摩诃婆罗多 · 章 11.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.19.1
एष माधव पुत्रो मे विकर्णः पाज्ञसम्मतः ।
भूमौ विनिहतः शेते भीमेन शतधा कृतः ॥ ११.१९.१ ॥
摩陀婆啊,我的儿子毗迦尔纳,为诸王所敬重,被毗摩十分割裂,死躺在地上。
11.19.2
गजमध्ये हतः शेते विकर्णो मधुसूदन ।
नीलमेघपरिक्षिप्तः शरदीव निशाकरः ॥ ११.१९.२ ॥
摩图苏陀那啊,毗迦尔纳被杀死躺在象群之中,如同被乌云环绕的秋月。
11.19.3
अस्य चापग्रहेणैव पाणिः कृतकिणो महान् ।
कथञ्चिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान् ॥ ११.१९.३ ॥
他那因握弓而长满老茧的大手,正被渴望啃食的秃鹫不知怎样地撕扯下来。
11.19.4
अस्य भार्याऽऽमिषप्रेप्सून्गृध्रकाकांस्तपस्विनी ।
वारयत्यनिशं बाला न च शक्नोति माधव ॥ ११.१९.४ ॥
摩陀婆啊,他的妻子,那位苦修的年轻女子,不停地驱赶渴求血肉的秃鹫和乌鸦,却无法做到。
11.19.5
युवा वृन्दारकसमो विकर्णः पुरुषर्षभ ।
सुखोषितः सुखार्हश्च शेते पांसुषु माधव ॥ ११.१९.५ ॥
摩陀婆啊,年轻的毗迦尔纳如同天神,是人中雄牛,在安乐中长大且配享安乐,如今却躺在尘土之中。
11.19.6
कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे ।
अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम् ॥ ११.१९.६ ॥
在战场上,他的要害被带倒钩、铁制与那罗遮箭所射穿,然而吉祥天女至今仍未离弃这位婆罗多人中之最。
11.19.7
एष सङ्ग्रामशूरणे प्रतिज्ञां पालयिष्यता ।
दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे ॥ ११.१९.७ ॥
这位战场上的英雄,正要践行他的誓言;杜尔穆克哈面朝前倒在战场上,被杀,乃是敌众的摧毁者。
11.19.8
तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम् ।
विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः ॥ ११.१९.८ ॥
黑天啊,他的这张脸被豺狼和猛兽啃去了一半,却愈加光彩夺目,孩子,如同第七日的月亮。
11.19.9
शूरस्य हि रणे कृष्ण पश्याननमथेदृशम् ।
स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः ॥ ११.१९.९ ॥
黑天啊,看看战场上英雄的脸竟是这样。我的儿子被敌人杀死,如何吞噬尘土?
11.19.10
यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते ।
स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित् ॥ ११.१९.१० ॥
温良的人啊,战阵前列无人能与其对抗的那位,征服天界的杜尔穆克哈,怎会被敌人杀死?
11.19.11
चित्रसेनं हतं भूमौ शयानं मधुसूदन ।
धार्तराष्ट्रमिमं पश्य प्रतिमानं धनुष्मताम् ॥ ११.१९.११ ॥
摩图苏陀那啊,看看倒卧在地上被杀的旃陀罗塞那,这位持国之子,乃是弓箭手的楷模。
11.19.12
तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः ।
क्रव्यादसङ्घैः सहिता रुदन्त्यः पर्युपासते ॥ ११.१९.१२ ॥
被悲痛消瘦的少女们,哭泣着,围坐在身着五色花环与饰物的他身旁,与成群的食肉之兽为伴。
11.19.13
स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम् ।
चित्ररूपमिदं कृष्ण विमृश्य प्रतिभाति मे ॥ ११.१९.१३ ॥
女人的哭声与猛兽的咆哮——克里希那啊,细想之下,这景象令我感到诡异。
11.19.14
युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः ।
विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव ॥ ११.१९.१४ ॥
那位年轻的贵人毗奔舍提,常受最优秀的女子侍奉,如今倒卧尘土之中,啊摩豆婆。
11.19.15
शरसङ्कृत्तवर्माणं वीरं विशसने हतम् ।
परिवार्यासते गृध्राः परिविंशं विविंशतिम् ॥ ११.१९.१५ ॥
英雄毗奔舍提铠甲被箭射断,死于屠杀之中,秃鹫团团围坐,如同围着被弃之物。
11.19.16
प्रविश्य समरे शूरः पाण्डवानामनीकिनीम् ।
स वीरशयने शेते परः सत्पुरुषोचिते ॥ ११.१९.१६ ॥
那位勇士在战场上冲入般度族的军队,如今躺在英雄的床榻上,那是为善人所宜的最高床榻。
11.19.17
स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम् ।
अतीव सौम्यवदनं कृष्ण पश्य विविंशतेः ॥ ११.१९.१७ ॥
克里希那啊,请看毗奔舍提的面容:带着微笑,鼻梁秀挺,眉目清秀,如同月亮,极为温和。
11.19.18
यं स्म तं पर्युपासन्ते बहुधा वरयोषितः ।
क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः ॥ ११.१९.१८ ॥
他曾经受到诸多优秀女子的多方侍奉,如同成千上万的天女侍奉嬉戏的乾闼婆。
11.19.19
हन्तारं परसैन्यानां शूरं समितिशोभनम् ।
निबर्हणममित्राणां दुःसहं विषहेत कः ॥ ११.१९.१९ ॥
摧毁敌军的英雄,战场上的光辉,灭除敌人,令人难以抵挡——谁能抵挡他?
11.19.20
दुःसहस्यैतदाभाति शरीरं संवृतं शरैः ।
गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवाचितः ॥ ११.१९.२० ॥
这位难以抵挡者的身体被箭覆盖,仿佛一座开满迦尼迦罗花的山。
11.19.21
शातकौम्भ्या स्रजा भाति कवचेन च भास्वता ।
अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः ॥ ११.१९.२१ ॥
他以金色花环和闪亮的铠甲而光彩照人;即使已无生命,这位难以抵挡者仍如被火光照亮的白色山峰。