Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 10.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.18.1

ततो देवयुगेऽतीते देवा वै समकल्पयन् ।
यज्ञवेदप्रमाणेन विधिवद्यष्टुमीप्सवः
तस्यायमाद्यः श्लोकः ।
हते दुर्योधने चैव हते सैन्ये च सर्वशः।
धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने ॥ १०.१८.१ ॥

那时,天神时代过去后,诸神依照祭祀吠陀的规范安排祭祀,希望依礼而行。关于此事的第一颂是:杜尤达那被杀、全军四面皆灭之后,大王啊,圣者啊,持国王闻之后做了什么?

10.18.2

कल्पयामासुरथ ते साधनानि हवींषि च ।
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च ॥ १०.१८.२ ॥

随后他们安排了器具与祭品,值得分得份额的神明,以及适于祭祀的物品。

10.18.3

ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः ।
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप ॥ १०.१८.३ ॥

然而诸神因不如实认识楼陀罗,没有为神明斯坦努安排份额,大王啊。

10.18.4

सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः ।
तपसा यज्ञमन्विच्छन्धनुरादौ ससर्ज ह ॥ १०.१८.४ ॥

他的份额未被安排,身披兽皮者在诸神的祭祀中以苦行寻求祭祀,于是首先创造了弓。

10.18.5

लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः ।
पञ्चभूतनृयज्ञश्च जज्ञे सर्वमिदं जगत् ॥ १०.१८.५ ॥

世界祭、行为祭、永恒的家祭,以及五大元素与人类之祭:这整个世界正是由此而生。

10.18.6

लोकयज्ञैर्नृयज्ञैश्च कपर्दी विदधे धनुः ।
धनुः सृष्टमभूत्तस्य षष्टिकिष्कुप्रमाणतः ॥ १०.१८.६ ॥

以世界之祭与人类之祭,结发的卡帕尔迪制成了弓;他所造之弓长六十“基什库”。

10.18.7

वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत ।
यज्ञाङ्गानि च चत्वारि तस्य सन्नहनेऽभवन् ॥ १०.१८.७ ॥

婆罗多啊,那张弓的弓弦变成了婆沙吒迦罗,其装备中生出了祭祀的四支分。

10.18.8

ततः क्रुद्धो महादेवस्दुपादाय कार्मुकम् ।
आजगामाथ तत्रैव यत्र देवाः समीजिरे ॥ १०.१८.८ ॥

于是大天神震怒,手持那张弓,直往诸神聚集之处而来。

10.18.9

तमात्कार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम् ।
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे ॥ १०.१८.९ ॥

见到那位不坏的梵行者的弓,大地女神痛苦不堪,群山也都颤抖起来。

10.18.10

न ववौ पवनश्चैव नाग्निर्जज्वाल वैधितः ।
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम् ॥ १०.१८.१० ॥

风不吹,火不燃——仿佛被穿透一般;天上的星群也惊惶不定,四处游移。

10.18.11

न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः ।
तिमिरेणाकुलं सर्वमाकाशं चाभवृद्वृतम् ॥ १०.१८.११ ॥

太阳不放光明,月亮也不见其光彩的圆轮;整个天空被黑暗所笼罩,陷入混乱。

10.18.12

अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे ।
न प्रत्यभाच्च यज्ञः स देवतास्त्रेसिरे तथा ॥ १०.१८.१२ ॥

于是诸神被压倒,不能察知自己的境域;祭祀也不放光明,诸天神同样惊恐。

10.18.13

ततः स यज्ञं विव्याध रौद्रेण हृदि पत्रिणा ।
अपक्रान्स्ततो यज्ञो मृगो भूत्वा सपावकः ॥ १०.१८.१३ ॥

于是他用一支凶猛的箭射中了祭祀的心脏。祭祀便化作一只鹿,与火一同逃走了。

10.18.14

स तु तेनैव रूपेण दिविस्थो वै व्यराजत ।
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले ॥ १०.१८.१४ ॥

他以同样的形态立于天空并闪耀;尊者,持珂啊,楼陀罗在天空中追赶着他。

10.18.15

अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात्सुरान् ।
नष्टसंज्ञेषु देवेषु न प्राज्ञायत किञ्चन ॥ १०.१८.१५ ॥

祭祀逃走之后,诸神的意识没有恢复;失去知觉的诸神什么也感知不到了。

10.18.16

त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा ।
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत् ॥ १०.१८.१६ ॥

三眼神(楼陀罗)大怒,以弓梢打断了萨维特里的双臂、薄伽的双目,并打落了普善的牙齿。

10.18.17

प्राद्रवन् ततो देवा यज्ञाङ्गानि च सर्वशः ।
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन् ॥ १०.१८.१७ ॥

于是诸神与祭祀的各部分四散奔逃;有些神在那里打转,仿佛失去了生命。

10.18.18

स तु विद्राव्य तत्सर्वं शितिकम्ठोऽवहस्य च ।
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः ॥ १०.१८.१८ ॥

于是那蓝颈者驱散了一切,大笑着握住弓梢,阻住了诸神。

10.18.19

ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत् ।
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः ॥ १०.१८.१९ ॥

此时诸天所言之声传来,他们切断了他弓的弦。大王啊,弦被切断的那张弓忽然颤抖起来。

10.18.20

ततो विधनुषं देवा देवश्रेष्ठमुपागमन् ।
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः ॥ १०.१८.२० ॥

于是诸神走近失去弓的诸神之最。他们与祭祀一同寻求庇护,主便施予恩典。

10.18.21

ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये ।
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो ॥ १०.१८.२१ ॥

于是欢喜的世尊将他的愤怒投入水池。那愤怒化为火,不停地烤干了水,主啊。

10.18.22

भगस्य नयने चैव बाहू च सवितुस्तथा ।
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञांश्च पाण्डव ॥ १०.१८.२२ ॥

他又还给婆伽两眼,同样还给萨维特里两臂;又把牙齿还给布善,也把祭祀还回,哦,般度之子。

10.18.23

ततः सुस्थमिदं सर्वं बभूव पुनरेव हि ।
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन् ॥ १०.१८.२३ ॥

于是这一切又重新安定,诸神在一切祭品中为他定下了他的份额。

10.18.24

तस्मिन्क्रुद्धेऽभवत्सर्वमसुस्थं भुवनं प्रभो ।
प्रसन्ने च पुनः सुस्थं जगद्भवति भारत ॥ १०.१८.२४ ॥

他愤怒时,整个世界便紊乱,主啊;他欢喜时,世界又重新安定,哦,婆罗多之子。

10.18.25

ततस्ते निहताः सर्वे तव पुत्रा महारथाः ।
अन्ये च बहवः शूराः पाञ्चालस्य पदानुगाः ॥ १०.१८.२५ ॥

于是你所有的大车战士之子被杀,还有许多般遮罗的步卒随从之勇士也被杀。

10.18.26

न तन्मनसि कर्व्यं न च तद्द्रौणिना कृतम् ।
महादेवप्रसादः स कुरुकार्यमनन्तरम् ॥ १०.१८.२६ ॥

那并非心中所想,也不是德罗纳之子所为;此后乃是大天之恩典成就了俱卢之事。