Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 10.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.6.1

द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ ।
अकुर्वतां भोजकृपौ किं सञ्जय वदस्व मे ॥ १०.६.१ ॥

桑闍耶啊,告诉我,看见德罗纳之子站在门口时,钵阇王家的克里塔瓦尔曼与克里帕做了什么?

10.6.2

कृतवर्माणमामन्त्र्य कृपं च स महारथः ।
द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत् ॥ १०.६.२ ॥

与钵阇王家的克里塔瓦尔曼和克里帕告别后,心被愤怒所充满的那位大车士、德罗纳之子走到了营地的门口。

10.6.3

तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम् ।
सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं रोमहर्षणम् ॥ १०.६.३ ॥

他在那里看见一个身躯庞大、光辉如日月的生灵,它挡住大门站立着,令人毛发倒竖。

10.6.4

वसानं चर्म वैयाघ्रं वसारुधिरविस्रवम् ।
कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम् ॥ १०.६.४ ॥

它身披虎皮,滴着脂髓与鲜血;上身披着黑羚羊皮,以蛇为圣线。

10.6.5

बाहुभिः स्वायतैर्भीमैर्नानाप्रहरणोद्यतैः ।
बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् ॥ १०.६.५ ॥

它那长大可怖的双臂高举着各种兵器;臂上缠绕着一条大蛇作臂钏;面庞被火焰之环所围绕。

10.6.6

दंष्ट्राकरालवदनं व्यादितास्यं भयानकम् ।
नयनानां सहस्रैश्च विचित्रैरभिभूषितम् ॥ १०.६.६ ॥

它的面孔因獠牙而狰狞,口张得大大的,令人恐怖,身上装饰着成千上万只奇异的眼睛。

10.6.7

नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव च ।
सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः ॥ १०.६.७ ॥

他的身躯与形貌无法描述;若全然观望,连山岳也会崩裂。

10.6.8

तस्यास्यनासिकाभ्यां च श्रवणाभ्यां च सर्वशः ।
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः ॥ १०.६.८ ॥

从他的口、鼻、耳,四面八方,以及那千只眼睛中,升起了巨大的火焰。

10.6.9

तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः ।
प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः ॥ १०.६.९ ॥

同样,从光芒的光线中,手持法螺、轮与杵的光明主(Hṛṣīkeśa)成百上千地显现。

10.6.10

तदत्यद्भुतमालोक्य भूतं लोकभयङ्करम् ।
द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत् ॥ १०.६.१० ॥

德罗纳之子见到那极其奇异、令世界恐惧的幻象,毫不动摇,以神圣的兵器之雨向它倾泻。

10.6.11

द्रौणिमुक्ताञ्छरांस्तांस्तु तद्भूतं महदग्रसत् ।
उदधेरिव वार्योघान्पावको बडबामुखः ॥ १०.६.११ ॥

那巨大的幻象吞没了德罗纳之子射出的那些箭,犹如海底的巴达巴火吞噬海洋的水流。

10.6.12

अश्वत्थामा तु सम्प्रेक्ष्य शरौघांस्तान्निरर्थकान् ।
रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव ॥ १०.६.१२ ॥

马嘶之子(Aśvatthāman)见那些无用的箭雨,便向它投出燃烧如火焰的战车之矛。

10.6.13

सा तमाहत्य दीप्ताग्रा रथशक्तिरदीर्यत ।
युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता ॥ १०.६.१३ ॥

那枚尖端燃烧的战车之矛击中了他,随即碎裂,如同在劫末撞击太阳、从天而坠的大流星。

10.6.14

अथ हेमत्सरुं दिव्यं खङ्गमाकाशवर्चसम् ।
कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम् ॥ १०.६.१४ ॥

随即他迅速从鞘中抽出一柄镶金柄的神剑,光耀如天空,如同燃烧的蛇从洞穴中窜出。

10.6.15

ततः खङ्गवरं धीमान्भूताय प्राहिणोत्तदा ।
स तदासाद्य भूतं वै विलयं तूलवद्ययौ ॥ १०.६.१५ ॥

于是那位智者将那柄上等宝剑投向鬼魅;剑刺到鬼魅身上,便如棉絮一般消散了。

10.6.16

ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम् ।
ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत् ॥ १०.६.१६ ॥

于是愤怒的德罗纳之子向他投出一支如因陀罗旗般燃烧的铁棒;鬼魅也将它吞噬了。

10.6.17

ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः ।
अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः ॥ १०.६.१७ ॥

于是,当所有兵器都已耗尽,他四处张望,看见由Janārdana所造的天空已变成非天空。

10.6.18

तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः ।
अचिन्तयत्सुसन्त्रस्तः कृपभोजवचः स्मरन् ॥ १०.६.१८ ॥

德罗纳之子看到这最为奇异的景象,手无兵器,极度惊恐,于是回想起克里帕与博阇的话语,陷入沉思。

10.6.19

ब्रुवतामप्रियं पथ्यं सुहृदां न शृमोति यः ।
स शोचत्यापदं प्राप्य थाऽहमवमत्य तौ ॥ १०.६.१९ ॥

不听朋友那些逆耳却有益之言的人,陷入灾难时便如我一般悲叹,因为我轻慢了那二人。

10.6.20

शास्त्रदृष्टानविद्वान्यः समतीत्य जिघांसति ।
स पथः प्रच्युतो धर्म्यात्कुपथे प्रतिहन्यते ॥ १०.६.२० ॥

无知之人越过经典所定之道而欲杀人,便从正法之路堕落,在邪路上被击杀。

10.6.21

गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा ।
वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च ॥ १०.६.२१ ॥

对牛、婆罗门、国王、妇女,对朋友、母亲、师长,同样对老人、孩童、愚钝者和盲人,对睡着的、惊恐的和起身的人。

10.6.22

मत्तोन्मत्तप्रमत्तेषु न शस्त्राणि च मातयेत् ।
इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा ॥ १०.६.२२ ॥

不可用兵器击打醉者、狂人和疏忽之人;古来师长常常如此教导世人。

10.6.23

सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम् ।
अमार्गेणैवमारभ्य घोरामापदमागतः ॥ १०.६.२३ ॥

我越过了经典所示的永恒之道,如此以歧路开始,便陷入了可怕的灾难。

10.6.24

तां चापदं घोरतरां प्रवदन्ति मनीषिणः ।
यदुद्यम्य महत्कृत्यं भयादपि निवर्तते ॥ १०.६.२४ ॥

智者称那种灾难更加可怕:即开始了大事,却因恐惧而退缩。

10.6.25

अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह ।
न हि दैवाद्गरीयो वै मानुष्यं किञ्चिदिष्यते ॥ १०.६.२५ ॥

此处,凭借力量与威能,谁能做到不可能之事?人力确实不被认为重于天命。

10.6.26

मानुष्यं कुर्वतः कर्म यदि दैवान्न सिध्यति ।
स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते ॥ १०.६.२६ ॥

若人以人力行事,而天命不成,他便偏离正道,陷入灾祸。

10.6.27

प्रतिज्ञानं ह्यविज्ञानं प्रवदन्ति मनीषिणः ।
यदारभ्य क्रियां काञ्चिद्भयादिह निवर्तते ॥ १०.६.२७ ॥

智者说,立誓实为无知,因为在此有人开始某事之后,便因恐惧而退缩。

10.6.28

तदिदं दुष्प्रणीतेन भयं मा समुपस्थितम् ।
न हि द्रोणसुतः सङ्ख्ये निवर्तेत कथञ्चन ॥ १०.६.२८ ॥

这恐惧因行事不当而生。德罗纳之子在战斗中绝不会以任何方式退缩。

10.6.29

इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम् ।
न चैतदभिजानामि चिन्तयन्नपि सर्वथा ॥ १०.६.२९ ॥

此大凶兆如同天命高举的棍杖;即使从各方面思考,我也无法理解它。

10.6.30

ध्रुवं येयमधर्मेण प्रहिता कलुषा मतिः ।
तस्याः फलमिदं घोरं प्रतिघाताय कल्पते ॥ १०.६.३० ॥

此必是那由不义所发的污浊之心之果;这可怕的结果正适于报应。

10.6.31

तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम् ।
नान्यत्र दैवादुद्यन्तुमिह शक्यं कथञ्चन ॥ १०.६.३१ ॥

我在战场上的这次退却是由天命注定的;除天命之外,此处无论如何都无法振作起来。

10.6.32

सोऽहमद्य महादेवं प्रपद्ये शरणं विभुम् ।
दैवदण्डमिमं घोरं स हि मे नाशयिष्यति ॥ १०.६.३२ ॥

因此今日我皈依大天神摩诃提婆,那全能的主宰;唯有他能消除这降临于我的可怖天罚。

10.6.33

कपर्दिनं प्रपद्येऽहं देवदेवमुमापतिम् ।
कपालमालिनं रुद्रं भगनेत्रहरं हरम् ॥ १०.६.३३ ॥

我皈依那蓬发者、诸神之神、乌摩之主——佩戴髑髅花环的鲁陀罗,夺去婆伽双眼的诃罗。

10.6.34

स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च ।
तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम् ॥ १०.६.३४ ॥

那位天神以苦行与威力超越了诸神;因此我将前去皈依山主、执三叉戟者。