摩诃婆罗多 · 章 10.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
10.5.1
शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः ।
नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः ॥ १०.५.१ ॥
即便是一个渴望聆听、头脑愚钝、感官不受约束的人,也无法完全理解法与利,这是我的看法。
10.5.2
तथैव तावन्मेधावी विनयं यो न शिक्षते ।
न च किञ्चन जानाति सोऽपि धर्मार्थनिश्चयम् ॥ १०.५.२ ॥
同样,那智慧之人若不学习谦逊,且一无所知,也无法确定法与利。
10.5.3
चिरं ह्यपि जडः शूरः पण्डितं पर्युपास्य ह ।
न स धर्मान्विजानाति दर्वी सूपरसानिव ॥ १०.५.३ ॥
即使愚钝的勇士长期侍奉学者,也不能理解法,就像勺子不能品尝汤的味道一样。
10.5.4
मुहूर्तमपि तं प्राज्ञः पण्डितं पर्युपास्य हि ।
क्षिप्रं धर्मान्विजानाति जिह्वा सूपरसानिव ॥ १०.५.४ ॥
智者即便侍奉学者一瞬间,也能迅速理解法,就像舌头立即辨出汤的味道。
10.5.5
शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः ।
जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत् ॥ १०.५.५ ॥
然而,渴望聆听、有智慧且感官受控的人,应当了解一切典籍,不违背值得接受的道理。
10.5.6
अनयस्त्ववमानी यो दुरात्मा पापपूरुषः ।
दिष्टमुत्सृज्य कल्याणं करोति बहुपातकम् ॥ १०.५.६ ॥
然而,那辱人的、心性邪恶的罪人,舍弃命运所定的善,造作大量罪业。
10.5.7
नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात् ।
निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते ॥ १०.५.७ ॥
有庇护者,朋友便阻止他犯罪。有福之人回头,无福之人不回头。
10.5.8
यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते ।
तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति ॥ १०.५.८ ॥
正如心神散乱之人可以被高低之言所约束,能被朋友约束者便被约束;不能被约束者则沉沦。
10.5.9
तथैव सुहृदोऽप्राज्ञान्कुर्वाणान्कर्म पापकम् ।
प्राज्ञाः सम्प्रतिषेधन्ति यथाशक्ति पुनःपुनः ॥ १०.५.९ ॥
同样,朋友阻止那些做恶业的无知之人;智者则依自己的能力一再阻止他们。
10.5.10
स कल्याणे मनः कृत्वा नियम्यात्मानमात्मना ।
कुरु मे वचनं तात येन पश्चान्न तप्स्यसे ॥ १०.५.१० ॥
让他将心志专注于善,以自己约束自己。孩子,听从我的话,免得你日后懊悔。
10.5.11
न वधः पूज्यते लोके सुप्तानामिह धर्मतः ।
तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम् ॥ १०.५.११ ॥
在此世间,依法杀死熟睡之人是不被推崇的;同样,杀死放下武器、车马已解脱之人也不被推崇。
10.5.12
ये व ब्रूयुस्तवास्मीति ये च स्युः शरणागताः ।
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः ॥ १०.५.१२ ॥
说“我是你的”的人、来寻求庇护的人、披散头发的人,以及坐骑已被杀死的人——
10.5.13
अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो ।
विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः ॥ १०.५.१३ ॥
啊,威力者!今夜般遮罗人将解除铠甲,安心入睡,个个如死人般失去知觉。
10.5.14
यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः ।
व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लुवे ॥ १०.५.१४ ॥
凡在那种境况中伤害他们的不正直之人,必定沉入地狱——那深不可测、广阔无边、无舟可渡之海。
10.5.15
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः ।
न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम् ॥ १०.५.१५ ॥
在通晓一切兵器者中,你在世间最为杰出、名声远播;而在此世,你从未有过哪怕极细微的罪过。
10.5.16
त्वं पुनः सूर्यसङ्काशः श्वोभूत उदिते रवौ ।
प्रकाशे सर्वभूतानां विजेता युधि शात्रवान् ॥ १०.५.१६ ॥
然而明日太阳升起之时,你将如太阳般光耀,在万物所见的光明中,于战场上战胜敌人。
10.5.17
असम्भावितरूपं हि त्वयि कर्म विगर्हितम् ।
शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम ॥ १०.५.१७ ॥
可耻的行为与你全然不相称;它会像白布上的红色一样醒目——这是我的看法。
10.5.18
एवमेव यथाऽऽत्थ त्वमनुशाससि मातुल ।
तैस्तु पूर्वमयं सेतुः समन्ताद्विह्वलीकृतः ॥ १०.५.१८ ॥
舅父啊,正如你所说、所教诲的;然而是他们先从四面动摇了这道堤防。
10.5.19
प्रत्यक्षं भूमिपालानां भवतां चापि सन्निधौ ।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥ १०.५.१९ ॥
在諸王面前,在你們眾人之前,我的父親已放下武器,卻被猛光所殺。
10.5.20
कर्णश्च पतिते चक्रे उत्थास्यन्रथिनां वरः ।
उत्तमे व्यसने मग्नो हतो गाण्डीवधन्वना ॥ १०.५.२० ॥
車手中最優秀的迦爾納,車輪陷入泥中、正要起身時,陷於大難之中,被持甘狄拔弓者所殺。
10.5.21
तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः ।
शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना ॥ १०.५.२१ ॥
同樣,槃多之子婆羅多之子毗濕摩,已放下武器、手無寸鐵,被置於前的始坎丁所遮,被持甘狄拔弓者所殺。
10.5.22
भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे ।
क्रोशतां बूमिपालानां युयुधानेन पातितः ॥ १०.५.२२ ॥
大弓手婆利室羅婆斯亦如是在戰中喪命,諸王哀號之時,被遵戰所殺。
10.5.23
दुर्योधनश्च भीमेन समेत्य गदया मृधे ।
पश्यतां भूमिपालानामधर्मेण निपातितः ॥ १०.५.२३ ॥
難敵亦與怖軍在戰中以鐵杵相遇,諸王觀看之時,被以非法手段擊倒。
10.5.24
एकाकी बहुभिस्तत्र परिवार्य महारथैः ।
अधर्मेण नरव्याघ्रो भीमसेनेन पातितः ॥ १०.५.२४ ॥
他獨自一人在那裡,被眾多大車手所圍,人中猛虎被怖軍以非法手段所殺。
10.5.25
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः ।
वादिकानां कथयतां स मे मर्माणि कृन्तति ॥ १०.५.२५ ॥
我听到那断股之王的哀号,经叙述者一讲,便割裂我的要害。
10.5.26
एवं चाधार्मिकाः पापाः पाञ्चाला भिन्नसतवः ।
तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति ॥ १०.५.२६ ॥
那些不义、有罪、断绝纲纪、逾越界限的般遮罗人——你为何不谴责他们?
10.5.27
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके ।
कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै ॥ १०.५.२७ ॥
我若在夜间睡梦中杀死杀父的般遮罗人,愿意投生为虫或飞蛾。
10.5.28
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम् ।
तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम् ॥ १०.५.२८ ॥
我今日为了我所欲做之事而急切;我既如此急切,哪里还有睡眠,哪里还有安乐?
10.5.29
न स जातः पुमाँल्लोके कश्चिन्न स भविष्यति ।
यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम् ॥ १०.५.२९ ॥
世上从未有、也不会有任何人能使我放弃这个杀尽他们的决心。
10.5.30
एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान् ।
एकान्ते योजयित्वाऽश्वान्प्रायादभिमुखः परान् ॥ १०.५.३० ॥
大王,德罗纳之子威猛者如此说罢,便在僻处套好马匹,面向敌人而去。
10.5.31
तमब्रूतां महात्मानौ भोजशारद्वतावुभौ ।
किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम् ॥ १०.५.३१ ॥
两位大德,跋阇与叔天之子,都对他说:“这辆战车为何套好?你想要做什么事?”
10.5.32
एकसामर्थप्रयातौ स्वस्त्वया सह नरर्षभ ।
समदुःखसुखौ चापि तस्माच्छंसितुमर्हसि ॥ १०.५.३२ ॥
“人中之雄,我们与你同心而行,共享苦乐;所以你应当把你的意图告诉我们。”
10.5.33
अश्वत्थामा तुं सङ्क्रुद्धः पितुर्वधमनुस्मरन् ।
ताभ्यां तथ्यं तथाऽऽचख्यौ यदस्यात्मचिकीर्षितम् ॥ १०.५.३३ ॥
阿湿婆陀曼满怀愤怒,记起父亲被杀,便如实地把自己心中想做的事告诉了他们二人。
10.5.34
हत्वा शतसहस्राणि योधानां निशितैः शरैः ।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥ १०.५.३४ ॥
“他以利箭杀死了数十万战士,我的父亲放下兵器之时,却被德律斯塔俱牟那所杀。”
10.5.35
तं तथैव वधिष्यामि न्यस्तवर्माणमद्य वै ।
पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा ॥ १०.५.३५ ॥
“今天我也要用同样的方式杀死他——那位已卸下铠甲的、潘查拉王的恶子,以恶行杀死。”
10.5.36
तथा विनिहतः पापः पाञ्चाल्यः पशुवन्मया ।
शस्त्रेण विजिताँल्लोकान्नाप्नुयादिति मे मतिः ॥ १०.५.३६ ॥
“像野兽一样被我杀死的那位恶毒的潘查拉王子,将不能获得以武器赢得的世界——这是我的看法。”
10.5.37
क्षिप्रं सन्नद्वकवचौ सखङ्गावात्तकार्मुकौ ।
मामेवाद्य प्रतीक्षेतां रथवर्यौ परन्तपौ ॥ १०.५.३७ ॥
愿那两位身披铠甲、手持刀剑与弓的上等车士,今日速速只等候我,二位焚烧敌人者。
10.5.38
इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान् ।
तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः ॥ १०.५.३८ ॥
说罢,他登上战车,面向敌人出发;大王,克里巴与萨特瓦塔·克里塔瓦尔曼也跟随其后。
10.5.39
ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः ।
हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः ॥ १०.५.३९ ॥
三人面向敌人前行,光芒闪耀,宛如祭祀中被投入供品的熊熊圣火。
10.5.40
ययुश्च शिबिरं तेषां सम्प्रसुप्तजनं विभो ।
द्वारदेशमनुप्राप्य द्रौणिस्तस्थौ महारथः ॥ १०.५.४० ॥
他们前往营地,那里的人们正沉睡,啊威力者;到达营门处,德罗纳之子大车士便站住了。