Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 10.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.15.1

दृष्टैव मुनिशार्दूलौ तावग्निसमतेजसौ ।
गाण्डीवधन्वा सञ्चिन्त्य प्राप्तकालं महारथः।
सञ्जहार शरं दिव्यं त्वरमाणो धनञ्जयः ॥ १०.१५.१ ॥

大车士执甘狄拔弓的达那闍耶看到这两位与火同样光辉的最优秀的仙人,思量时机已到,便急速收回了那支神箭。

10.15.2

उवाच वचनं श्रेष्ठस्तावृषी प्राञ्जलिस्तदा ।
प्रमुक्तमस्त्रमस्त्रेण शाम्यतामिति वै मया ॥ १०.१५.२ ॥

这时,两位殊胜的仙人合掌说道:"愿我所发的这支武器,以武器来平息。"

10.15.3

संहृते परमास्त्रेऽस्मिन्सर्वानस्मानशेषतः ।
पापकर्मा ध्रुवं द्रौणिः प्रधक्ष्यत्यस्त्रतेजसा ॥ १०.१५.३ ॥

即便这件至上武器已被收回,作恶的德罗纳之子也必定会以武器的光焰把我们所有人彻底焚毁。

10.15.4

यदत्र हितमस्माकं लोकानां चैव सर्वथा ।
भवन्तौ देवसङ्काशौ तथा सम्मन्तुमर्हतः ॥ १०.१५.४ ॥

凡在此对我们和一切世界都全然有益的事,你们二位如天神一般,应当赞同。

10.15.5

इत्युक्त्वा सञ्जहारास्त्रं पुनरेव धनञ्जयः ।
संहारो दुष्करस्स्य देवैरपि हि संयुगे ॥ १०.१५.५ ॥

说完这些,达那闍耶再次收回了那件武器。在战斗中,收回此武器即便对诸神也是困难的。

10.15.6

विसृष्टस्य रणे तस्य परमास्त्रस्य सङ्ग्रहे ।
अशक्तः पाण्डवादन्यः साक्षादपि शतक्रतुः ॥ १०.१५.६ ॥

在战斗中,除了般度之子,即使是百祭之主因陀罗本人,也无力收回那已发出的至上武器。

10.15.7

ब्रह्मतेजोद्भवं तद्धि विसृष्टमकृतात्मना ।
न शक्यमावर्तयितुं ब्रह्मचर्यव्रतादृते ॥ १०.१५.७ ॥

此武器生于梵之光辉,由心未调伏者发出,若非持守梵行之誓,不能收回。

10.15.8

अचीर्णब्रह्मचर्यो यः सृष्ट्वाऽऽवर्यते पुनः ।
तदस्त्रं सानुबन्धस्य मूर्धानं तस्य कृन्तति ॥ १०.१५.८ ॥

未行梵行者,若发出此武器后又欲收回,此武器便会连同其后果斩断他自己的头颅。

10.15.9

ब्रह्मचारी व्रती चापि दुरवापमवाप्य तत् ।
परमव्यसनार्तोऽपि नार्जुनोऽस्त्रं व्यमुञ्चत ॥ १०.१५.९ ॥

阿周那虽为梵行者、持守誓言,又得此难得之武器,纵处于极大困厄之中,也未曾发出此武器。

10.15.10

सत्यव्रतधरः शूरो ब्रह्मचारी च पाण्डवः ।
गुरुवर्ती च तेनास्त्रं सञ्जहारार्जुनः पुनः ॥ १०.१५.१० ॥

阿周那持守真实之誓,为英雄、梵行者、般度之子,且敬顺其师,因此得以再次收回那武器。

10.15.11

द्रौणिरप्यथ सम्प्रेभ्य सोऽन्तरा तावृषी स्थितौ ।
न शशाक पुनर्घोरमस्त्रं संहर्तुमोजसा ॥ १०.१५.११ ॥

德罗纳之子亦立于二仙之间,却无法以其力量再次收回那可怖的武器。

10.15.12

अशक्तः प्रतिसंहारे परमास्त्रस्य संयुगे ।
द्रौणिर्दीनमना राजन्द्वैपायनमभाषत ॥ १०.१५.१२ ॥

德罗纳之子因无法在战中收回那至上武器,心情沮丧,王啊,对德瓦伊帕亚那说道。

10.15.13

उत्तमव्यसनार्तेन प्राणत्राणमभीप्सुना ।
मयैतदस्त्रमुत्सृष्टं भीमसेनभयान्मुने ॥ १०.१५.१३ ॥

我因极大的灾难所困,渴望保全性命,出于对毘摩森那的恐惧,发出了此箭,哦,仙人。

10.15.14

अधर्मश्च कृतोऽनेन धार्तराष्ट्रं जिघांसता ।
मिथ्याचारेण भगवन्भीमसेनेन संयुगे ॥ १०.१५.१४ ॥

尊者啊,在战斗中,欲杀德拉斯特拉之子,毘摩森那以虚伪的行为犯下了不义。

10.15.15

अतः सृष्टमिदं ब्रह्मन्मयाऽस्त्रमकृतात्मना ।
तस्य भूयोऽपि संहारं कर्तुं नाहमिहोत्सहे ॥ १०.१५.१५ ॥

因此,婆罗门啊,我这心不受控制之人发出了此箭;此刻我无力将它再次收回。

10.15.16

निसृष्टं हि मया दिव्यमेतदस्त्रं दुरासदम् ।
अपाण्डवायेति मुने वह्नितेजोऽनुमन्त्र्य वै ॥ १०.१५.१६ ॥

哦,仙人,我以咒语召唤火焰之光,说了「针对般度之子」,发出了这神圣而难以抵挡的箭。

10.15.17

तदिदं पाण्डवेयानामन्तायैवाभिसंहितम् ।
अद्य पाण्डुसुतान्सर्वाञ्जीविताद्वंशयिष्यति ॥ १०.१५.१७ ॥

此箭正是为毁灭般度之子而瞄准;今日它将使般度的所有儿子断绝血脉、丧失性命。

10.15.18

कृतं पापमिदं ब्रह्मन्रोषाविष्टेन चेतसा ।
वधमाशास्य पार्थानां मयास्त्रं सृजता रणे ॥ १०.१५.१८ ॥

婆罗门啊,我心被愤怒所控,欲毁普利塔之子,在战场上发出此箭,犯下了这桩罪孽。

10.15.19

व्यास उवाच ।
अस्त्रं ब्रह्मशिरस्तात विद्वान्पार्थो धनञ्जयः।
उत्सृष्टवानहिंसार्थं न रोषेण तवाहवे ॥ १०.१५.१९ ॥

毗耶娑说:亲爱的孩子,有智慧的般度之子德难遮耶为了不伤害而放出了梵首箭,并非在战场上出于对你的愤怒。

10.15.20

अस्त्रमस्त्रेण तु रमे तव संशमयिष्यता ।
विसृष्टमर्जुनेनेदं पुनश्च प्रतिसंहृतम् ॥ १०.१५.२० ॥

我为你感到欣慰,你想以武器平息武器;阿周那放出了此箭,随后又将它收回。

10.15.21

ब्रह्मास्त्रमप्यवाप्यैतदुपदेशात्पितुस्तव ।
क्षत्रधर्मान्महाबाहुर्नाकम्पत धनञ्जयः ॥ १०.१५.२१ ॥

尽管他依你父亲的教导获得了这件梵天之箭,大臂的德难遮耶仍未背离刹帝利的职责而动摇。

10.15.22

एवं धृतिमतः साधोः सर्वास्त्रविदुषः सतः ।
सभ्रातृबन्धोः कस्मात्त्वं वधमस्य चिकीर्षसि ॥ १०.१५.२२ ॥

你为何要杀他?他坚定、正直、善良,精通一切兵器,与兄弟和亲属同在。

10.15.23

अस्त्रं ब्रह्मशिरो यत्र परमास्त्रेण वध्यते ।
समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति ॥ १०.१५.२३ ॥

若梵首箭被至高之箭所制服,十二年间云雨不会降临那个国家。

10.15.24

एतदर्थं महाबाहुः शक्तिमानपि पाण्डवः ।
न विहन्यात्तदस्त्रं तु प्रजाहितचिकीर्षया ॥ १०.१५.२४ ॥

因此,尽管有能力,大臂的般度之子仍不会去打击那件武器,出于为民谋福祉的愿望。

10.15.25

पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव नः ।
तस्मात्संहर दिव्यं त्वमस्त्रमेन्महाभुज ॥ १०.१५.२५ ॥

般度之子与此王国应始终由我们守护。因此,大臂者啊,收回你的神圣武器吧。

10.15.26

अरोषस्तव चैवास्तु पार्थाः सन्तु निरामयाः ।
न ह्यधर्मेण राजर्षिः पाण्डवो जेतुमिच्छति। ॥ १०.१५.२६ ॥

愿你的愤怒平息,愿普利塔之子平安无恙。王仙般度不愿以不义取胜。

10.15.27

मणिं चैव प्रयच्छाद्य यस्ते शिरसि तिष्ठति ।
एतदादाय ते प्रामान्प्रतिदास्यन्ति पाण्डवाः ॥ १०.१५.२७ ॥

现在就把你头上的宝珠交出来;般度之子取得它后,会把村庄归还给你。

10.15.28

पाण्डवैर्यानि रत्नानि यच्चान्यत्कौरवैर्धनम् ।
अवाप्तमिह तेभ्योऽयं मणिर्मम विशिष्यते ॥ १०.१५.२८ ॥

这里从般度之子与俱卢之子所得的珍宝与财富,我的这颗宝珠比它们都更为殊胜。

10.15.29

यमाबध्य भयं नास्ति शस्त्रव्याधिक्षुधाश्रयम् ।
देवेभ्यो दानवेभ्यो वा नागेभ्यो वा कथञ्चन ॥ १०.१५.२९ ॥

系戴此宝珠,便无刀兵、疾病、饥饿之惧,无论来自诸天、阿修罗还是龙蛇,皆无所惧。

10.15.30

न च रक्षोगणभयं न तस्करभयं तथा ।
एवंवीर्यो मणिरयं न मे त्याज्यः कथञ्चन ॥ १०.१५.३० ॥

无罗刹群之惧,亦无盗贼之惧。此宝珠威力如此,我无论如何也不可舍弃。

10.15.31

यत्तु मे भगवानाह तन्मे कार्यमनन्तरम् ।
अयं मणिरयं चाहमिषीका तु पतिष्यति।
गर्भेषु पाण्डुपुत्राणामुत्रायास्तथोदरे ॥ १०.१५.३१ ॥

尊者所说,即应立刻照办:此宝珠与我的箭将落入般度诸子的胎中,也落入乌德拉之腹。

10.15.32

प्राह द्रोणसुतं तत्र व्यासः परमदुर्मनाः ॥ १०.१५.३२ ॥

于是极为忧伤的毗耶娑对德罗纳之子说道。

10.15.33

एवं कुरु न चान्यत्र बुद्धिः कार्या कथञ्चन ।
गर्भेषु पाण्डवेयानां विसृज्यैतदुपारम ॥ १०.१५.३३ ॥

就这样做,切勿另有他念。放弃这针对般度之子胎中的行为,停止吧。

10.15.34

तमुवाच हृषीकेशः पाण्डवानां हिते मतः ।
भविष्यमेकमुत्सृज्य गर्भेष्वस्त्रं निपात्यताम् ॥ १०.१५.३४ ॥

心系般度之子福祉的希利诗迦说道:放过一个未来者,将武器投向胎中。

10.15.35

अहमेनं ददाम्येषां पिण्डदं कीर्तिवर्धनम् ।
राजर्षिं पुण्यकर्माणमनेकक्रतुयाजिनम् ॥ १०.१५.३५ ॥

我将他赐予他们,作为供奉祭饼、增添荣耀的人;这位德行高尚、行过多次祭祀的王仙。

10.15.36

एवं कुरु न चान्या ते बुद्धिः कार्या कथञ्चन ।
आगर्भात्पाण्डवेयानां कृत्वा पातं विनङ्क्ष्यति ॥ १०.१५.३६ ॥

就这样做,切勿另有他念。自般度之子的胎中便使其陨落,他将灭亡。

10.15.37

एवं ब्रुवाणं गोविन्दं वृषभं सर्वसात्वताम् ।
द्रौणिः परमसङ्क्रुद्धः प्रत्युवाचेदमुत्तरम् ॥ १०.१५.३७ ॥

当众萨特瓦塔之牛戈温达如此说时,德罗纳之子大为愤怒,回答道:

10.15.38

नैतदेवं यदात्थ त्वं पक्षपातेन केशव ।
वचनात्पुण्डरीकाक्ष तव मद्वाक्यमन्यथा ॥ १०.१५.३८ ॥

你出于偏袒所说的并非如此,哦,克沙瓦。哦,莲花眼者,我的话不会因你的言语而改变。

10.15.39

पतिष्यत्येतदस्त्रं वै गर्भे तस्या मयोद्यतम् ।
विराटदुहितुः कृष्ण यं त्वं रक्षितुमर्हसि ॥ १०.१५.३९ ॥

我所发出的此箭必将落入毗罗吒之女的腹中,克里希那啊,你应当保护她。

10.15.40

अमोघः परमास्त्रस्य पातस्त्वद्य भविष्यति ।
अभिमन्योः सृजैषीकां गर्भस्थः शाम्यतां शिशुः ॥ १०.१५.४० ॥

今日,你所发出的至高神箭不会落空。为阿毗曼尤放出一箭吧,使腹中的孩子得以平安。

10.15.41

अहमेनं मृतं जातं जीवयिष्यामि बालकम् ।
स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति ॥ १०.१५.४१ ॥

我将使这个死产的孩子复活。那胎儿虽然死产,也将获得长寿。

10.15.42

इत्युक्तः प्रत्युवाचैनं द्रोणपुत्रः स्मयन्निव ।
यद्यस्त्रदग्धं गोविन्द जीवयस्येवमस्त्विति ॥ १०.१५.४२ ॥

听他如此说,德罗纳之子仿佛微笑着回答他:「戈温达啊,若你能使被神箭烧焦者复活,那便如此吧。」

10.15.43

ततः परममस्त्रं तु द्रौणिरुद्यतमाहवे ।
द्वैपायनमनादृत्य गर्भेषु प्रमुमोच ह ॥ १०.१५.४३ ॥

于是德罗纳之子无视毗耶娑(Dvaipāyana),在战斗中将他举起的至高神器投向了胎儿。