Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 11.13

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.13.1

धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः ।
अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः ॥ ११.१३.१ ॥

于是,得到持国王的允许,那些俱卢族的英雄们,所有兄弟与克沙瓦一同前往甘陀利处。

11.13.2

ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम् ।
गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता ॥ ११.१३.२ ॥

得知敌人已被杀死,悲痛于儿子们的死亡的无过之女甘陀利想要诅咒法王坚战。

11.13.3

तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति ।
ऋषिर्गन्धवतीपुत्रः प्रागेव समबुध्यत ॥ ११.१३.३ ॥

得知她对般度五子怀有罪恶的意图,甘达瓦蒂之子那位仙人早已察觉。

11.13.4

स गङ्गायामुपस्पृश्य ब्रह्मर्षिः प्रयतः शुचिः ।
तं देशमुपसंपेदे पाराशर्यो मनोजवः ॥ ११.१३.४ ॥

那位婆罗门仙人,即波罗奢罗之子,快如意念,在恒河中漱口净身,自持清净,便前往那个地方。

11.13.5

दिव्येन चक्षुषा ज्ञात्वा मनसाऽनुद्धतेन च ।
सर्वप्राणभृतां भावं सततं स तु बृध्यति ॥ ११.१३.५ ॥

他以天眼、以不动摇之心了知,并恒常觉察一切有情众生的内在状态。

11.13.6

स स्नुषामब्रवीत्काले कल्याणानि महातपाः ।
शापकालमवाक्षिप्य शमकालमुदीरयन् ॥ ११.१३.६ ॥

那位大苦行者放下诅咒之时,宣示平和之时,在恰当的时候对儿媳说出吉祥之言。

11.13.7

न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि ।
रजो निगृह्यतां चैव शृणु चेदं वचो मम ॥ ११.१३.७ ॥

甘陀利啊,不应对般度之子发怒;求得平静吧。抑制心中的尘垢,听我这句话。

11.13.8

पुरोक्ता युद्धकाले त्वं पुत्रेण जयमिच्छता ।
जयमाशास्व मे मातर्युध्यमानस्य शत्रुभिः ॥ ११.१३.८ ॥

你的儿子在战时渴望胜利,曾对你说:母亲啊,在我与敌人作战之时,为我祈求胜利吧。

11.13.9

सा तथा याच्यमाना त्वं युद्धकाले जयैषिणा ।
उक्तवत्यसि कल्याणि यतो धर्मस्ततो जयः ॥ ११.१३.९ ॥

吉祥的女子啊,当你的儿子在战时渴求胜利如此请求你时,你说:有法之处,即有胜利。

11.13.10

वाचाऽप्यतीते मा क्रोधे मनः कुरु यशस्विनि ।
स्मरामि भाषमाणां हि त्वामहं सत्यवादिनीम् ॥ ११.१३.१० ॥

荣耀的女子啊,不要将心放在已超越言语的愤怒上。我记得你说话,你是诚实之人。

11.13.11

विग्रहे तुमुले राज्ञां गत्वा परमसंशयम् ।
जितं पाण्डुसुतैर्युद्धे नूनं धर्मस्ततोऽधिकः ॥ ११.१३.११ ॥

在那场国王之间可怕而喧嚣的冲突中,陷入极大不确定之时,般度之子赢得了战争;无疑法比这更为尊贵。

11.13.12

क्षमाशीला पुरा भूत्वा साऽद्य न क्षमसे कथम् ।
अधर्मे जहि धर्मज्ञे यतो धर्मस्ततो जयः ॥ ११.१३.१२ ॥

你从前是忍让之人,今日为何不能宽恕?知法之人啊,舍弃非法吧;有法之处,即有胜利。

11.13.13

सा त्वं धर्मं परिस्मृत्य वाचं चोक्तां मनस्विनी ।
कोपं संयच्छ गान्धारि पाण्डवेषु सुतेषु ते ॥ ११.१३.१३ ॥

贤明的你啊,充分记起正法与你所说的话语,甘陀利啊,请止息你对般度之子以及你自己儿子的愤怒。

11.13.14

भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः ।
पुत्रशोकेन तु बलान्मनो विह्वलतीव मे ॥ ११.१३.१४ ॥

尊者啊,我并不怨恨他们,也不希望他们灭亡。因丧子之痛,我的心竟被强行搅乱,仿佛不能自持。

11.13.15

यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया ।
तथैव धृतराष्ट्रेण रक्षितव्या यथा त्वया ॥ ११.१३.१५ ॥

正如俱卢之子应当受到贡蒂的保护,他们也应当受到我的保护;同样,也应当受到持国的保护,正如受到你的保护一样。

11.13.16

दुःशासनापराधेन शकुनेः सौबलस्य च ।
कर्णदुर्योधनाभ्यां च कृतोऽयं कृरुसंक्षयः ॥ ११.१३.१६ ॥

由于杜沙那的罪过、苏跋罗之子沙恭尼的罪过,以及迦尔纳与难敌的缘故,造成了这场俱卢族的毁灭。

11.13.17

नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः ।
नकुलः सदेवश्च नैव राजा युधिष्ठिरः ॥ ११.१३.१७ ॥

毕跋突(阿周那)并无罪过,般度之子、狼腹(毗摩)也无罪过;无种与偕天也无罪过,国王坚战亦无罪过。

11.13.18

युध्यमाना हि कौरव्याः कृतमामाः परस्परम् ।
निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रियं मम ॥ ११.१३.१८ ॥

俱卢子弟相互战斗、彼此残杀而死,又与他人一同被杀;对此我并无不悦之处。

11.13.19

किं तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः ।
दुर्योधनं समाहूय गदायुर्द्ध महामनाः ॥ ११.१३.१९ ॥

然而,在婆苏提婆注视之下,心胸广大的怖军做了什么?他召唤了难敌,进行了一场铁杵之战。

11.13.20

शिक्षयाऽभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे ।
अधो नाभ्याः प्रहृतवांस्तन्मे कोपमवर्धयत् ॥ ११.१३.२० ॥

他明知对方在武艺上更胜一筹,而对方在战场上多方腾挪,他却击打在肚脐以下,这更加增长了我的愤怒。

11.13.21

कथं नु धर्मं धर्मज्ञाः समुद्दिष्टं महात्मभिः ।
त्यजेयुराहवे शूराः प्राणहेतोः कथञ्चनः ॥ ११.१३.२१ ॥

通晓法则的英雄,为了保全性命,在战场上怎能以任何方式舍弃大德们所宣示的法则呢?