Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 10.16

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.16.1

तदाज्ञाय हृषीकेशो विकृष्टं पापकर्मणा ।
हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा ॥ १०.१६.१ ॥

Hṛṣīkeśa知晓此事,被作恶者拖走,欢喜地对德罗尼说了这番话。

10.16.2

विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः ।
उपप्लाव्यगतां दृष्ट्वा ऋतवाग्ब्रह्मणोऽब्रवीत् ॥ १०.१६.२ ॥

看见维拉塔之女、持甘狄拔弓的阿周那之媳,她先前曾去过优帕普拉维亚,说真话者对婆罗门说道。

10.16.3

परिक्षीणेषु कुरुषु पुत्रस्तव भविष्यति ।
एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति ॥ १०.१६.३ ॥

当俱卢族几近灭绝时,你将有一子;这便是腹中之子成为阿雷克希特的缘由。

10.16.4

तस्य तद्वचनं साधोः सत्यमेद्भविष्यति ।
परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः ॥ १०.१६.४ ॥

那位善人的话将会应验;的确,他们之中将有阿雷克希特,一个再次兴旺家族的儿子。

10.16.5

त्वां तु कापुरुषं पापं विंदुः सर्वे मनीषिणः ।
असकृत्पापकर्माणं बालजीवितघातकम् ॥ १०.१६.५ ॥

然而,所有智者都认为你是懦夫、罪人,屡次作恶,是夺取孩童性命的人。

10.16.6

तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि ।
त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम् ॥ १०.१६.६ ॥

因此,你要承受这恶行的果报;你将在这大地上流浪三千年。

10.16.7

अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित् ।
निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि ॥ १०.१६.७ ॥

你将无处、无人与你相交,孤身一人,在荒僻之地游走于各国。

10.16.8

भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः ।
पूयशोणिगन्धी च दुर्गकान्तारसंश्रयः। ॥ १०.१६.८ ॥

卑贱之人啊,你将不能居于人群之中;身带脓血之气,你将投身于险峻的荒林。

10.16.9

विचरिष्यसि पापात्मंश्चिरमेको वसुन्धराम् ।
वयः प्राप्य परिक्षित्तुं देवव्रतमवाप्य च। ॥ १०.१६.९ ॥

作恶之人啊,你将独自在大地上漫游很久;即便成年,并得到提婆跋多(毗湿摩),你也无法得救。

10.16.10

कृपाच्छारद्वताच्छूरः सर्वास्त्राण्युपपत्स्यते ।
विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः। ॥ १०.१६.१० ॥

这位英雄将从克里巴和沙罗陀多之子(德罗纳)那里获得一切武器;通晓至高武器后,他将坚守刹帝利职责的誓愿。

10.16.11

षष्टिं वर्षामि धर्मात्मा वसुधां पालयिष्यति ।
इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति। ॥ १०.१६.११ ॥

这位正义之人将守护大地六十年;此后,这位大臂者将成为俱卢王。

10.16.12

परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते ।
अहं तं जीवयिष्यामि दग्धं शस्त्राग्नितेजसा। ॥ १०.१६.१२ ॥

愚昧之人啊,即便名为波里克希特的国王在你眼前被兵器之火的烈焰烧毁,我也必使他重获生命。

10.16.13

पश्य मे तपसो वीर्यं सत्यस्य च नराधम ।
यस्मादनादृत्य कृतं त्वयाऽस्मान्कर्म दारुणम्।
ब्राह्मणस्य सतश्चेदं वृत्तमन्यायवर्तिनः ॥ १०.१६.१३ ॥

看我苦行与真理的力量吧,你这最卑劣的人。你无视我们,做出了这残酷的行为;身为婆罗门却行不义之事,这便是你的所为。

10.16.14

तस्माद्यद्देवकीपुत्र उक्वानुत्तमं वचः ।
आलोकात्तव तद्भावि क्षुद्रकर्मन्व्रजेति ह ॥ १०.१६.१४ ॥

因此,德瓦吉之子所说的至上之言,将因你的目光而应验。他说:“去吧,行卑劣之事的人。”

10.16.15

सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्विह ।
सत्यवागस्तु भगवानयं च पुरुषोत्तमः ॥ १०.१६.१५ ॥

婆罗门啊,我将与你一同留在这世间的人群之中。愿这位世尊、人中至尊,言语真实。

10.16.16

प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम् ।
जगाम विमनास्तेषां सर्वेषां पश्यतां वनम् ॥ १०.१६.१६ ॥

于是德罗纳之子将宝珠交给伟大的般度五子,怏怏不乐地在他们众人注视之下走向森林。

10.16.17

पाण्डवाश्च सदाशार्हास्तानृषीनभिवाद्य च ।
कृष्णद्वैपायनं चैव नारदं चैव पर्वतम् ॥ १०.१६.१७ ॥

常受尊敬的般度五子向那些仙人致敬,也向黑仙(毗耶娑)、那罗陀和波尔瓦塔致敬。

10.16.18

द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः ।
द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम् ॥ १०.१६.१८ ॥

取了德罗纳之子与生俱来的宝珠,他们迅速奔向正在绝食的贤淑女子德罗波蒂。

10.16.19

ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः ।
अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव हि ॥ १०.१६.१९ ॥

于是那些人中猛虎,乘着疾如风的良马,与达沙尔哈族人一同再次奔向营地。

10.16.20

अवतीर्य रथेभ्यस्तु त्वरमाणा महारथाः ।
ददृशुर्द्रौपदीं हृष्टामार्तामार्ततराः स्वयम् ॥ १०.१६.२० ॥

这些大车士急忙下车,看见德劳帕蒂;她看似欢喜,而他们自己却更加悲痛。

10.16.21

तामुपेत्य निरानन्दां दुःखशोकसमन्विताम् ।
परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः ॥ १०.१६.२१ ॥

般度之子与克沙瓦一同走近她——她毫无欢颜,充满悲伤与哀痛——并将她围绕站立。

10.16.22

ततो राज्ञाऽभ्यनुज्ञातो भीमसेनो महाबलः ।
प्रददौ तं मणिं दिव्यं वचनं चेदमब्रवीत् ॥ १०.१६.२२ ॥

于是,得到国王许可的大力婆罗摩那·比摩赛那将那颗神圣的宝珠交给她,并说了这些话。

10.16.23

अयं भद्रे तव मणिः पुत्रहन्ता जितश्च ते ।
उत्तिष्ठ शोकमुत्सृज्य क्षात्रधर्ममनुस्मर ॥ १०.१६.२३ ॥

善良的女子,这颗宝珠是你的,杀害你儿子的人已被征服。放下悲伤,起来,记起刹帝利的本分吧。

10.16.24

प्रयाणे वासुदेवस्य शमार्थवसितेक्षणे ।
यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनि ॥ १०.१६.२४ ॥

胆怯的女子啊,请想起你在婆苏提婆出发时所说的话——那时他的目光正专注于寻求和平——哦,摩图的仇敌之妻。

10.16.25

नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च ।
न वै त्वमिति गोविन्द शममिच्छति राजनि ॥ १०.१६.२५ ॥

哦,戈文达,我既无夫,也无子,也无兄弟;你却向国王求和。

10.16.26

उक्तवत्यसि तीव्राणि वाक्यानि पुरुषोत्तमम् ।
क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि ॥ १०.१६.२६ ॥

你向人中最上者说了严厉的话,这些话合于刹帝利的本分;你现在应当想起它们。

10.16.27

हतो दुर्योधनः पापो राज्यस्य परिपन्थिकः ।
दुःशासनस्य रुधिरं पीतं विस्फुरतो मया ॥ १०.१६.२७ ॥

作恶的、阻碍王国的难敌已被杀死;当难降那挣扎时,我饮了他的血。

10.16.28

वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ।
जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च ॥ १०.१६.२८ ॥

仇恨之债已偿清;想说的人不应再说。德罗纳之子虽被征服,却因婆罗门身份与尊敬而被释放。

10.16.29

यशोऽस्य पतितं देवि शरीरं त्ववशेषितम् ।
वियोजितश्च मणिना भ्रंशितश्चायुधं भुवि ॥ १०.१६.२९ ॥

女神啊,他的荣耀已陨落,只剩躯体;他与宝珠分离,兵器也坠落于地。

10.16.30

केवलानृण्यमाप्ताऽस्मि गुरुपुत्रो गुरुर्मम ।
शिरस्येतं मणिं राजा ग्रहीतुमनघोऽर्हति ॥ १०.१६.३० ॥

我不过获得了偿还债务的解脱;老师之子如同我的老师。愿无罪的国王取此宝珠,戴在头上。

10.16.31

तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा ।
गुरोरुच्छेषमित्येव द्रौपद्या वचनादपि ॥ १०.१६.३१ ॥

国王接过它,便戴在头上,视为老师的遗物,也依从德罗波蒂的话。

10.16.32

ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः ।
शुशुभे स तदा राजा सचन्द्र इव पर्वतः ॥ १०.१६.३२ ॥

那时,这位威严的国王头戴那颗神圣的上好宝珠,光彩如同伴着月亮的山峰。

10.16.33

उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी ।
कृष्णं चापि महाबाहुः परिपप्रच्छ धर्मराट् ॥ १०.१६.३३ ॥

于是,因丧子之痛而悲伤的心志高尚的黑公主站了起来;臂力强大的法王也向黑天发问。