Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 10.9

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.9.1

ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः ।
आगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः ॥ १०.९.१ ॥

他们将所有般遮罗人和德劳波蒂的儿子尽数杀死后,一同来到杜尔约达那倒下的地方。

10.9.2

गत्वा चैनमपश्यन्त किञ्चित्प्राणं जनाधिपम् ।
ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम् ॥ १०.९.२ ॥

他们前往那里,看见那位人主尚有一丝气息;于是从战车上跳下,将你的儿子团团围住。

10.9.3

तं भग्रसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम् ।
वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले ॥ १०.९.३ ॥

啊,王中之王,他们看见他躺在地上,大腿折断,性命垂危,失去知觉,口中呕吐鲜血。

10.9.4

वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः ।
सालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात् ॥ १०.९.४ ॥

他四面被许多外貌可怕的猛兽包围,还有群群豺狼与狼正靠近,准备吞噬他。

10.9.5

निरायन्तं कृच्छ्रात्ताञ्श्वापदांश्च चिखादिषून् ।
विवेष्टमानमुरुभ्यां सुभृशं गाढवेदनम् ॥ १०.९.५ ॥

他艰难地挣扎,想摆脱那些渴望吞食他的猛兽,以大腿为支撑翻滚扭动,痛苦极为深切。

10.9.6

तं शयानं तथा दृष्ट्वा भूमौ सुरुधिरोक्षितम् ।
हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यदेवयन्।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ॥ १०.९.६ ॥

看见他这样浑身浸透鲜血躺在地上,未被杀死的三位英雄——阿奢婆摩、克利巴和萨特凡人克利特婆尔曼——悲痛欲绝,哀声痛哭。

10.9.7

तैस्त्रिभिः शोणितादिग्धौर्निः श्वसद्भिर्महारथैः ।
शुशुभे स वृतो राजा वेदी त्रिभिरिवाग्निभिः ॥ १०.९.७ ॥

那三位大车战士被鲜血沾染、喘息不已,环绕着国王,国王如同被三火环绕的祭坛般闪耀。

10.9.8

ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम् ।
अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः ॥ १०.९.८ ॥

看到国王躺在与他身份不相称的状态中,三人便以难以忍受的悲痛哭泣起来。

10.9.9

ततस्तु रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य हि ।
रणे राज्ञः शयानस्य कृपः सम्पर्यदेवयत् ॥ १०.९.९ ॥

于是克里帕用自己的手擦去国王脸上的血迹,为躺在战场上的国王哀悼。

10.9.10

न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः ।
एकादशचमूभर्ता शेते दुर्योधनो हतः ॥ १०.९.१० ॥

这位浑身浴血、统领十一支军队的难敌被杀倒地,并非天命的过重负担。

10.9.11

पश्य चामीकराभस्य चामीकरविभूषिताम् ।
गदां गदाप्रियस्येमां समीपे पतितां भुवि ॥ १०.९.११ ॥

看那把如金光闪耀、以金饰装饰的铁锤——那是喜爱铁锤者的武器,就落在近旁的地上。

10.9.12

इयमेनं गदा शूरं न जहाति रणेरणे ।
स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम् ॥ १०.९.१२ ॥

这把铁锤在每一场战斗中都未曾抛弃这位英雄;即使他走向天界,它也不会离弃这位光荣的人。

10.9.13

पश्येमां सह वीरेण जाम्बूनदविभूषिताम् ।
शयानां शयने हर्म्ये भार्यां प्रीतिमतीमिव ॥ १०.९.१३ ॥

看那位身饰jāmbūnada金的女子,与英雄一同躺卧在宫殿的床榻上,仿佛满怀爱意的妻子。

10.9.14

योऽयं मूर्धाभिषिक्तानामग्रे याति परन्तपः ।
स हतो ग्रसते पांसून्पश्य कालसय पर्ययम् ॥ १०.९.१४ ॥

这位走在受膏君王前面的敌人克星,如今已被杀死,吞食尘土。看时间的轮转吧。

10.9.15

येनाजौ निहता भूमौ शेरते क्षत्रियर्षभाः ।
स भूमौ निहतः शेते कुरुराजः परैरयम् ॥ १०.९.१५ ॥

在战场上使刹帝利中的雄牛倒卧于地的那位,这位库鲁王,被敌人杀死,如今躺在地上。

10.9.16

भयान्नमन्ति राजानो यस्य स्म शतसङ्घशः ।
स वीरशयने शेते क्रव्याद्भिः परिवारितः ॥ १०.९.१६ ॥

令数百位国王因畏惧而低头的那人,如今躺在英雄的床榻上,被食肉的生灵所包围。

10.9.17

यमुपासन्नृपाः पूर्वमर्थहेतोर्महीपतिम् ।
उपात्पते च तं ह्यद्य क्रव्यादा मांसगृद्धिनः ॥ १०.९.१७ ॥

昔日诸王为求财富而侍奉的那位大地之主,今日贪求血肉的食肉者却扑向了他。

10.9.18

तं शयानं कुरुश्रेष्ठं ततो भरतसत्तमम् ।
अश्वत्थामा समालिङ्ग्य करुणं पर्यदेवयत् ॥ १०.९.१८ ॥

于是阿湿婆摩,拥抱那躺卧的库鲁之最、婆罗多之最,悲痛地哀哭起来。

10.9.19

आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम् ।
धनाध्यक्षोपमं युद्धे शिष्यं सङ्कर्षणस्य च ॥ १०.९.१९ ॥

人们称你为王中之虎,诸弓手中之首,战场上如财神俱毗罗一般,是桑卡尔沙纳的弟子。

10.9.20

कथं विवरमद्राक्षीद्भीमसेनस्तवानघ ।
बलिनं कृतिनो नित्यं सूदः पापात्मवान्नृप ॥ १०.९.२० ॥

无罪者啊,你一向强壮而精巧,毗摩娑那如何看出你的破绽?大王,他不过是个心术不正的厨子!

10.9.21

कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः ।
पश्यामो निहतं त्वां च भीमसेनेन संयुगे ॥ १०.९.२१ ॥

大王啊,这世上时间的力量确实最为强大,因为我们看到你在战场上被毗摩娑那所杀。

10.9.22

कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः ।
निकृत्या हतवान्मन्दो नून कालो दुरत्ययः ॥ १०.९.२२ ॥

你精通一切法,那卑劣、罪恶而愚蠢的狼腹(毗摩)怎会以诡计杀了你?时间确实不可违逆。

10.9.23

द्वन्द्वयुद्धे ह्यधर्मेण समाहूयौजसा मृधे ।
गदया भीमसेनेन निर्भग्ने सक्थिनी तव ॥ १०.९.२३ ॥

在单独决斗中,他以不义之法强行挑战,毗摩娑那用狼牙棒打断了你的双腿。

10.9.24

अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः ।
य उपेक्षितवान्क्षुद्रं धिक्तमस्तु…युधिष्ठिरम् ॥ १०.९.२४ ॥

那卑劣的坚战看着你在战场上被不义杀害的头颅被脚踩踏却漠然不顾,愿他蒙受耻辱……

10.9.25

युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम् ।
यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः ॥ १०.९.२५ ॥

只要众生存在,战场上的勇士必定会责备狼腹(毗摩),因为他以诡计用剑将其击倒。

10.9.26

ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः ।
दुर्योधनसमो नास्ति गदायामिति वीर्यवान् ॥ १०.९.२६ ॥

国王啊,罗摩(大力)与 Yadu 族之喜(黑天)常常谈及你,说在棍棒之战中无人能比得上难敌。

10.9.27

श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत ।
स शिष्यो मम कौरव्यो गदायुद्ध इति प्रभो ॥ १०.९.२७ ॥

国王啊,婆罗多的后裔,维律尼族之子在集会中赞美你。主啊,他是我的弟子,俱卢族人,在棍棒之战中。

10.9.28

यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः ।
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम् ॥ १०.९.२८ ॥

伟大的仙人所赞叹的刹帝利在战场上面对敌人而死的殊胜归宿,你已经获得了这一归宿。

10.9.29

दुर्योधन न शोचामि त्वामहं पुरुषर्षभ ।
हतपुत्रौ तु शोचामि गान्धारीं पिरं च ते ॥ १०.९.२९ ॥

难敌啊,人中之牛,我不为你悲伤;但为甘陀利和你的父亲,他们的儿子被杀,我感到悲伤。

10.9.30

द्वावनाथौ कृतौ वीर त्वया नाथेन वर्धितौ ।
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् ॥ १०.९.३० ॥

英雄啊,你使那两位失去了保护者,他们曾在你的庇护下长大;他们将作为乞丐,悲伤地流浪于这片大地之上。

10.9.31

घिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम् ।
धर्मज्ञमानिमौ यौ त्वां वध्यमानमुपेक्षताम् ॥ १०.९.३१ ॥

羞辱归于跋尔持尼之子克里希纳,也归于恶念的阿周那。他们自认为通晓法,却对正被杀害的你置之不理。

10.9.32

पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिप ।
कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः ॥ १०.९.३२ ॥

人主啊,那些般度之子将会说什么?『我们是如何杀死难敌的?』这些无耻之徒将如此夸耀。

10.9.33

धन्यस्त्वमसि गान्धारे यस्वमायोधने हतः ।
प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ ॥ १०.९.३३ ॥

跋尔持尼之子,你是有福的!你在战场上面对敌人,依法而死,人中之牛啊。

10.9.34

हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा ।
प्रज्ञाचक्षुश्च दुर्धर्षः कां दशां प्रतिपत्स्यते ॥ १०.९.३४ ॥

甘陀利的儿子们被杀,她的族人和亲属也被杀。那位智慧之眼已盲、难以攻破的人,将落入怎样的境地呢?

10.9.35

धिगस्तु कृतवर्माणं मां कृपं च महारथम् ।
ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम् ॥ १०.९.३५ ॥

羞辱归于恩军,也归于我,也归于大车武士慈悲。我们将国王你置于前列,却未能升天。

10.9.36

दातारं सर्वकामानां रक्षितारं प्रजाहितम् ।
यद्वयं नानुगच्छाम त्वां धिगस्मान्नराधमान् ॥ १०.९.३६ ॥

我们没有追随你——你是满足一切愿望的施予者,是保护百姓福祉的人。羞辱归于我们这些人中的败类。

10.9.37

कृपस्य तव वीर्येण मम चैव पितुश्च मे ।
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च ॥ १०.९.३७ ॥

人中虎啊!凭借慈悲(Kṛpa)、你、我及我父的勇力,我们的房屋连同仆从都充满了珍宝。

10.9.38

तव प्रसादादस्माभिः समित्रैः सह बान्धवैः ।
अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः ॥ १०.९.३८ ॥

凭你的恩惠,我们与盟友和亲属一同完成了许多重大祭祀,并奉献了丰厚的布施。

10.9.39

कुतश्चापीदृशं पापाः प्रवर्तिष्यामहे वयम् ।
यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान् ॥ १०.९.३९ ॥

我们这些罪人,怎会像你那样行事——你怀着尊崇一切国王的心离去?

10.9.40

वयमेव त्रयो राजन्गच्छन्तं परमां गतिम् ।
यद्वै त्वां नानुगच्छाभस्तेन तप्स्यामहे वयम्। ॥ १०.९.४० ॥

国王啊,只剩我们三人,因为当你走向至高之道时,我们没有跟随你;因此我们将承受痛苦。

10.9.41

तत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते ।
किं नाम तद्भवेत्कर्म येन त्वां न व्रजाम वै ॥ १०.९.४१ ॥

因此我们失去天界与意义,追念你的善行,究竟是什么行为使我们未能与你同行?

10.9.42

दुःखं नून कुरुश्रेष्ठ चरिष्याम महीमिमाम् ।
हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखं ॥ १०.९.४२ ॥

库鲁之最啊,我们必将在悲痛中流浪于这片大地。国王啊,失去你的我们,何处有安宁,何处有快乐?

10.9.43

गत्वैव तु महाराज समेत्य च महारथान् ।
यथाज्येष्ठं यथाश्रेष्ठं पूजयेर्वचनान्मम ॥ १०.९.४३ ॥

大王啊,你去与众大车勇士相见,依照长幼与贤能,遵从我的话去尊敬他们。

10.9.44

आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम् ।
हतं मयाऽद्य शंशेथा दृष्टद्युम्नं नराधिप ॥ १०.९.४४ ॥

尊敬老师之后,告诉那位众弓手的旗帜,人主啊,说今日德里斯塔尤姆那已被我所杀。

10.9.45

परिष्वजेथा राजानं बाह्लिकं सुमहारथम् ।
सैन्धवं सोमदत्तं च भूरिश्रवसमेव च ॥ १०.९.४५ ॥

请拥抱国王巴赫利迦、大车勇士信度王、苏摩达多,以及布利室罗跋婆。

10.9.46

तथा पूर्वगतानन्यान्स्वर्गे पार्थिवसत्मान् ।
अस्मद्वाक्यात्परिष्वज्य सम्पृच्छेस्वमनामयम् ॥ १०.९.४६ ॥

同样,拥抱先前已升天的其他最优秀的国王,依照我们的话问候他们的安康。

10.9.47

इत्येवमुक्वा राजानं भग्नसक्थमचेतसम् ।
अश्वत्थामा लघुप्राणं पुनर्वचनमब्रवीत् ॥ १०.९.४७ ॥

对这位大腿折断、昏迷、气息微弱的国王说完这番话后,马嘶三又说了这些话。

10.9.48

दुर्योधन जीवसि चेद्वाक्यं श्रोत्रमुखं शृणु ।
सप् पाण्डवतः शिष्टा धार्तराष्ट्रास्त्रयो वयम् ॥ १०.९.४८ ॥

杜尔约达那啊,若你还活着,请听这入耳的话:般度五子之中只剩七人,而我们这些持国之子只剩三人。

10.9.49

ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः ।
अहं च कृतवर्मा च कृपः शारद्वतस्तथा ॥ १०.९.४९ ॥

那五位兄弟、婆苏提婆、萨提奇、我、迦湿伐曼,以及沙罗堕陀之子慈悲,也都还在。

10.9.50

द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः ।
पञ्चाला निहताः सर्वे मत्स्यशेषं च भारत ॥ १०.९.५० ॥

德罗波蒂的所有儿子都被杀死,法里沙陀由摩之子也被杀;所有般遮罗人被杀,摩差国的残余者也被杀,婆罗多啊。

10.9.51

कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः ।
सौप्तिके शिबिरं तेषां हतं सनरवाहनम् ॥ १०.९.५१ ॥

看吧,这是所作之事的报应:般度之子失去了儿子。在夜袭中,他们的营地连同人马与坐骑一并被摧毁。

10.9.52

मया च पापकर्माऽसौ धृष्टद्युम्नो महीपते ।
प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः ॥ १०.९.५२ ॥

而我,大地之主啊,杀死了那作恶的德里斯塔德尤姆纳:他夜里闯入营地,像牲畜一样被杀。

10.9.53

दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम् ।
प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत् ॥ १०.९.५३ ॥

然而难敌听到这番合乎其心意的话,重新镇定下来,说出了这些话。

10.9.54

न मेऽकरोत्द्गाङ्गेयो न कर्णो न च ते पिता ।
यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम् ॥ १०.९.५४ ॥

恒河之子(毗湿摩)没有为我做到,迦尔纳没有,你父亲也没有;而今日你与慈悲和迦湿伐曼共同为我所做的。

10.9.55

स च सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना ।
तेन मन्ये मघवता सममात्मानमद्य वै ॥ १०.९.५५ ॥

那位统帅,卑劣之人,与湿科丁一起被杀。因此我今日自认为与摩ghavan因陀罗相等。

10.9.56

स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः सङ्गमः पुनः ।
इत्येवमुक्त्वा पुत्रस्ते कुरुराजो महामनाः ॥ १०.९.५६ ॥

"愿你们平安,获得吉祥;在天界我们将再次相会。"如此说完,你的儿子,心胸宽广的俱卢王,

10.9.57

प्राणानुपासृजद्वीरः सुहृदां दुःखमादधत् ।
अपाक्रामद्दिवं पुण्यां शरीरं क्षितिमाविशत् ॥ १०.९.५७ ॥

英雄舍弃了生命,使朋友们悲痛。他前往神圣的天界,身体则归于大地。

10.9.58

एवं ते निधनं यातः पुत्रो दुर्योधनो नृप ।
अग्रे यात्वा रणे शूरः पश्राद्विनिहतः परैः ॥ १०.९.५८ ॥

国王啊,你的儿子难敌就这样死去了。这位英雄在战场上向前冲去,却被敌人从背后击倒。

10.9.59

तथैव ते परिष्वक्ताः परिष्वज्य च ते नृपम् ।
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान् ॥ १०.९.५९ ॥

同样,他们互相拥抱,也拥抱了国王,一次又一次地回望,然后各自登上自己的战车。

10.9.60

इत्येवं द्रोणपुत्रस्य निशम्य करुणां गिरम् ।
प्रत्यूषकाले शोकार्ताः प्राद्रवन्नगरं प्रति ॥ १०.९.६० ॥

听到德罗纳之子这番悲切的话语,黎明时分他们满怀忧伤,向城中逃去。

10.9.61

एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः ।
घोरो विशसनो रौद्रो राजन्दुर्मन्त्रिते तव ॥ १०.९.६१ ॥

如此,库鲁与般度军队遭受了这场可怕、屠杀般、骇人的毁灭,哦国王,都因你的恶谋。

10.9.62

तव पुत्रे गते स्वर्गं शोकार्स्य ममानघ ।
ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै ॥ १०.९.६२ ॥

哦无罪者,你的儿子升天之后,我这被悲伤折磨的人所得的仙人所赐的神圣视力,今日确已丧失。

10.9.63

इति श्रुत्वा स नृपतिर्ज्ञातिपुत्रवधं तदा ।
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत् ॥ १०.९.६३ ॥

国王听了这些,听到宗族与儿子被杀的消息,便长长地、热烈地叹息,随后陷入了忧思之中。