदं वाक्यं यस्त्वं मामभिभाषसे ॥ १०.१२.२९ ॥

婆罗门啊,那位朋友、不知疲倦之业的普利塔之子,从未曾说过你现在对我说的这番话。

10.12.30

ब्रह्मचर्यं महद्धोरं तीर्वा द्वादशवार्षिकम् ।
हिमवत्पार्श्वमास्थाय यो मया तपसाऽऽर्जितः ॥ १०.१२.३० ॥

完成十二年的伟大而严酷的梵行,前往喜马拉雅山麓居住,我以苦行所获得的。

10.12.31

समानव्रतचारिण्यां रुक्मिण्यां योऽन्वजायत ।
सनत्कुमारस्तेजस्वी प्रद्युम्नो नाम मे सुतः ॥ १०.१२.३१ ॥

光辉的萨那特库马拉,名为普罗笛温,是我的儿子,由同守此誓的鲁克米尼所生。

10.12.32

तेनाप्येतन्महद्दिव्यं चक्रमप्रतिमं रणे ।
न प्रार्थितमभून्मूढ तदितं प्रार्थितं त्वया ॥ १०.१२.३२ ॥

他在战场上也从未索求这件伟大、神圣、无与伦比的轮宝,愚人啊;而你却索求了它。

10.12.33

रामेणातिबलेनैतन्नोक्तपूर्वं कदाचन ।
न गदेन साम्बेन यदिदं प्रार्थितं त्वया ॥ १०.१२.३३ ॥

力量极强的罗摩从未说过此事,伽达与萨姆巴也从未说过;而你所求的正是此物。

10.12.34

द्वारकावासिभिश्चान्यैर्वृष्ण्यन्धकमहारथैः ।
नोक्तपूर्वमिदं क्षुद्रं तदिदं प्रार्थितं त्वया ॥ १०.१२.३४ ॥

杜瓦拉卡的居民,以及毗栗瑟尼与安陀迦的其他大战车武士,从未说过这卑下之事;而你所求的正是此物。

10.12.35

भारताचार्यपुत्रस्त्वं मानितः सर्वयादवैः ।
चक्रेण रथिनां श्रेष्ठ कं नु तात युयुत्ससे ॥ १०.१२.३५ ॥

婆罗多师尊之子,你受到所有雅达瓦人的敬重。车战者中的最上者啊,亲爱的,你想用轮宝与谁交战呢?

10.12.36

एवमुक्तो मया द्रौणिर्मामिदं प्रत्युवाच ह ।
प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वया सह ॥ १०.१२.३६ ॥

我如此说时,德罗尼之子回答我说:“黑天啊,向你致敬之后,我将与你交战。”

10.12.37

प्रार्थितं ते मया चक्रं देवदानवपूजितम् ।
अजेयः स्यामिति विभो सत्यमेद्ब्रवीमि ते ॥ १०.१२.३७ ॥

啊,主啊!我向你求取那受天神与阿修罗敬奉的轮盘,为的是成为不可战胜者。这是真实的,我对你这样说。

10.12.38

सोऽहं तद्दुर्लभं चक्रमनवाप्यैव केशव ।
प्रतियास्यामि गोविन्द शिवेनाभिवदस्व माम् ॥ १०.१२.३८ ॥

啊,羯舍婆!我尚未获得那稀有的轮盘便要返回了。啊,哥文达!请吉祥地为我送行。

10.12.39

एतत्सुनाभं भोजानामृषभेण त्वया धृतम् ।
चक्रमप्रतिचक्रेण भुवि नान्योऽभिपद्यते ॥ १०.१२.३९ ॥

博惹人中之牛啊!你所执的这具美妙轮毂的轮盘,大地上没有与之对抗的轮盘;他人无法得到它。

10.12.40

एतावदुक्त्वा द्रौणिर्मां युग्यानश्वान्धनानि च ।
आदायोपययौ काले रत्नानि वविधानि च ॥ १०.१२.४० ॥

说完这些,德罗纳之子从我这里取走了车轭、马匹、财富和各种宝石,在适当的时候离去了。

10.12.41

स संरम्भी दुरात्मा च चपलः क्रूर एव च ।
वेद चास्रं ब्रह्मशिरस्तस्माद्रक्ष्यो वृकोदरः ॥ १०.१२.४१ ॥

他暴躁、心怀恶意、轻浮且残忍,又知晓名为梵首的神箭;因此必须保护狼腹(毗摩)。