摩诃婆罗多 · 章 10.14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
10.14.1
इङ्गितेनैव दाशार्हस्तस्याभिप्रायमादितः ।
द्रौणेर्बुद्धा महाबाहुरर्जुनं प्रत्यभाषत ॥ १०.१४.१ ॥
达萨尔诃之后克里希那仅凭一个手势,便从一开始就看透了德罗纳之子的意图,这位大臂者对阿周那说道。
10.14.2
अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते ।
द्रोणोपदिष्टं तस्यायं कालः सम्प्रति पाण्डव ॥ १०.१४.२ ॥
阿周那,阿周那!你心中的那件天神之箭,是德罗纳所传授的,现在正是使用它的时候了,般度之子。
10.14.3
भ्रातॄणामात्मनश्चैव परित्राणाय भारत ।
विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम् ॥ १०.१४.३ ॥
婆罗多的后裔,为了保护兄弟们和你自己,你也在战斗中发出这件能够抵挡其他武器的神器吧。
10.14.4
केशवेनैवमुक्तोऽथ पाण्डवः परवीरहा ।
अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः ॥ १०.१४.४ ॥
克舍婆如此说完,这位杀死敌方英雄的般度之子迅速从战车上下来,手持带箭的弓。
10.14.5
पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने ।
भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परन्तपः ॥ १०.१४.५ ॥
先为老师之子,其次为自己,再次为所有兄弟,说了“吉祥”之后,这位折磨敌人者……
10.14.6
देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः ।
उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम् ॥ १०.१४.६ ॥
他向诸神和所有师长致敬,默念吉祥的神箭,将其发出,愿以神箭平息神箭。
10.14.7
ततस्तदस्रं सहसा सृष्टं गाण्डीवधन्वना ।
प्रजज्वाल महार्चिष्मद्युगान्तानलसन्निभम् ॥ १०.१४.७ ॥
此时,持甘提拔弓者突然射出的神箭燃起巨大火焰,如同劫末之火。
10.14.8
तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः ।
प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम् ॥ १०.१४.८ ॥
同样,德罗纳之子那极具锐利光辉的神箭也被光轮环绕,燃起巨大火焰。
10.14.9
निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः ।
महद्भयं च भूतानां सर्वेषां समजायत ॥ १०.१४.९ ॥
雷声轰鸣,成千上万的流星坠落,所有众生都生起了巨大的恐惧。
10.14.10
सशब्दमभवद्व्योम ज्वालामालाकुलं भृशम् ।
चचाल च मही कृत्स्ना सपर्वतवनद्रुमा ॥ १०.१४.१० ॥
天空轰鸣,充满了火焰之鬘,整个大地连同山岳、森林与树木都颤动起来。
10.14.11
तावस्त्रतेजसा लोकांस्त्रासयन्तौ ततः स्थितौ ।
महर्षी सहितौ तत्र दर्शयामासतुस्तदा ॥ १०.१४.११ ॥
二人以神箭之威震慑三界,屹立于此;此时两位大仙同时显现于彼处。
10.14.12
नारदः सर्वधर्मात्मा भरतानां पितामहः ।
उभौ शमयितुं वीरौ भारद्वाजधनञ्जयौ ॥ १०.१४.१२ ॥
众法之体、婆罗多族的祖父那罗陀,前来平息这两位英雄——婆罗堕阇之子与达那阇耶。
10.14.13
तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैपिणौ ।
दीप्तयोरस्रयोर्मध्ये स्थितौ परमतेजसौ ॥ १०.१४.१३ ॥
那两位通晓一切法、愿利益一切众生的仙人,以极大的威光站立在两件燃烧的神箭之间。
10.14.14
तदन्तरमनाधृष्यावुपगम्य यशस्विनौ ।
आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ ॥ १०.१४.१४ ॥
二位不可侵犯、名闻遐迩的最上仙人走到两者之间,站在那里,如同两团燃烧的火焰。
10.14.15
प्राणभृद्भिरनाधृष्यौ देवदानवसम्मतौ ।
अस्त्रतेजः शमयितुं लोकानां हितकाम्यया ॥ १०.१४.१५ ॥
二人为一切有情所不可侵犯,为天神与阿修罗所敬重,出于利益世界的愿望,站立在那里以平息神箭的威光。
10.14.16
महास्त्रविदुषः पूर्वे येऽप्यतीता महारथाः ।
नैतदस्रं मनुष्येषु तैः प्रयुक्तं कथञ्चन।
किमिदं साहसं वीरौ कृतवन्तौ महात्ययम् ॥ १०.१४.१६ ॥
即便过去那些精通大神箭的大车战士,也从未在人间使用过这种神箭。英雄们啊,你们二人为何做出这样招致大祸的鲁莽之事?