Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 10.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.2.1

श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो ।
ममापि तु वचः किञ्चिच्छृणुष्वाद्य महाभुज ॥ १०.२.१ ॥

啊,强者,你已听完我所有有理有据的话语。现在也请听听我的一些话,大臂者啊。

10.2.2

आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः ।
दैवे पुरुषकारे च परं ताभ्यां न विद्यते ॥ १०.२.२ ॥

所有人都被两种业所束缚:天命与人力。除此二者之外,再无更高的东西。

10.2.3

न हि दैवेन सिध्यन्ति कार्याण्येकेन सत्तम ।
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः ॥ १०.२.३ ॥

善中之最,事业不单靠天命成就,也不单靠行动成就;唯有二者相合,方能成功。

10.2.4

ताभ्यामुभाभ्यां सर्वार्था निबद्धा अधमोत्तमाः ।
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः ॥ १०.२.४ ॥

无论卑下或高尚的一切目标,都受此二者束缚;有人可见投身行动,有人则在各方面都已退隐。

10.2.5

पर्जन्यः पर्वते वर्षन्किन्नु साधयते फलम् ।
कृष्टे क्षेत्रे तथा वर्षन्किं न साधयते फलम् ॥ १०.२.५ ॥

云在山上降雨,能成就什么果实呢?而在耕过的田地上降雨,为何就不能成就果实呢?

10.2.6

उत्थानं चापि दैवस्य ह्यनुत्थानं च दैवतम् ।
व्यर्थं भवति सर्वत्र पूर्वस्तत्र विनिश्चयः ॥ १०.२.६ ॥

天命的作为与不作为,处处皆归于徒劳;此时决定一切的,是前世之业。

10.2.7

सुवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते ।
बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी ॥ १०.२.७ ॥

如同天降甘霖,田地耕作得当,种子便结出大果,人的成功也是如此。

10.2.8

तयोर्दैवं तु दुश्चिन्त्यं स्ववशेनैव वर्तते ।
प्राज्ञाः पुरुषकारे तु वर्तन्ते देवमास्थिताः ॥ १०.२.८ ॥

二者之中,天命难以揣测,自行其力而运行;而智者坚守人的努力,并依靠天命。

10.2.9

ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ ।
विचेष्टन्तः स्म दृश्यन्ते निवृत्तास्तु तथैव च ॥ १०.२.९ ॥

人中之牛啊,人的一切事业与目的皆由此二者而成;人们可见在努力,也可见有人退缩。

10.2.10

कृतः पुरुषकारश्च सोऽपि दैवेन सिध्यति ।
तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम् ॥ १०.२.१० ॥

所做的人力努力,也要靠天命才能成就;如此,行动者的行为之果便会结出。

10.2.11

उत्थानं च मनुष्याणां दक्षाणां दैववर्जितम् ।
अभलं दृश्यते लोके सम्यगप्युपपादितम् ॥ १०.२.११ ॥

世间可见,人的努力,即使是能干之人的努力,若无天命相助,也会徒劳无功,即便做得很好。

10.2.12

तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः ।
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते ॥ १०.२.१२ ॥

人中那些懒惰而无决心的人,会指责努力;这并不合智者的心意。

10.2.13

प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि ।
अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम् ॥ १०.२.१३ ॥

通常在大地上,已做之业不会毫无结果;不作为则又带来痛苦,而作业则见大果。

10.2.14

चष्टामकुर्वंल्लभते यदि किञ्चिद्यदृच्छया ।
यो वा न लभते कृत्वा दुर्दर्शौ तावुभावपि ॥ १०.२.१४ ॥

若人不作努力而偶然得到某物,或努力之人却不得——这两种情形都难得一见。

10.2.15

शक्नोति जीवितुं दक्षो नालसः सुखमेधते ।
दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः ॥ १०.२.१५ ॥

唯有能干者方能生存;懒惰者不得幸福。在这生命世界中,能干之人大多是求善利者。

10.2.16

यदि दक्षः समारम्भात्कर्मणो नाश्नुते फलम् ।
नास्य वाच्यं भवेत्किञ्चिल्लब्धव्यं वाऽधिगच्छति ॥ १०.२.१६ ॥

若能干之人已行事却未得果报,则其人无可责备;或者他得到了应当得到的。

10.2.17

नाकृत्वा कर्म लोके हि फलं विन्दति कर्हिचित् ।
स तु वक्तव्यतां याति द्वेष्यो भवति भूयशः ॥ १०.२.१७ ॥

在世间,不作为则从不会得果;而他却成为可受责备之人,并屡屡被人憎恶。

10.2.18

एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा ।
स करोत्यात्मनोऽनर्थानेष बुद्धिमतां नयः ॥ १०.२.१८ ॥

若轻视此理而行事相反,则是自取祸患;这正是智者之道。

10.2.19

हीनं पुरुषकारेण यदि दैवेन वा पुनः ।
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत् ॥ १०.२.१९ ॥

若因人力或天命有所欠缺,则因这两种原因,努力便会徒劳无功。

10.2.20

हीनं पुरुषकारेण कर्म त्विह न सिध्यति ॥ १०.२.२० ॥

缺乏人力的行动,在此世间不能成功。

10.2.21

दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते ।
दक्षो दाक्षिण्यसम्पन्नो न स मोघैर्विहन्यते ॥ १०.२.२१ ॥

善于行事、彬彬有礼之人,向诸神致敬后,正当地追求其目的,不会因虚妄之因而受挫。

10.2.22

सम्यगीहा पुनरियं या बृद्धानुपसेवते ।
आपृच्छति च यच्छ्रेयः करोति च हितं वचः ॥ १०.२.२२ ॥

这才是正确的努力:侍奉长者,询问何为善,依照有益之言而行。

10.2.23

उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः ।
ते स्म योगे परं मूलं तन्मूला सिद्धिरुच्यते ॥ १०.२.२३ ॥

应当时时起身,向长者认可的人请教。在谋划中,这便是至高的根本,成功据说便根植于此。

10.2.24

वृद्धानां वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत् ।
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात् ॥ १०.२.२४ ॥

闻听长者之言而致力于行动者,很快便能获得此行动的正果。

10.2.25

रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः ।
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः ॥ १०.२.२५ ॥

人若因贪欲、愤怒、恐惧或贪婪而追求财富,便会无力且受辱,很快便从昌盛中坠落。

10.2.26

सोयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना ।
असमर्थः समारब्धो मूढत्वादविचिनन्तितः ॥ १०.२.२६ ॥

这件事由贪婪而短视的难敌发起;它超出了他的能力,因愚昧而未经思虑便开始了。

10.2.27

हितबुद्धीननादृत्य सम्मन्त्र्यासाधुभिः सह ।
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः ॥ १०.२.२७ ॥

他无视好心的谋士,与恶人商议,尽管被劝阻,仍与德行远胜的般度五子结下仇怨。

10.2.28

पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति ।
तपत्यर्थे विपन्ने हि मित्राणां न कृतं वचः ॥ १०.२.२८ ॥

本性极恶之人本就无法坚忍;事业失败时,未曾听从朋友之言的悔恨便焚烧着他。

10.2.29

अनुवर्तामहे यत्तु तं वयं पापपूरुषम् ।
अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान् ॥ १०.२.२९ ॥

我们追随了那个罪人,因此通过他,这场可怕而巨大的灾祸也降临到了我们身上。

10.2.30

अेन तु ममाद्यापि व्यसनेनोपतापिता ।
बुद्धिश्चिन्तयते किञ्चित्स्वं श्रेयो नावबुध्यते ॥ १०.२.३० ॥

即便如今,我的心智仍被此灾所折磨;它在思索某事,却不能察知自身的福祉。

10.2.31

मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो जनाः ।
तत्रास्य बुद्धिर्विनयस्तत्र श्रेयश्च पश्यति ॥ १०.२.३१ ॥

迷惑的人应当询问他的朋友与well-wishers,因为在那里他的智慧与礼节显现,善也在那里被看见。

10.2.32

ततोऽस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः ।
तेऽत्र पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत् ॥ १०.२.३२ ॥

然后,以智慧确定这些事务的根源,就应当按照这里被询问的智者所说去做。

10.2.33

ते वयं धृतराष्ट्रं च गान्धारीं च यशस्विनीम् ।
उपपृच्छामहे गत्वा विदुरं च महामतिम् ॥ १०.२.३३ ॥

因此,我们将前往询问持国王、光荣的甘陀利,以及大智慧的毗杜罗。

10.2.34

ते पृष्टास्तु वदेयुर्यच्छ्रेयो नः समनन्तरम् ।
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः ॥ १०.२.३४ ॥

当我们询问时,他们立刻告诉我们什么是善,我们就应当再次照做——这是我坚定的看法。

10.2.35

अनारम्भात्तु कार्याणां नार्थः सम्पद्यते क्वचित् ॥ १०.२.३५ ॥

若不开始行动,任何目的在任何地方都不会成就。

10.2.36

कृते पुरुषकारे तु येषां कार्यं न सिध्यति ।
दैवेनोपहतास्ते तु नात्र कार्या विचारणा ॥ १०.२.३६ ॥

那些即使尽了人力,事情仍不成就的人,是被命运所击中的;此事无需再作思量。