摩诃婆罗多 · 章 11.15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.15.1
तमेवमुक्त्वा गान्धारी युधिष्ठिरमपृच्छत ।
क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता ॥ ११.१५.१ ॥
甘陀利如此说完,因儿子和孙子被杀而痛苦,愤怒地问坚战:“那位国王在哪里?”
11.15.2
तामभ्यगच्छत्कौन्तेयो वेपमानः कृताञ्जलिः ।
युधिष्ठिरस्तु गान्धारीं मधुरं वाक्यमब्रवीत् ॥ ११.१५.२ ॥
贡蒂之子颤抖着,合掌走近她;坚战便对甘陀利说了温和的话。
11.15.3
पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः ।
शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम् ॥ ११.१५.३ ॥
女神啊,我坚战,是杀害你儿子的残忍之人,是使大地毁灭的根源,应当受诅咒。请诅咒我吧。
11.15.4
नहि मे जीवितेनार्थो न राज्येन सुखेन वा ।
तादृशान्सुहृदो हत्वा प्रमूढस्य सुहृद्द्रुहः ॥ ११.१५.४ ॥
我对生命、王国和幸福都无所求,我这个迷惑的人杀害了这样的朋友,背叛了朋友。
11.15.5
तमेवंवादिनं भीतं सन्निकर्षागतं तदा ।
नोवाच किञ्चिद्गान्धारी निःश्वासपरमा नृप ॥ ११.१५.५ ॥
甘陀利见他如此说话,恐惧地走近,当时什么也没有说,大王,她只是深深叹息。
11.15.6
तस्मावनतदेहस्य पादयोर्निपतिष्यतः ।
युधिष्ठिरस्य नृपतेर्धर्मज्ञा दीर्घदर्शिनी ॥ ११.१५.६ ॥
因此,通晓法义、目光深远的甘陀利看见国王坚战弯着身子,即将跪倒在她脚下。
11.15.7
अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा ।
ततः स कुनखीभूतो दर्शनीयनखो नृपः ॥ ११.१५.७ ॥
透过布的缝隙,王后看见了他们手指的尖端。那时,那位国王的指甲已变得难看,而原本他的指甲是好看的。
11.15.8
तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः ॥ ११.१५.८ ॥
阿周那看见他后,便走到了瓦苏提婆的身后。
11.15.9
एवं सञ्चेष्टमानांस्तानितश्चेतश्च भारत ।
गान्धारी विगतक्रोधा सांत्वयामास मातृवत् ॥ ११.१५.९ ॥
婆罗多啊,已无愤怒的甘陀利如母亲般安慰着他们,他们在四处走动。
11.15.10
ते पाण्डवा अनुज्ञाता मातरं वीतमत्सराः ।
अभ्यगच्छन्त सहिताः पृथां पृथुवलक्षसः ॥ ११.१५.१० ॥
获得允许后,那些无嫉妒、胸膛宽阔的般度五子一同走向母亲普利塔。
11.15.11
चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता ।
बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम् ॥ ११.१५.११ ॥
久别之后见到儿子们,王后被对儿子们的悲痛所淹没,便以布遮面,忍住了泪水。
11.15.12
ततो बाष्पं समुत्सृज्य सह पुत्रैस्तदा पृथा ।
अपश्यदेनाञ्शस्त्रौघैर्बहुधा परिविक्षतान् ॥ ११.१५.१२ ॥
随后,普利塔任泪水流下,看见他们与儿子们一起,被箭雨刀流多方重创。
11.15.13
सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनःपुनः ।
अन्वशोचत दुःखार्ता द्रौपदीं निहतात्मजाम्।
रुदन्तीमथ पाञ्चालीं ददर्श पतितां भुवि ॥ ११.१५.१३ ॥
她一个一个地反复抚摸他们,因悲痛而哀叹。随后她看见失去儿子的德罗波蒂倒在地上哭泣。
11.15.14
आर्ये पौत्रास्तु ते सर्वे सौभद्रसहिता गताः ।
न त्वां तेऽद्याभिगच्छन्ति चिरं दृष्ट्वा अनिन्दिते।
किन्नु राज्येन मे कार्यं विहीनायाः सुतैर्वरैः ॥ ११.१५.१४ ॥
尊贵的夫人,你所有的孙子都与苏跋陀罗之子一同离去了。无瑕的人啊,他们虽然久久地看见你,今天却不来到你身边。失去优秀儿子的我,还要王国做什么呢?
11.15.15
तां समाश्वासयामास पृथा पृथललोचना ।
उत्थाप्याङ्केन सुदतीं रुदतीं शोककर्शिताम् ॥ ११.१५.१५ ॥
广目的普利塔扶起她,把她抱在膝上,安慰这位齿白如玉、哭泣并因悲痛而消瘦的女子。
11.15.16
तयैव सहिता चापि पुत्रैरनुगता पृथा ।
अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम् ॥ ११.१५.१६ ॥
普利塔与她同行,诸子随后,自己更加悲痛,走向悲伤的甘陀利。
11.15.17
तामुवाचाथ गान्धारी सह कुन्त्या यशस्विनीम् ।
मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखितां ॥ ११.१५.१७ ॥
于是悲痛的甘陀利对荣耀的贡蒂说:“女儿啊,不要这样;也看看我这个悲伤的人吧。”
11.15.18
मन्ये लोकविनाशोऽयं कालपर्यायनोदितः ।
अवश्यभावी सम्प्राप्तः स्वभावाद्रोमहर्षणः ॥ ११.१५.१८ ॥
我想,这场世界的毁灭是由时间的轮回所驱使而降临的,不可避免,其本性令人毛骨悚然。
11.15.19
इदं तत्समनुप्राप्तं विदुरस्य वचो महत् ।
असिद्धानुनये कृष्णे यदुवाच महामतिः ॥ ११.१५.१९ ॥
当与克里希纳的和解失败时,智慧的毗杜罗所说的这番大话,如今已完全应验。
11.15.20
तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः ।
मा शुचो न हि शोच्यास्ते सङ्ग्रामे निधनं गताः ॥ ११.१५.२० ॥
既然那不可避免之事已经过去,尤其不要悲伤;那些在战场上死去的人,不值得悲哀。
11.15.21
यथैवाहं तथैव त्वं को वामाश्वासयिष्यति ।
ममैव ह्यपराधेन कुलमग्र्यं विनाशितम् ॥ ११.१५.२१ ॥
我是什么样,你也是什么样;谁来安慰你们二人呢?只因我一人的过错,最尊贵的家族被毁灭了。