摩诃婆罗多 · 章 11.16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.16.1
एवमुक्त्वा तु गान्धारी कुरूणामवकर्तनम् ।
अपश्यत्तत्र तिष्ठन्ती सर्वं तत्र यथास्थितम् ॥ ११.१६.१ ॥
说完这些,甘陀利站在那里,看见了俱卢族的毁灭,一切都如它们在那里的样子。
11.16.2
पतिव्रता महाभागा समानव्रतचारिणी ।
उग्रेण तपसा युक्ता सततं सत्यवादिनी ॥ ११.१६.२ ॥
忠于丈夫,极具福分,行持同样的誓愿,具备严苛的苦行,言语始终真实。
11.16.3
वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः ।
दिव्यज्ञानबलोपेता विविधं पर्यदेवयत् ॥ ११.१६.३ ॥
凭借功德殊胜的大仙克里希纳(毗耶娑)所赐之恩,具备神圣的智慧与力量,她以种种方式悲叹。
11.16.4
ददर्श सा बुद्धिमती दूरादपि यथाऽन्तिके ।
रणाजिरं तद्वीराणामद्भुतं रोमहर्षणम् ॥ ११.१६.४ ॥
那位智慧的女子即便远远望去,也仿佛近在咫尺,看见了英雄们的那片战场,奇异而令人毛骨悚然。
11.16.5
अस्थिकेशवसाकीर्णं शोणितौघपरिप्लुतम् ।
शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः ॥ ११.१६.५ ॥
遍布骨骼、毛发与脂髓,被血流淹没,四面八方散落着成千上万具尸体。
11.16.6
गजाश्वरथयोधानामावृतं रुधिराविलैः ।
शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः ॥ ११.१६.६ ॥
覆盖着象兵、马兵与车兵的尸体,被鲜血染成泥泞,充满无头的躯体和无身的头颅堆。
11.16.7
गजाश्वनरवीराणां निःसत्वैरभिसंवृतम् ।
सृगालवलगोमायुकङ्ककाकनिषेवितम् ॥ ११.१६.७ ॥
布满象、马和英勇战士的尸体,豺、鬣狗、秃鹫、鹭和乌鸦聚集其间。
11.16.8
रक्षसां पुरुषादाना मोदनं कुरराकुलम् ।
अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम् ॥ ११.१६.८ ॥
罗刹与食人者的欢宴之所,充满鹗鸟,回荡着吉凶豺狼的嚎叫,秃鹫聚集其间。
11.16.9
ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः ।
पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः ॥ ११.१६.९ ॥
于是,得到毗耶娑许可的君王持国,以及以坚战为首的般度诸子,全都前行。
11.16.10
वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम् ।
कुरुस्त्रियः समादाय जग्मुरायोधनं प्रति ॥ ११.१६.१० ॥
以婆苏提婆在前,带上亲族已被杀的君王,俱卢族的妇女向战场走去。
11.16.11
समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः ।
अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन् ॥ ११.१६.११ ॥
到达俱卢之野,丈夫已被杀的妇女在那里看见被杀的儿子、兄弟、父亲与丈夫。
11.16.12
क्रव्यादैर्भक्ष्यमाणांश्च गोमायुवलवायसैः ।
भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः ॥ ११.१६.१२ ॥
被食肉的豺、鬣狗与乌鸦啃食,又被鬼魂、毕舍遮、罗刹和各类夜行者所环绕。
11.16.13
रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः ।
कुरर्य इव शोकार्ता विक्रोशन्त्यो निपेतिरे ॥ ११.१६.१३ ॥
众女见此如同楼陀罗嬉戏般的屠杀,因悲伤而如鹗鸟般哀号,纷纷倒下。
11.16.14
अदृष्टपूर्वं पशन्त्यो दुःखार्ता भरतस्त्रियः ।
शरीरेषु स्खलन्त्यश्च न्यपतंश्च परासुवत् ॥ ११.१६.१४ ॥
薄拉多族的众女见到从未见过的景象,悲痛难忍,在尸体上绊倒,如死人般倒下。
11.16.15
श्रान्तानां चाप्यनाथानां क्रन्दन्तीनां भृशं तदा ।
पाञ्चालकुरुयोषाणां कृपणं तदभून्महत् ॥ ११.१६.१५ ॥
此时,疲惫无依、痛哭不止的般遮罗与俱卢众女的悲号,变得极为凄惨而巨大。
11.16.16
दुःखोपहतचित्ताभिः समन्तादनुनादितम् ।
दृष्ट्वाऽऽयोधनमत्युग्रं धर्मज्ञा सुबलात्मजा ॥ ११.१६.१६ ॥
看见那极为可怖的战场,四面回荡着心被悲伤撕裂的众女的哀号,知晓法的苏波罗之女……
11.16.17
ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम् ।
कुरूणां वैशमं दृष्ट्वा इदं वचनमब्रवीत् ॥ ११.१६.१७ ॥
于是她称呼那莲花眼的人中至尊,见到俱卢族的毁灭,说了这番话。
11.16.18
पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः ।
प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव ॥ ११.१६.१८ ॥
莲花眼的马达瓦啊,请看我这些儿媳,她们的夫君已被杀死,披头散发,如鹗鸟般哀号。
11.16.19
अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान् ।
पृथगेवानुपद्यन्ते पुत्रान्भ्रातॄन्पितॄन्पतीन् ॥ ११.१६.१९ ॥
她们聚在一起,追念婆罗多族中的俊杰,各自为儿子、兄弟、父亲和丈夫哀哭起来。
11.16.20
वीरसूभिर्महाबाहो हतपुत्राभिरावृतम् ।
क्वचिच्च वीरपत्नीभिर्हतवीराभिरावृतम् ॥ ११.१६.२० ॥
啊,大臂者,此地被战死之子的英雄之母所环绕,也有一处被战死英雄的英雄之妻所环绕。
11.16.21
शोभितं पुरुषव्याघ्रैः कर्णभीष्माभिमन्युभिः ।
द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः ॥ ११.१६.२१ ॥
此地由人中猛虎般的迦尔纳、毗湿摩、阿毗曼尤,以及德罗纳、德鲁帕达和沙利耶装点,他们如同熊熊燃烧的火焰。
11.16.22
काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महाधनैः ।
अद्भुतैर्हस्तकेयूरैः स्रग्भिश्च समलंकृतम् ॥ ११.१६.२२ ॥
此地以金甲、金币、珍贵宝石、奇妙的臂钏和花环装饰得十分华美。
11.16.23
वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि ।
खङ्गैश्च विविधैस्तीक्ष्णैः सशरैश्च शरासनैः ॥ ११.१६.२३ ॥
此地散落着英雄臂膀投掷的长矛、铁杵、各式锋利的刀剑、箭矢和弓。
11.16.24
क्रव्यादसङ्घैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित् ।
क्वचिदाक्रीडमानैश्च शयानैश्चापरैः क्वचित् ॥ ११.१६.२४ ॥
此地充满了食肉之群,有的欢喜地站立,有的聚集一处,有的四处嬉戏,也有的躺卧在地。
11.16.25
एतदेवंविधं वीर सम्पश्यायोधनं विभो ।
त्वया तु श्रावितं कर्म पुष्कराक्ष महाद्युते।
पश्यमाना हि दह्यामि शोकेनाहं जनार्दन ॥ ११.१६.२५ ॥
啊英雄,啊威力无边者,请看这样的战场。啊莲花眼者,啊大光明者,此事正是你所促成。啊Janārdana,看着这一切,我因悲痛而焚烧。
11.16.26
पाञ्चालानां कुरूणां च विनाशं मधुसूदन ।
पञ्चानामपि भूतानामहं वधमचिन्तयम् ॥ ११.१६.२६ ॥
啊Madhusūdana,我思量了般遮罗与俱卢的毁灭,也思量了那五位的杀戮。
11.16.27
तान्सुपर्णाश्च गृध्राश्च कर्षयन्त्यसृगुक्षितान् ।
विगृह्य चरणैर्गृध्रा भक्षयन्ति सहस्रशः ॥ ११.१६.२७ ॥
金翅鸟与秃鹫拖拽着沾满鲜血的他们;秃鹫以爪抓住,成千上万地吞食他们。
11.16.28
जयद्रथस्य कर्णस्य तथैव द्रोमभीष्मयोः ।
अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति ॥ ११.१६.२८ ॥
谁配去思量jayadratha与Karṇa的毁灭,同样还有Droṇa与Bhīṣma,以及Abhimanyu的毁灭呢?
11.16.29
अवध्यकल्पान्निहतान्गतसत्वानचेतसः ।
गृध्रकङ्कवलश्येनश्वसृगालसमावृतान् ॥ ११.१६.२९ ॥
仿佛不可被杀者,却已被杀,失去生命与知觉,被秃鹫、白鹭、鹰、隼、狗与豺狼所环绕。
11.16.30
अमर्षवशमापन्नान्दुर्योधनवशे स्थितान् ।
पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव ॥ ११.१६.३० ॥
看这些人中之虎,被愤怒所支配,处于难敌的控制之下,平息如同熄灭的火焰。
11.16.31
शयनान्युचिताः सर्वे मृदूनि विमलानि च ।
विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते ॥ ११.१६.३१ ॥
他们都配享柔软洁净的床榻,如今却已陨落,躺卧在裸露的大地之上。
11.16.32
बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः ।
शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः ॥ ११.१६.३२ ॥
往日按时受游吟歌者赞颂而备受欢迎的人,如今听到的是豺狼凶恶、不祥的种种叫声。
11.16.33
ये पुरा शेरते वीराः शयनेषु यशस्विनः ।
चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते ॥ ११.१६.३३ ॥
昔日在床榻上安眠的显赫英雄,身上涂抹着檀香与沉香,如今却躺卧在尘土之中。
11.16.34
तेषामाभरणान्येते गृघ्रगोमायुवायसाः ।
आक्षिपन्ति शिवा घोरा विनदन्त्यः पुनः पुनः ॥ ११.१६.३४ ॥
秃鹫、豺狼与乌鸦正在扯下他们的饰物,凶恶的母豺狼一遍又一遍地嚎叫着拖拽。
11.16.35
बाणान्वनिनिशितान्पीतान्निस्त्रिंशान्विमला गदाः ।
युद्धाभिमानिनः सर्वे जीवन्त इव बिभ्रति ॥ ११.१६.३५ ॥
在磨石上磨快的箭矢、金色的刀剑、洁净的铁锤——那些以战斗为荣的人,仍然握着它们,仿佛还活着一般。
11.16.36
सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः ।
ऋषभप्रतिरूपाक्षाः शेरते च सहस्रशः ॥ ११.१६.३६ ॥
许多容貌俊美、眼如公牛的人,被食肉之兽撕咬,成千上万地躺卧着。
11.16.37
अपरे पुनरालिङ्ग्य गदाः परिघबाहवः ।
शेरतेऽभिमुखाः शूरा दयिता इव योषितः ॥ ११.१६.३७ ॥
其他人再次抱住铁棒,手臂如铁闩,面朝前倒卧;这些英雄像心爱的女子一样躺着。
11.16.38
बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च ।
न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन ॥ ११.१६.३८ ॥
其他人身披明亮的铠甲,手持兵器,食肉者不敢侵犯他们,仿佛他们仍然活着。啊,遮那陀那!
11.16.39
क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम् ।
शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः ॥ ११.१६.३९ ॥
其他大德者的金色彩饰花环,被食肉者拖拽,四处散落。
11.16.40
एते गोमायवो भीमा निहतानां यशस्विनाम् ।
कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः ॥ ११.१६.४० ॥
这些可怕的豺狼成千上万地扯下那些挂在已死的名将颈间的项链。
11.16.41
सर्वेष्वपररात्रेषु यानवन्दन्त बन्दिनः ।
स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः ॥ ११.१६.४१ ॥
每夜最后的时辰,游吟歌者向他们致敬,他们以至高的赞颂与礼节受过训练。
11.16.42
तानद्य परिदेवन्ति दुःखार्ता परमाङ्गनाः ।
कृपणा वृष्णिशार्दूल दुःखशोकार्दिता भृशम् ॥ ११.१६.४२ ॥
今日,那些被悲痛折磨的贵妇们为他们悲悲切切地哀哭,啊,韦湿尼族的雄虎,她们被忧伤和悲痛深深折磨。
11.16.43
रक्तोत्पलवनानीव विभान्ति रुचिराणि च ।
मुखानि परमस्त्रीणां परिशुष्काणि केशव ॥ ११.१६.४३ ॥
如红莲之林,可爱的面容光彩照人;然而众多上等女子的面容已枯槁,啊,克鲁沙。
11.16.44
रुदित्वा विरता ह्येता ध्यायन्त्यः सपरिक्लमाः ।
कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः ॥ ११.१६.४४ ॥
哭泣之后暂歇的这些俱卢女子,沉思而疲惫,为悲苦所折磨,一个接一个地走向彼此。
11.16.45
एतान्यादित्यवर्णानि तपमीयनिभानि च ।
पश्य रोदनताम्राणि वक्त्राणि कुरुयोषिताम् ॥ ११.१६.४५ ॥
看那些俱卢女子的面容,如太阳般的颜色,如熔化的黄金,因哭泣而泛红。
11.16.46
श्यामानां वरवर्णानां गौरीणामेकवाससाम् ।
दुर्योधनवरस्त्रीणां पश्य वृन्दानि केशव ॥ ११.१६.४६ ॥
看那杜尔约达那的上等妻子们的人群,有黑肤的,有白肤的,身穿同一件衣裳,啊,克鲁沙。
11.16.47
आसामपरिपूर्णार्थं निशम्य परिदेवितम् ।
इतरेरसङ्क्रन्दान्न विजानन्ति योषितः ॥ ११.१६.४७ ॥
听到她们未尽之意的哀叹,又在他人的嚎哭中,这些女子已不能分辨。
11.16.48
एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च ।
विस्पन्दमाना दुःखेन वीरा जहति जीवितम् ॥ ११.१६.४८ ॥
这些女子仿佛长叹,大声哭号,悲哀哭泣,因悲痛而颤抖,英雄的妻子们正在舍弃生命。
11.16.49
बह्व्यो दृष्ट्व शरीराणि क्रोशन्ति विलपन्ति च ।
पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः ॥ ११.१६.४९ ॥
许多妇人看见尸体,大声哭喊、悲泣;另一些柔手的妇人以手击打自己的头。
11.16.50
शिरोभिः पतितैर्हस्तैः सर्वाङ्गैः खण्डशः कृतैः ।
इतरेतसम्पृक्तैराकीर्णा भाति मेदिनी ॥ ११.१६.५० ॥
倒下的头颅、手臂以及被砍成碎块的各部分肢体相互混杂,散布在大地上,看去满目狼藉。
11.16.51
विशिरस्कानथो कायान्दृष्ट्वा ह्येताननिन्दितान् ।
मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च ॥ ११.१६.५१ ॥
看见无头的躯体与无身的头颅,那些无辜而本不应见此景象的妇人昏厥过去。
11.16.52
शिरः कायेन सन्धाय प्रेक्षमाणा विचेतसः ।
अपश्यन्त्योऽपरं तत्र नेदमस्येऽति दुःखिताः ॥ ११.१६.५२ ॥
她们把头颅与躯体相合端详,心神慌乱、悲痛的妇人在那里找不到另一具身躯,便说:“这不是他的。”
11.16.53
बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक् ।
सन्दधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनःपुनः ॥ ११.१६.५३ ॥
她们试图把被箭射断而分散各处的手臂、大腿、双足及其他肢体重新拼合,这些被悲痛所笼罩的妇人一次又一次地昏厥过去。
11.16.54
उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः ।
दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः ॥ ११.१६.५४ ॥
看见其他人头颅被砍下,或被野兽飞禽啃食,婆罗多族的一些妇人竟认不出自己的丈夫。
11.16.55
पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन ।
प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः ॥ ११.१६.५५ ॥
摩杜苏陀那啊,另一些女子以手击打自己的头,看到被敌人杀死的兄弟、父亲、儿子和丈夫。
11.16.56
बाहुभिश्च सखङ्गैश्च शिरोभिश्च सकुण्डलैः ।
अगम्यकल्पा पृथिवी मांसशोणितकर्दमा।
बभूव भरतश्रेष्ठ प्राणिभिर्गतजीवितैः ॥ ११.१६.५६ ॥
婆罗多中最优秀者啊,大地布满手臂、刀剑、戴着耳环的头颅以及已失去生命的众生,满是血肉泥泞,无法通行。
11.16.57
न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः ।
भ्रातृभिः पतिभिः पुत्रैरुपाकीर्णां वसुन्धराम् ॥ ११.१६.५७ ॥
昔日不习惯悲苦的无瑕妇人,如今陷入悲痛之中,大地上散布着兄弟、丈夫和儿子的尸体。
11.16.58
यूथानीव किशोरीणां सुकेशीनां जनार्दन ।
स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः ॥ ११.१६.५८ ॥
Janārdana啊,看那些成群的持国之媳,好似一群群美发的年轻母鹿。
11.16.59
इतो दुःखतरं किन्नु केशव प्रतिभाति मे ।
यदिमाः कुर्वते सर्वा रवमुच्चावचं स्त्रियः ॥ ११.१६.५९ ॥
Keśava啊,还有什么比这更令人悲痛呢?这些女子都以高低不同的声音哀号。
11.16.60
नूनमाचरितं पापं मया पूर्वेषु जन्मसु ।
या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातृंश्च माधव ॥ ११.१६.६० ॥
摩陀婆啊,我必定在前世造过恶业,才会看见我被杀的儿子、孙子和兄弟。
11.16.61
एवमार्ता विलपती समाभाष्य जनार्दनम् ।
गान्धारी पुत्रशोकार्ता द्वदर्श निहतं सुतम् ॥ ११.१६.६१ ॥
甘陀利悲痛哀号,与坚恶(黑天)说话;因丧子之痛而煎熬,她看见了被杀的儿子。