Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 11.14

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.14.1

तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत् ।
गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा ॥ ११.१४.१ ॥

婆罗多之子闻其言,仿佛惊惧,便对甘陀利说出这些委婉的话。

11.14.2

अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः ।
आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि ॥ ११.१४.२ ॥

无论那是不义还是正义,我在那里出于恐惧而做了它,只为了救自己。你应当原谅我。

11.14.3

न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः ।
दुःशक्यः केनचिद्धर्तुमतो विषममाचरम् ॥ ११.१४.३ ॥

你的儿子无论以战斗还是以正道都无法被战胜;那位大力者难以被任何人击败。因此我行事不正。

11.14.4

अधर्मेण जितः पूर्वं तेन चापि युधिष्ठिरः ।
निकृताश्च सदैव स्म तो विषममाचरम् ॥ ११.१४.४ ॥

从前他以不义战胜了坚战,而他们一直遭受欺骗;因此我行事不正。

11.14.5

सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान् ।
न त्यक्ष्यति हृतं राज्यमिति वै तत्कृतं मया ॥ ११.१४.५ ॥

军中只剩下这一个人,他在棍棒战中十分勇猛;他不会放弃被夺去的王国,所以我这样做了。

11.14.6

एकपत्नीं च पाश्चालीमेकवस्त्रां रजस्वलाम् ।
भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव ॥ ११.१४.६ ॥

至于般遮罗公主,唯一丈夫之妻,只穿一件衣服,正处于月经期,你的儿子所说的一切,你都已知道。

11.14.7

सुयोधनं त्वसंहृत्य न शक्या भूः ससागरा ।
केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया ॥ ११.१४.७ ॥

若不杀死苏由陀那,我们便无法独自享有这片连同海洋的大地;因此我做了这件事。

11.14.8

तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत् ।
द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत् ॥ ११.१४.८ ॥

你的儿子还对我们做了那件令人不快的事:在大殿中间,他向德劳帕蒂展示了他的左大腿。

11.14.9

तत्रैव वध्यः सोऽस्माकं दुराचारोऽप्ब ते सुतः ।
धर्मराजाज्ञया चैव स्थिताः स्म समये पुरा ॥ ११.१४.९ ॥

就在那里,我们本应杀死你那行为恶劣的儿子;但因法王之命和此前的约定,我们仍然克制未动。

11.14.10

वैरमुद्दीपितं राज्ञि पुत्रेण तव यन्महत् ।
क्लेशिताश्च वने नित्यं तत एतत्कृतं मया ॥ ११.१४.१० ॥

王后啊,因为你儿子点燃的那巨大仇恨,也因为他在森林中不断地折磨我们,所以我做了这件事。

11.14.11

वैरस्यास्य गताः पारं हत्वा दुर्योधनं रणे ।
राज्यं युधिष्ठिरे प्राप्ते वयं च गतमन्यवः ॥ ११.१४.११ ॥

我们已越过这场仇恨的尽头:在战场上杀死了难敌,待坚战获得王国之后,我们便消除了怒意。

11.14.12

न तस्यैवं वधस्तात यं प्रशंससि मे सुतम् ।
कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि ॥ ११.१४.१२ ॥

孩子,你所称赞的我的儿子,并非这样被杀;而你对我所说的一切,他也确实做过。

11.14.13

हताश्वे नकुले यत्तु वृषसेनेन भारत ।
अपिबः शोणितं सङ्ख्ये दुःशासनशरीरजम् ॥ ११.१४.१३ ॥

婆罗多之后啊,当跋利舍那杀死那古罗的马匹时,你在战场上饮下了从难近身上流出的血。

11.14.14

सद्भिर्विगर्हितं घोरमनार्यजनसेवितम् ।
क्रूरं कर्माकृथास्तस्मात्तदयुक्तं वृकोदर ॥ ११.१४.१४ ॥

狼腹啊,你做了那残酷可怕之事,为善人所责,为不高贵之人所行,那是不当的。

11.14.15

हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे ।
शत्रूणां तु प्रहृष्टानां त्रासः सञ्जनितो मया ॥ ११.१४.१५ ॥

看见那古罗的马在战场上被跋利舍那杀死,我使那些欢喜的敌人心生恐惧。

11.14.16

स प्रतिज्ञामकरवं पिबाम्यसृगरेरिति ।
रुधिरं नातिचक्राम दन्तोष्ठादम्ब मा शुचः ॥ ११.१४.१६ ॥

我曾发誓:‘我要饮敌人的血’;那血并未超过我的牙齿和嘴唇。母亲啊,不要悲伤。

11.14.17

अन्यस्यापि न पातव्यं रुधिरं किंपुनः स्वकम् ।
यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन ॥ ११.१४.१७ ॥

即使是他人的血也不可饮,更何况是自己的血。兄弟如同自己的灵魂,没有任何分别。

11.14.18

वैवस्तितो हि तद्वेद यथावत्कुलनन्दिनि ।
मा कृथा हृदि तन्मातर्न तत्पीतं मयाऽनधे ॥ ११.१४.१८ ॥

毗婆斯瓦特(阎摩)完全知道此事,族中的喜悦啊。母亲,不要把它放在心上;无罪之人啊,我并没有饮那血。

11.14.19

केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते ।
क्रोधाद्यदब्रवं चाहं तच्च मे हृदि वर्तते ॥ ११.१४.१९ ॥

当德罗波蒂的头发被抓住、在赌局中被拖拽时,我在愤怒中所说的话,至今仍留在我心中。

11.14.20

क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः ।
प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम् ॥ ११.१४.२० ॥

王后啊,若我未履行那誓言便背离刹帝利之法,我将在无尽岁月中如此沉沦;因此我才这样做了。

11.14.21

अनिगृह्य पुरा पुत्रानस्मस्वनपकारिषु ।
न ममार्हसि कल्याणि दोषेण परिशङ्कितुम् ॥ ११.१४.२१ ॥

善良的夫人啊,我们本无过错,你却因我先前未能约束你的儿子而归咎于我,这并不适当。

11.14.22

वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः ।
कस्मानाशेषयः कञ्चिद्येनाल्पमपराधितम् ॥ ११.१४.२२ ॥

你杀了这位老人的一百个儿子,却依然不败;为何连那犯过一点小过错的人也不留一个?

11.14.23

सन्तानमावयोस्तात वृद्धयोर्हृतराज्ययोः ।
नाशेषयः कथं यष्टिमेकां वृद्धयुगस्य वै ॥ ११.१४.२३ ॥

亲爱的孩子,我们两个失去王国的老人,为何连一个子孙也不留?这对老夫妇,为何连一根拐杖也不留?

11.14.24

शेषे ह्यवस्थिते तात पुत्राणामल्पकेऽपि च ।
मन्ददुःखं भवेदद्य यदि त्वं धर्ममाचरेः ॥ ११.१४.२४ ॥

亲爱的孩子,若你遵行法道,我的儿子们哪怕留下几个,今日的悲痛也会轻微一些。