摩诃婆罗多 · 章 11.20
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.20.1
अध्यर्धगुणमाहुर्यं बले शौर्ये च केशव ।
पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम् ॥ ११.२०.१ ॥
人们说他在力量与勇武上胜过常人一倍半,啊,羯舍婆。由你的父亲与你,啊,檀舍罗诃之裔,他如同骄傲而猛烈的雄狮。
11.20.2
यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम् ।
स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः ॥ ११.२०.२ ॥
他独自冲破了我儿那难以攻破的军阵,成为他人的死亡,自己却落入了死神之手。
11.20.3
तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः ।
अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति ॥ ११.२०.३ ॥
啊,克里希纳,我看到无量光辉的克里希纳之子阿毗曼纽的光芒;他虽被杀,其光辉却未曾熄灭。
11.20.4
एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः ।
हतं बाला पतिं वीरं दृष्ट्वा शोचत्यनिन्दिता ॥ ११.२०.४ ॥
这位毗罗吒之女、持甘狄拔弓的阿周那之媳,年轻而无过失,见到她英勇的丈夫被杀,正在悲泣。
11.20.5
तमेषा हि समागम्य भार्या भर्तारमन्तिके ।
विराटदुहिता कृष्ण पाणिना परिमार्जति ॥ ११.२०.५ ॥
啊,克里希纳,这位毗罗吒之女、妻子,走近丈夫身旁,用手轻抚着他。
11.20.6
तस्य वक्त्रमुपाघ्राय सौभद्रस्य मनस्विनी ।
विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् ॥ ११.२०.६ ॥
这位心地高尚的女子闻着并亲吻了须跋陀罗之子的面容——那面容如盛开的莲花,颈项圆润如海螺——
11.20.7
कामरूपवती चैषा परिष्वजति भामिनी ।
लज्जमाना पुरा चैनं माध्वीकमदमूर्च्छिता ॥ ११.२०.७ ॥
这位美丽如欲望本身的女子拥抱着他;她先前还羞涩,如今因蜜酒的醉意而昏迷。
11.20.8
तस्य क्षतजसन्दिग्धं जातरूपपरिष्कृतम् ।
विमुच्य कवचं कृष्ण शीरमभिवीक्षते ॥ ११.२०.८ ॥
她解下他沾满鲜血、饰有黄金的铠甲,凝视着他的头颅,啊,克里希纳。
11.20.9
अवेक्षमाणा तं बाला कुष्ण त्वामभिभाषते ।
अयं ते पुण्डरीकाक्ष कसदृशाक्षो निपातितः ॥ ११.२०.९ ॥
她凝望着他,对你说道,啊,克里希纳:啊,莲花眼者,你这位眼睛如迦萨(Kasa)般的儿子,已被击倒。
11.20.10
बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ ।
रूपेण च तथाऽत्यर्थं शेते भुवि निपातितः ॥ ११.२०.१० ॥
啊,无瑕者,此人在力量、勇气和光辉上与你相当,在容貌上也极为相似,如今倒卧在地上。
11.20.11
अत्यन्तं सुकुमारस्य राङ्कवाजिनशायिनः ।
कच्चिदद्य शरीरं ते भूमौ न परितप्यते ॥ ११.२०.११ ॥
你那极为娇嫩、曾躺在羚羊皮上的身体,今日是否在地上被烈日灼烧?
11.20.12
मातङ्गभुजवर्ष्णाणौ ज्याक्षेपकठिनत्वचौ ।
काञ्चनाङ्गदिनौ शेते निक्षिप्य विपुलौ भुजौ।
व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव ॥ ११.२०.१२ ॥
他的双臂如象鼻,宽阔如雨云,因拉弓弦而皮肤坚硬,戴着金臂钏,伸展着宽阔的双臂躺着,仿佛多次操练之后,因疲倦而安然入睡。
11.20.13
एवं विलपतीमार्तां किं मां न प्रतिभाषसे ।
न स्मराम्यपराधं ते किं मां न प्रतिभाषसे ॥ ११.२०.१३ ॥
我如此哀号,悲痛欲绝,你为何不回答我?我不记得对你有任何过错,你为何不回答我?
11.20.14
ननु मां त्वं पुरा दूरादभिवीक्ष्याभिभाषसे ।
न स्मराम्यपराधं मे किं मां न प्रतिभाषसे ॥ ११.२०.१४ ॥
从前你远远看见我便与我说话。我不记得对你有过错,你为何不回答我?
11.20.15
आर्यामार्य सुभद्रां तवमिमां श्च त्रिदशोपमान् ।
पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि ॥ ११.२०.१५ ॥
高贵的人啊!你抛下高贵的苏跋陀罗、这位妻子、如天神般的诸位长辈,以及悲痛的我,将要去往何处?
11.20.16
तस्य शोणितदिग्धान्वै केशानुन्नम्य पाणिना ।
उत्सङ्गे वक्तमाधाय जीवन्तमिव पृच्छति ॥ ११.२०.१६ ॥
她用手拨起他沾满鲜血的头发,把他的脸放在膝上,仿佛他还活着一样问道。
11.20.17
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः ।
कथं त्वां रणमध्यस्थं जघ्रुरेते महारथाः ॥ ११.२०.१७ ॥
你是持甘提弓者(阿周那)之子,婆素提婆的外甥,站在战阵中央的你,为何竟被这些大车武士所杀?
11.20.18
धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान् ।
द्रोणद्रौणायतनी चोभौ यैरहं विधवा कृता ॥ ११.२०.१८ ॥
那些残忍行事者应当蒙羞——克里巴、迦尔纳、胜车,以及德罗纳与德罗纳之子二人,是他们使我成了寡妇!
11.20.19
रथर्षभाणां सर्वेषां कथमासीत्तदा मनः ।
बालं त्वां पिरवार्यैकमनेकेषां च जघ्नताम् ॥ ११.२०.१९ ॥
那时,所有那些如公牛般的车战勇士心中是怎样的,当他们围住你这个孤身少年,许多人一起攻击你的时候?
11.20.20
कथं नु पाण्डवानां च पाञ्चालानां तु पश्यताम् ।
त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत् ॥ ११.२०.२० ॥
英雄啊,在般度之子和般遮罗人眼前,你明明有保护者,却如同无依无靠般死去,这是怎么回事?
11.20.21
दृष्ट्वा बहुभिराक्रन्दे निहतं त्वां पिता तव ।
वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः ॥ ११.२०.२१ ॥
你被众人杀害,你的父亲见了便悲号。那位英雄、人中之虎般度之子,如今怎么还活着?
11.20.22
न राज्यलाभो विपुलः शत्रूणां च पराभवः ।
प्रीतिं धास्यति पार्थानां त्वामृते पुष्करेक्षण ॥ ११.२०.२२ ॥
没有你,莲花眼的人啊,无论获得大王国还是击败敌人,都不会给普利塔之子带来喜悦。
11.20.23
तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च ।
क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय ॥ ११.२०.२३ ॥
我很快就会跟随你去往你以武器、法和克己所赢得的世界。请在那里等待我。
11.20.24
दुर्मरं पुनरप्राप्ते काले भवति केनचित् ।
यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा ॥ ११.२०.२४ ॥
未到时辰,任何人都难以死去。然而我这不幸的人,见你死在战场上,仍然活着。
11.20.25
कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा ।
पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि ॥ ११.२०.२५ ॥
人中之虎啊,如今你将在祖先的世界里遇见另一位女子,并以温柔微笑的话语称呼她,正如你曾经对我那样。
11.20.26
नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि ।
परमेण च रूपेण गिरा च स्मितपूर्वया ॥ ११.२०.२६ ॥
你必定会在天上以你无上的容貌和先带笑意的言语,搅动天女们的心。
11.20.27
प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान् ।
सौभद्र विहन्काले स्मरेथाः सुकृतानि मे ॥ ११.२०.२७ ॥
苏跋陀罗之子啊,你得到了行善者的世界,并与天女相会之后,在临死之时,要记起我的善行。
11.20.28
एतावानिह संवासो विहितस्ते मया सह ।
षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः ॥ ११.२०.२८ ॥
在此与我共处,命运所定只有这么多;英雄啊,六个月之后,在第七个月,你便去赴死了。
11.20.29
इत्युक्तवचनामेनामपकर्षन्ति दुःखिताम् ।
उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः ॥ ११.२०.२९ ॥
被如此说了之后,悲伤的乌塔拉——她的决心已成徒劳——被摩差王族的女子们拉走了。
11.20.30
उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम् ।
विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च ॥ ११.२०.३० ॥
她们拖走了乌塔拉,自己更加悲痛,看到毗罗吒被杀,便高声哭喊、悲声哀嚎。
11.20.31
द्रोणास्त्रशरसङ्कृत्तं शयानं रुधिरोक्षितम् ।
विराटं वितुदन्त्येते गृध्रगोमायुवायसाः ॥ ११.२०.३१ ॥
毗罗吒被德罗纳的兵器和箭矢斩碎,浑身沾满鲜血,躺在地上,而这些秃鹫、豺狼和乌鸦正在撕咬他。
11.20.32
वितुद्यमानं विहगैर्विराटमसितेक्षणाः ।
न शक्नुवन्ति विहगान्निवारयितुमातुराः ॥ ११.२०.३२ ॥
黑眼睛的妇女们悲痛欲绝,无法驱赶正在撕咬毗罗吒的鸟群。
11.20.33
आसामातपतप्तानामायासेन च योषिताम् ।
श्रमेण च विवर्णानां वक्त्राणां विप्लुतं वपुः ॥ ११.२०.३३ ॥
这些被太阳灼烧、因劳累和疲倦而面色苍白的妇女,身体已然憔悴凌乱。
11.20.34
उत्तरं चाभिमन्युं च काम्भोजं च सुदक्षिणम् ।
कार्ष्णिनाऽभिहतं पश्य लक्ष्मणं प्रियदर्शनम्। ॥ ११.२०.३४ ॥
看那乌塔拉、阿毗曼尤、迦摩补阇和苏达克希纳,还有被克里希纳之子所杀、相貌俊美的罗什曼那。
11.20.35
आयोधनशिरोमध्ये शयानं पश्य माधव ॥ ११.२०.३५ ॥
摩陀婆啊,看那些躺在战场上一颗颗头颅之间的人。