摩诃婆罗多 · 章 11.12
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.12.1
तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः ।
कृतशौचं पुनश्चैनं ओवाच मधुसूदनः ॥ ११.१२.१ ॥
于是侍从们前来为他净身。他净身完毕后,摩图苏登(黑天)再次对他说道。
11.12.2
राजन्नधीता वेदास्ते शास्त्राणि विविधानि च ।
श्रुतानि च पुराणानि राजधर्माश्च केवलाः ॥ ११.१२.२ ॥
大王啊,你研习过吠陀和各种论典,听闻过往世书,并且完全通晓王者之法。
11.12.3
एवं विद्वान्महाप्राज्ञः समर्थः सन्बलाबले ।
आत्मापराधात्कस्मात्त्वं कुरुषे कोपमीदृशम् ॥ ११.१२.३ ॥
你如此博学,大智慧,能够辨别强弱,为何因自己的过错而生出如此的愤怒呢?
11.12.4
उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत ।
विदुरः सञ्जयश्चैव वाक्यं राजन्न तत्कृथाः ॥ ११.१२.४ ॥
婆罗多啊,当时我、毗湿摩与德罗纳,以及毗杜罗和桑遮耶,都曾对你说过这番话;但是,大王啊,你并没有照做。
11.12.5
स वार्यमाणो नास्माकमकार्षीर्वचनं तदा ।
पाण्डवानधिकाञ्चानन्बले शौर्ये च कौरव ॥ ११.१२.५ ॥
我们虽然阻止你,你那时却不听从我们的话,明知般度之子在力量和勇气上更胜一筹,啊,俱卢之子。
11.12.6
राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते ।
देशकालविभागं च परं श्रयेः स विन्दति ॥ ११.१२.६ ॥
若国王心志坚定,亲自省察自己的过失,明辨处所与时机之分,并依靠至上之人,他才能获得成功。
11.12.7
उच्यमानस्तु यः श्रेयो गृह्णीते नो हिताहिते ।
आपदः समनुप्राप्य सोऽभ्येति विलयं किल ॥ ११.१२.७ ॥
有人被劝告,却不能分辨利害,不接受善言,陷入灾难后必定走向毁灭。
11.12.8
ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत ।
राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः ॥ ११.१२.८ ॥
因此,婆罗多的后裔啊,请仔细审视你自己的行为。国王啊,你未能约束自己,如今受制于难敌。
11.12.9
आत्मापराधादापन्नस्तत्किं भीमं जिघांससि ।
तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम् ॥ ११.१२.९ ॥
你因自己的过失陷入灾难,为何还要杀害怖军?因此,请回想你自己的恶行,克制你的愤怒。
11.12.10
यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्समाम् ।
स हतो भीमसेनेन वैरं प्रतिजिहीर्षता ॥ ११.१२.१० ॥
那个出于嫉妒把般遮利带到议会的卑鄙之人,被想报复仇恨的怖军所杀。
11.12.11
आत्मनोऽतिक्रमं पश्य पुंत्रस्य च दुरात्मनः ।
यदनागसि पाण्डूनां परित्यागस्त्वया कृतः ॥ ११.१२.११ ॥
看看你自己的越界,以及你那恶心的儿子的越界:你抛弃了无辜的般度之子。
11.12.12
एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप ।
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः ॥ ११.१२.१२ ॥
人主啊,克里希那如此将一切真相说出,持国王便对提婆吉之子说话。
11.12.13
एवमेतन्महाबाहो यथा वदसि माधव ।
पुत्रस्नेहस्तु बलवान्धर्मान्मां समचालयत् ॥ ११.१२.१३ ॥
大臂者啊,摩度婆,正如你所说。然而对儿子的爱很强大,它使我偏离了法。
11.12.14
दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यक्त्रिमः ।
त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम ॥ ११.१२.१४ ॥
幸运的是,克里希纳啊,人中之虎、强大而真勇的婆罗摩,因为受你庇护,没有走进我的臂力范围之内。
11.12.15
इदानीं त्वहमव्यग्रो गतमन्युर्गतज्वरः ।
मध्यमं पाण्डवं वीरं स्पष्टुमिच्छामि माधव ॥ ११.१२.१५ ॥
如今我心平气和,不再愤怒,也不再受忧烦的煎熬。摩度婆啊,我想触摸那位中间的般度之子、英雄。
11.12.16
हतेषु पारथिवेन्द्रेषु पुत्रेषु निहतेषु च ।
पाण्डुपुत्रेषु मे धर्मः प्रीतिश्चाप्यवतिष्ठते ॥ ११.१२.१६ ॥
诸王之主已被杀害,我的儿子们也已被杀,然而我对般度诸子的法与爱依然存在。
11.12.17
ततः स भीमं च धनञ्जयं च ।
माद्याश्च पुत्रौ पुरुषप्रवीरौ।
पस्पर्श गात्रैः प्ररुदन्सुगात्रा… ।
नाश्वास्य कल्याणमुवाच चैनान् ॥ ११.१२.१७ ॥
随后他以身体触碰了婆罗摩与财胜,以及摩德利的两位英勇之子,哭泣着,这位肢体美好者……安慰他们之后,对他们说了吉祥的话。