Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 10.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.17.1

हतेषु सर्वसैन्येषु सौप्तिकै तै रथैस्त्रिभिः ।
शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत् ॥ १०.१७.१ ॥

当所有军队在那三位车战勇士的夜袭中被杀之后,悲痛的国王坚战对达沙尔诃之子(黑天)说了这些话。

10.17.2

कथं नु कृष्ण पापेन क्षुद्रेण शठबुद्धिना ।
द्रौणिना निहताः सर्वे मम पुत्रा महारथाः ॥ १०.१७.२ ॥

黑天啊,那罪恶、卑劣、心怀欺诈的德罗纳之子,怎能杀死我所有的大车将诸子?

10.17.3

तथा कृतास्रविक्रान्ताः सङ्ग्रामेष्वपलायिनः ।
द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः ॥ १०.१७.३ ॥

同样,德鲁帕达的儿子们,精通武艺、在战斗中从不逃避,也被德罗纳之子杀死。

10.17.4

यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम् ।
निजघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः ॥ १०.१७.४ ॥

那位在战场上从不回避的大弓箭手德罗纳,怎会杀死车将中最优秀的德里斯塔德尤姆纳?

10.17.5

किन्नु तेन कृतं कर्म तथायुक्तं नरर्षभ ।
यदेकः समरे सर्वानवधीन्नो गुरोः सुतः ॥ १०.१७.५ ॥

人中雄牛啊,老师之子独自在战斗中杀了我们所有人,他做了什么事,又抱着怎样相称的决心?

10.17.6

नूनं स देवदेवानामीश्वरेश्वरमव्ययम् ।
जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून् ॥ १०.१७.६ ॥

这位德罗纳之子一定是投奔了不朽的主宰,即诸神之神、自在者之自在者;他正是凭借这份皈依,才一人杀死了许多人。

10.17.7

प्रसन्नो हि महादेवो दद्यादमरतामपि ।
वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत् ॥ १०.१७.७ ॥

若大天神摩诃提婆欢喜,他甚至可以赐予不死;山主(Giriśa)也能赐予这样的威力,以至于借此可以杀死因陀罗本人。

10.17.8

वेदाहं हि महादेवं तत्त्वेन भरतर्षभ ।
यानि चास्यपुराणानि कर्माणि विविधानि च ॥ १०.१७.८ ॥

婆罗多族的雄牛啊,我确实了知大天神摩诃提婆,也了知他古老的事迹和种种各样的行为。

10.17.9

आदिरेष हि भूतानां मध्यमन्तश्च भारत ।
विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा ॥ १०.१७.९ ॥

婆罗多的后裔啊,他确实是众生的始、中、终;这整个世界只因他的行动而运转。

10.17.10

एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः ।
पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम् ॥ १०.१७.१० ॥

如此,欲造众生的遍在祖父先看到他,并对他说:"快去创造众生,不要迟延。"

10.17.11

हरिकेशस्तथेत्युक्वा दीर्घदर्शी तदा प्रभुः ।
दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः ॥ १०.१७.११ ॥

他说"就这样吧",那位远见的主宰哈里凯夏便长久地修苦行;这位大苦行者沉没在水中。

10.17.12

सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः ।
स्रष्टारं सर्वभूतानां ससर्ज मनसाऽपरम् ॥ १०.१७.१२ ॥

等待他很久之后,祖父以心意创造了另一位,作为一切众生的创造者。

10.17.13

सोऽब्रवीद्वातरं दृष्ट्वा गिरिशं सुप्तमम्भसि ।
यदि मे नाग्रजोऽस्त्यन्यस्ततः स्रक्ष्याम्यहं प्रजाः ॥ १०.१७.१३ ॥

他看见睡在水中的兄弟吉利沙(湿婆),便说道:若我没有其他兄长,那我就来创造众生。

10.17.14

तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः ।
स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै प्रजाः ॥ १०.१७.१४ ॥

父亲对他说:没有比你更年长的人了。这位斯塔努(湿婆)沉没在水中;你可安心地创造众生。

10.17.15

भूतान्यन्वसृजत्सप्त दक्षः क्षिप्रं प्रजापतिः ।
यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम् ॥ १०.१७.१५ ॥

生主达刹迅速创造了七类生灵,借此安排了这四类的全部众生。

10.17.16

ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम् ।
बिभक्षयिवो राजन्सहसा प्राद्रवंस्तदा ॥ १०.१७.१६ ॥

大王啊,众生刚被创造出来,便都饥饿难耐,想要吞食生主,于是突然向他扑去。

10.17.17

स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत् ।
आभ्यो मां भगवांस्त्रातु वृत्तिरासां विधीयताम् ॥ १०.१७.१७ ॥

他被吞食,寻求庇护,便奔向祖父(梵天)说:世尊啊,请保护我免受他们的伤害;请为他们安排生活之道。

10.17.18

ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च ।
जङ्गमानि च भूतानि दुर्बलानि बलीयसाम् ॥ १०.१७.१८ ॥

于是他为它们提供食物:草药、静止之物,也有行动的生灵;使弱者成为强者的食物。

10.17.19

विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम् ।
ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु ॥ १०.१७.१९ ॥

那些得到食物的众生心满意足地回到了它们来时的地方。国王啊,它们充满喜悦,在各自的胎中繁衍生长。

10.17.20

भूतग्रामे विवृद्वे तु सृष्टे देवासुरे तदा ।
उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः ॥ १०.१७.२० ॥

众生繁多,天神与阿修罗也已被创造,那时长者从水中升起,看见了这些生灵。

10.17.21

बहुरूपाः प्रजाः सृष्टा विवृद्धाश्च स्वतेजसा ।
चुक्रोध बलवद्दृष्ट्वा लिङ्गं स्वं चाप्यविध्यत ॥ १०.१७.२१ ॥

看见由自身光辉所造、形态众多的生灵已经繁衍,他大为愤怒,甚至刺穿了自己的阳具。

10.17.22

तत्प्रविद्धं तथा भूमौ तथैव प्रत्यतिष्ठत ।
तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव ॥ १०.१७.२२ ॥

它被抛在地上,却又同样地立起。那时不灭的梵天用话语对他说,仿佛要安抚他。

10.17.23

किं कृतं सलिले शर्व चिरकालस्थितेन ते ।
किमर्थं चेदमुत्पाद्य लिङ्गं भूमौ प्रवेशितम् ॥ १०.१७.२३ ॥

啊,湿婆,你在水中久留,做了什么?既然造出了这阳物,为何又把它插入大地?

10.17.24

सोऽब्रवीज्जातसंरम्भस्तथा लोकगुरुर्गुरुम् ।
प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै ॥ १०.१७.२४ ॥

那时,被怒火激起的世界之师对师尊说:“这些众生是他人所造;我要用这阳物做什么?”

10.17.25

प्रजाः सृष्टाः परेणेमाः प्रजार्थं मे पितामह ।
ओषध्यः परिवर्तेरन्यथैवं सततं प्रजाः ॥ १०.१७.२५ ॥

这些众生由至上者所造。祖父啊,为了我的众生,草药将以另一种方式改变;如此众生将不断变化。

10.17.26

एवमुक्त्वा स सक्रोधो जगाम विमना भवः ।
गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः ॥ १०.१७.२६ ॥

如此说罢,怒气冲冲、心神烦乱的婆婆(湿婆)前往穆尼遮婆山脚,这位大苦行者去修行苦行。