摩诃婆罗多 · 章 10.13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
10.13.1
एवमुक्त्वा कुरुश्रेष्ठं सर्वयादवनन्दनः ।
सर्वायुधवरोपेतमारुरोह रथोत्तमम् ॥ १०.१३.१ ॥
如此对诸俱卢中最优秀者说罢,诸夜度族的喜悦者登上了装备着所有最佳兵器的上好战车。
10.13.2
युक्तं परमकाम्भोजैस्तुरगैर्हेममालिभिः ।
उदितादित्यसङ्काशं सर्वरत्नविभूषितम् ॥ १०.१३.२ ॥
套着最优良的剑浮国马,马饰金环,形如初升的太阳,以各种宝石装饰。
10.13.3
दक्षिणे ह्यावहच्छैब्यः सुग्रीवः सव्यतो धुरम् ।
णर्ष्णिवाहौ तु तस्यास्तां मेघपुष्पबलाहकौ ॥ १०.१३.३ ॥
右侧是承载 Śaibya 的 Sugrīva,左侧是轭杆;它的两匹驹是 Megha-puṣpa 与 Balāhaka。
10.13.4
विश्वकर्मकृता दिव्या रत्नधातुविभूषिता ।
उच्छ्रिता च रथे तस्मिन्ध्वजयष्टिरदृश्यत ॥ १०.१३.४ ॥
那辆战车上高高竖起一根神圣的旗杆,由毗首羯磨所造,以宝石与金属装饰。
10.13.5
वैनतेयः स्थितस्तस्यां प्रभामण्डलरश्मिवान् ।
तस्य सत्यवतः केतुर्भुजगारिरदृश्यत ॥ १०.१३.५ ॥
车上站着毗娜塔之子迦楼罗,身披光环的光辉;在那辆车的旗帜上,可以看见蛇的敌人迦楼罗。
10.13.6
अथारोहद्धृषीकेशः केतुः सर्वधनुष्मताम् ।
अर्जुनः स च धर्मात्मा कुरुराजो युधिष्ठिरः ॥ १०.१३.६ ॥
于是 Hṛṣīkeśa(黑天),一切弓箭手的旗帜,登上了战车;阿周那,以及正法之魂的俱卢王坚战,也登上了。
10.13.7
अशोभेतां महात्मानौ दाशार्हमभितः स्थितौ ।
रथस्थं शार्ङ्गधन्वानमश्विनाविव वासवम् ॥ १०.१३.७ ॥
两位伟大的英雄分立于达沙尔哈后裔两侧,为立于战车上、手持沙尔嘎弓的他增添光彩,犹如双马童环绕因陀罗。
10.13.8
उभावारोप्य दाशार्हः स्यन्दनं लोकपूजितम् ।
प्रतोदेन जवोपेतान्परमाश्वानचोदयत् ॥ १०.१३.८ ॥
他让二人登上为世人所尊崇的战车,用刺棒驱策那些速度飞快的良马。
10.13.9
ते हयाः सहसोत्पेतुर्गृहीत्वा स्यन्दनोत्तमम् ।
आस्थितं पाण्डवेयाभ्यां यदूनामृषभेण च ॥ १०.१३.९ ॥
那些马驾着乘坐着般度两子与耶度族雄牛的上好战车,猛然腾跃而起。
10.13.10
वहतां शार्ङ्गधन्वानमश्वानां शीघ्रगामिनाम् ।
प्रादुरासीन्महाञ्शब्दः पक्षिणां पततामिव ॥ १०.१३.१० ॥
载着沙尔嘎弓持有者的疾驰良马发出巨大声响,犹如飞鸟的鸣声。
10.13.11
ते समर्था महाबाहुं क्षणेन भरतर्षभ ।
भीमसेनं महेष्वासमनुसस्रुः सुवेगिताः ॥ १०.१३.११ ॥
婆罗多之雄牛啊!那些有力的良马在瞬息之间,疾速追赶上了臂力强大、大弓手的毗摩赛那。
10.13.12
क्रोधदीप्तं तु कौन्तेयं द्विषदर्थे समुद्यतम् ।
नाशक्नुवन्वारयितुं समेत्यापि महारथाः ॥ १०.१३.१२ ॥
然而,因愤怒而燃烧、准备迎击敌人的贡蒂之子,即便众大车战士联合起来,也无法阻拦。
10.13.13
स तेषामग्रतः शूरः श्रीमतां दृढधन्विनाम् ।
ययौ भागीरथीतीरं हरिभिर्भृशवेगितैः।
यत्र स श्रूयते द्रौणिः पुत्रहन्ता दुरात्मवान् ॥ १०.१३.१३ ॥
他在那些光荣而持弓坚定的勇士前方,驾着疾驰的骏马,前往婆吉罗提河岸,据说德罗纳之子在那里,他是杀子者,心怀恶念。
10.13.14
स ददर्श महात्मानमुदकान्ते यशस्विनम् ।
कृष्णद्वैपायनं व्यासमासीनमृषिभिः सह ॥ १०.१३.१४ ॥
他在水边看见那位名声显赫、心胸宽广的黑氏岛生毗耶娑,与诸仙人一同端坐。
10.13.15
तं चैव क्रूरकर्माणं घृताक्तं कुशचीरिणम् ।
रजसा ध्वस्तमासीनं ददर्श द्रौणिमन्तिके ॥ १०.१३.१५ ॥
在附近他看见德罗纳之子——行事残酷、涂着酥油、穿着吉祥草树皮衣、满身尘土的那人,正坐在那里。
10.13.16
तमभ्यधावत्कौन्तेयः प्रगृह्य सशरं धनुः ।
भीमसेनो महाबाहुस्तिष्ठतिष्ठेति चाब्रवीत् ॥ १०.१३.१६ ॥
贡蒂之子、大臂的毗摩森那持箭举弓冲向他,喊道:“站住,站住!”
10.13.17
तं दृष्ट्वा भीमकर्माणं प्रगृहीतशरासनम् ।
भ्रातरौ पृष्ठतश्चास्य जनार्दनरथे स्थितौ।
व्यथितात्माऽभवद्द्रौणिः प्राप्तं चेदममन्यत ॥ १०.१३.१७ ॥
德罗纳之子看见那行事可怖者举弓,又看见他身后两位兄弟立于毗湿奴(Janārdana)的战车上,心中惶乱,想道:“此事已经来临。”
10.13.18
स तद्दिव्यमदीनात्मा परमास्रमचिन्तयत् ।
जग्राह च शरैषीकां द्रौणिः सव्येन पाणिना ॥ १०.१३.१८ ॥
那位心志不屈的德罗纳之子想起那神圣的至高兵器,并以左手拿起一根芦苇茎(箭草)。
10.13.19
स तामापदमासाद्य दिव्यमस्त्रमुदैरयत् ।
अमृष्यमाणस्ताञ्छूरान्दिव्यायुधधरान्स्थितान्।
अपाण्डवायेति रुषा वाचमुत्सृज्य दारुणम् ॥ १०.१३.१९ ॥
他陷入此难,因不能忍受那些手持神兵而立的勇士,怒中发出严厉之言:「不为般度之子!」随即放出神箭。
10.13.20
इत्युक्त्वा राजशार्दूल द्रोणपुत्रः प्रतापवान् ।
सर्वलोकप्रमोहार्थं तदस्रं प्रमुमोच ह ॥ १०.१३.२० ॥
王中之虎啊,说罢,威猛的德罗纳之子为使一切世界迷惑,放出了那件兵器。
10.13.21
ततस्तस्यामिषीकायां पावकः समजायत ।
प्रधक्ष्यन्निव लोकांस्त्रीन्कालान्कयमोपमः ॥ १०.१३.२१ ॥
于是那箭杆之中生出火焰,仿佛将要焚烧三界,如同终结时间者。