摩诃婆罗多 · 章 11.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.11.1
हतेषु सर्वेसैन्येषु धर्मराजो युधिष्ठिरः ।
शुश्रुवे पितरं वृद्धं निर्यान्तं गजसाह्वयात् ॥ ११.११.१ ॥
众军皆已战亡时,法王坚战听闻他年迈的父亲正从象城(Gajasāhvaya)出发。
11.11.2
सोऽभ्ययात्पुत्रशोकार्तं पुत्रशोकपरिप्लुतः ।
शोचमानो महाराज भ्रातृभिः सहितस्तदा ॥ ११.११.२ ॥
他因失子之痛而悲苦不堪,沉溺其中,大王啊,当时便与诸弟一同哀哭着走向他。
11.11.3
अन्वीयमानो वीरेण दाशार्हेण महात्मना ।
युयुधानेन च तथा तथैव च युयुत्सुना ॥ ११.११.३ ॥
英雄达沙尔诃(黑天)、大德的悉底迦(Sātyaki,即Yuyudhāna)以及同样的裕悉(Yuyutsu)跟随着他。
11.11.4
तमन्वगात्सुदुःखार्ता द्रौपदीशोककर्शिता ।
सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः ॥ ११.११.४ ॥
德罗波蒂极度悲痛,因忧伤而憔悴,跟随着他前去,同行的还有聚集在那里的般遮罗妇女。
11.11.5
सङ्ग्राममनु बृन्दानि स्त्रीणां भरतसत्तम् ।
कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह ॥ ११.११.५ ॥
婆罗多族中最优秀的人啊,他看见战场上成群的妇人哭号,像受苦的鱼鹰一样哀鸣。
11.11.6
ताभिः परिवृतो राजा क्रोशन्तीभिः सहस्रशः ।
ऊर्ध्वबाहुभिरार्ताभी रुदतीभिः प्रियाप्रियैः ॥ ११.११.६ ॥
国王被她们包围——成千上万哭喊的妇人,举起双臂,悲伤地为亲人与仇人一同哀哭。
11.11.7
क नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता ।
यच्चावधीत्पितॄन्भ्रातॄन्गुरुपुत्रान्सखीनपि ॥ ११.११.७ ॥
国王的法智何在?他的仁慈何在?他竟杀了父辈、兄弟、师长之子,甚至朋友!
11.11.8
घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम् ।
मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम् ॥ ११.११.८ ॥
大臂者啊!你使德罗纳与祖父毗湿摩被杀,又杀了胜车,你的心意如何?
11.11.9
किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः ।
अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत ॥ ११.११.९ ॥
婆罗多啊,你不见父辈与兄弟,不见难以战胜的阿毗摩豆,也不见德罗波蒂的诸子,要这王国何用?
11.11.10
अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव ।
ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः ॥ ११.११.१० ॥
法王坚臂的坚战越过哀鸣如鹭鸟般的妇人,向长兄般的父亲行礼。
11.11.11
ततोऽभिवाद्य पितरं क्रमेणामित्रकर्शनाः ।
न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः ॥ ११.११.११ ॥
随后,向父亲致敬后,敌人的降伏者般空的般空们依次报上自己的名字,全部如此。
11.11.12
तमात्मजान्तकरणं पिता पुत्रवधार्दितः ।
अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे ॥ ११.११.१२ ॥
父亲因失去诸子而悲痛,心中不悦,却拥抱了那位杀害自己儿子的般度之子。
11.11.13
धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत ।
दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः ॥ ११.११.१३ ॥
拥抱并安慰法王之后,婆罗多啊,那恶念之人寻找毗摩,如同欲焚烧的火。
11.11.14
स कोपपावकस्तस्य शोकवायुसमीरितः ।
भीमसेनमयं दावं दिधक्षुरिव दृश्यते ॥ ११.११.१४ ॥
他那被悲痛之风煽起的愤怒之火,看起来如同要焚烧毗摩森那的森林大火。
11.11.15
तस्य संकल्पमाज्ञाय भीमं प्रत्यशुभं हरिः ।
भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम् ॥ ११.११.१५ ॥
哈里知晓他的意图,看出他对毗摩的不善之心,便用双手拉开毗摩,把一个铁制的毗摩交给了他。
11.11.16
प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः ।
संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः ॥ ११.११.१६ ॥
大智的哈里预先已领会他的手势,大智的遮那陀那便在那里作了安排。
11.11.17
उपगुह्यैव पाणिभ्यां भीमसेनमयस्मयम् ।
बभञ्ज बलवान्राजा मन्यमानो वृकोदरम् ॥ ११.११.१७ ॥
他用双手拥抱铁制的毗摩森那,以为那就是狼腹,这位有力的国王将其折断。
11.11.18
नागायुतसमप्राणः स राजा भीममायसम् ।
भङ्क्तत्वा विमथितोरस्कः सुस्राव रुधिरं मुखात् ॥ ११.११.१८ ॥
那位拥有万象之力的国王折断了铁制的毗摩;他的胸膛被挤压碎裂,鲜血从口中涌出。
11.11.19
ततः पपात मेदिन्यां तथैव रुधिरोक्षितः ।
प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः ॥ ११.११.१९ ॥
于是他浑身沾满鲜血,同样倒在地上,犹如顶端盛开花朵的波利阇多树倒下。
11.11.20
प्रत्यगृह्णाच्च तं विद्वान्सूतो गावल्गणिस्तदा ।
मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव ॥ ११.११.२० ॥
于是智者御者迦伐尔伽尼扶住了他,说道:“不可如此。”他如同安抚和慰藉一般对他说话。
11.11.21
हतो भीम इति ज्ञात्वा गतमन्युर्महामनाः ।
हाहाभीमेति चुक्रोश नृपः शोकसमन्वितः ॥ ११.११.२१ ॥
得知毗摩已被杀死,这位心胸宽广的国王怒气消散,满怀悲痛地哀叫:“哎呀,毗摩!”
11.11.22
तं विदित्वा गतक्रोधं भीमसेनवधार्दितम् ।
वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ॥ ११.११.२२ ॥
知道他怒气已消、因毗摩森那之死而痛苦,人中最优秀的筏素提婆说了这番话。
11.11.23
मा शुचो धृतराष्ट्र त्वं नैव भीमस्त्वया हतः ।
आयसी प्रतिमा ह्येषा त्वया निष्पातिता विभो ॥ ११.११.२३ ॥
德拉斯特拉,不要悲伤;你并没有杀死毗摩。啊,威严者,你所打碎的只是这尊铁像。
11.11.24
त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ ।
मयाऽपकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः ॥ ११.११.२४ ॥
知道你已受愤怒所支配,婆罗多族中的雄牛啊,我把贡蒂之子从死神的獠牙之间拉了出来,他已经走到了那里。
11.11.25
न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन ।
कः सहेत महाबाहो बाह्वोर्विग्रहणं नरः ॥ ११.११.२५ ॥
王中猛虎啊,论力量,无人能与你相比。大臂者啊,哪个人能承受与你的双臂相搏?
11.11.26
यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते ।
एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन ॥ ११.११.२६ ॥
如同生灵一旦到了死神之处便无法脱逃,同样,进入你双臂之间的人,无人能活下来。
11.11.27
तस्मात्पुत्रेण या तेऽसौ प्रतिमा कारिताऽऽयसी ।
भीमस्य सेयं कौरव्य तवैवोपहृता मया ॥ ११.११.२७ ॥
因此,俱卢后裔啊,这便是你之子所造的铁制毗摩像;我已将它带来献给你。
11.11.28
पुत्रशोकाभिसन्तप्तं धर्मादपकृतं मनः ।
तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि ॥ ११.११.२८ ॥
王中之王啊,你因丧子之痛而煎熬,心已背离了法,所以你想要杀死毗摩色那。
11.11.29
न त्वेतत्ते क्षमं राजन्हन्यास्त्वं यद्वृकोदरम् ।
न हि पुत्रा महाराज जीवेयुस्ते कथञ्चन ॥ ११.११.२९ ॥
国王啊,你杀死狼腹不合于你;大王啊,你的儿子们也绝不会因此复活。
11.11.30
तस्माद्यत्कृतमस्माभिर्मन्यमानैः शमं प्रति ।
अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः ॥ ११.११.३० ॥
因此,你应认可我们为和平所做的一切,不要让心陷入悲伤。