摩诃婆罗多 · 章 11.23
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.23.1
एष शल्यो हतः शेते साक्षान्नकुलमातुलः ।
धर्मज्ञेन हतस्तात धर्मराजेन संयुगे ॥ ११.२३.१ ॥
沙利耶已被杀死躺在这里,正是无种的舅父,历历在目。亲爱的孩子,他在战斗中被知法的法王所杀。
11.23.2
यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ ।
स एष निहतः शेते मद्रराजो महाबलः ॥ ११.२३.२ ॥
人中之雄啊,那位始终在各处与你竞争的,这位大力的摩德罗王已被杀死躺下。
11.23.3
जयद्रथे यदि ब्रूयुरुपरोधं कथञ्चन ।
मद्रपुत्रे कथं ब्रूयुरुपरोधं विवक्षवः ॥ ११.२३.३ ॥
若有人以任何方式指责过胜车,那么那些想指责摩德罗之子的人又会如何说呢?
11.23.4
येन सङ्गृह्णता तात रथमाधिरथेर्युधि ।
जयार्थं पाण्डुपुत्राणां तदा तेजोवधः कृतः ॥ ११.२३.४ ॥
亲爱的孩子,那在战斗中拦住御者之子(迦尔纳)的战车,为般度之子的胜利而当时毁了他的威光的人——
11.23.5
अहो धिक्फश्य शल्यस्य पूर्णचन्द्रसुदर्शनम् ।
मुखं प्द्मपलाशाक्षं काकैरादष्टमव्रणम् ॥ ११.२३.५ ॥
唉,可耻!看沙利耶的脸——如满月般俊美,眼如莲瓣——却被乌鸦啄食,然而没有一处伤痕。
11.23.6
एषा चामीकराभस्य तप्तकाञ्चनसप्रभा ।
आस्याद्विनिः सृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः ॥ ११.२३.६ ॥
此舌如熔金般闪耀,金色光辉,从他口中伸出——啊黑天,正被鸟儿啄食。
11.23.7
युधिष्ठिरेण निहतं शल्यं समितिशोभनम् ।
रुदन्त्यः पर्युपासन्ते मद्रराजं कुलाङ्गनाः ॥ ११.२३.७ ॥
被坚战所杀的沙利耶,在战场上光彩夺目,哭泣的家族女眷围坐在摩德罗王身旁。
11.23.8
एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम् ।
क्रोशन्त्योऽथ समासाद्य क्षत्रियाः क्षत्रियर्षभम् ॥ ११.२३.८ ॥
这些身着细软衣裳的女子,哭喊着来到摩德罗王身旁——那人中之雄,刹帝利中之雄。
11.23.9
शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः ।
वासिता गृष्टयः पङ्के परिमग्नमिवर्षभम् ॥ ११.२३.९ ॥
女子们从四面围绕着倒地的沙利耶站立,如同在泥中陷没的公牛周围鸣叫的飞鸟。
11.23.10
शल्यं शरणदं शूरं पश्येमं वृष्णिनन्दन ।
शयानं वीरशयने शरैर्विशकलीकृतम् ॥ ११.२३.१० ॥
看这位给予庇护的英雄沙利耶吧,维什尼族的喜悦者啊!他躺在英雄之床上,被箭矢撕成碎片。
11.23.11
एष शैलालयो राजा भगदत्तः प्रतापवान् ।
गजाङ्कुशधरः श्रीमाञ्शेते भुवि निपातितः ॥ ११.२३.११ ॥
这位住在山中、威力强大、手持象钩、光辉灿烂的国王婆伽达塔,被击倒在地上躺着。
11.23.12
यस्य रुक्ममयी माला शिरस्येषा विराजते ।
श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान् ॥ ११.२३.१२ ॥
此金色花环在谁的头上闪耀,而他正被野兽啃食——仿佛在为他的发丝增添光彩。
11.23.13
एतेन किल पार्थस्य युद्धमासीत्सुदारुणम् ।
रोमहर्षणमत्युग्रं शक्रस्य त्वहिना यथा ॥ ११.२३.१३ ॥
与此相比,帕尔塔的战斗确实极为可怖,令人毛骨悚然,极其猛烈,犹如帝释天与毒蛇之战。
11.23.14
योधयित्वा माहाबाहुरेष पार्थं धनञ्जयम् ।
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः ॥ ११.२३.१४ ॥
这位大臂者与帕尔塔达那阳耶交战,使其陷入疑惑,最终被昆提之子击倒。
11.23.15
यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन् ।
स एष निहतः शेते भीष्मो भीष्मकृदाहवे ॥ ११.२३.१५ ॥
世上在勇武与威力上无人能与之相比的那位,令敌人在战场上胆寒的毗湿摩,如今被杀倒卧于此。
11.23.16
पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम् ।
युगान्त इव कालेन पातितं सूर्यमम्बरात् ॥ ११.२३.१६ ॥
克里希纳啊,请看摩诃迦摩的儿子,他躺卧着,光辉如太阳,如同劫末时被时间从天空中拉下的太阳。
11.23.17
एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान् ।
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव ॥ ११.२३.१७ ॥
这位以兵器之威炙烤敌人于战场的勇士,人中之日,正如太阳落下那样落下,克沙瓦啊。
11.23.18
शरतल्पगतं भीष्ममूर्ध्वरेतसमच्युतम् ।
शयानं वीरशयने पश्य शूरनिषेविते ॥ ११.२३.१८ ॥
请看毗湿摩,持守梵行而不动摇,躺卧在箭床之上,躺在英雄们所常至的英雄之床上。
11.23.19
कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम् ।
आविश्य शेते भगवान्स्कन्दः शरवणं यथा ॥ ११.२३.१९ ॥
他以带倒钩的纳利迦箭和纳拉恰箭铺设了最好的床榻,躺卧其上,正如尊贵的塞建陀进入芦苇丛中躺下一般。
11.23.20
अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम् ।
उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना ॥ ११.२३.२० ॥
甘伽之子将最好的枕头垫在头下,那枕头如无与伦比的软垫,装满箭矢,配有三支箭,是持甘狄拔弓者所赠。
11.23.21
पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः ।
एष शान्तनवः शेते माधवाप्रतिमो युधि ॥ ११.२३.२१ ॥
这位遵守父命、守持梵行、名声显赫的檀努之子,在战场上躺卧,堪比摩陀婆(黑天)。
11.23.22
धर्मात्मा तात सर्वज्ञः पारावर्येण निर्णये ।
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत् ॥ ११.२३.२२ ॥
哦,正直的爱子,全知者!凭借决断中的明智,他虽是凡人,却如不死者一般守住了生命之气。
11.23.23
नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी ।
यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः परैः ॥ ११.२३.२३ ॥
战场上没有谁熟练、博学或勇猛,而檀努之子毗湿摩今日却被敌人杀死躺在那里。
11.23.24
स्वयमेतेन शूरेण पृच्छयमानेन पाण्डवैः ।
धर्मज्ञेनाहवे मृत्युरादिष्टः सत्यवादिना ॥ ११.२३.२४ ॥
当般度之子们询问时,这位知晓法义、言语真实的英雄,亲自在战场上指明了他自己的死亡之道。
11.23.25
प्रनष्टः कुरुवंशश्च पुनर्येन समुद्वृतः ।
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम् ॥ ११.२३.२५ ॥
库鲁家族已经覆灭;那位使其重新兴起的大智者,与库鲁人一同走向了败亡。
11.23.26
धर्मेण कुरवः केन परिद्रक्ष्यन्ति माधव ।
हते देवव्रते भीष्मे देवकल्पे नरर्षभे ॥ ११.२३.२६ ॥
摩陀婆啊,天生的誓愿者毗湿摩——如神一般、人中雄牛——已被杀害,那么谁还能依法守护库鲁人呢?
11.23.27
अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा ।
तं पश्य पतितं द्रोणं कुरूणां गुरुमुत्तमम् ॥ ११.२३.२७ ॥
看那倒下的德罗纳吧,他是阿周那与萨提亚基的导师,库鲁人最卓越的师尊。
11.23.28
अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः ।
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव ॥ ११.२३.२८ ॥
正如天神之主因陀罗与大力的婆利古后裔(持斧罗摩)通晓四种神兵,摩陀婆啊,德罗纳也同样通晓。
11.23.29
यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम् ।
चकार स हतः शेते नैनमस्त्राण्यपालयन् ॥ ११.२३.२९ ॥
般度之子阿周那凭其恩宠而建下艰难之功——那人却已被杀倒卧;神兵也未能护他。
11.23.30
यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान् ।
सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रपृथक्कृतः ॥ ११.२३.३० ॥
库鲁人曾推他在前挑战般度诸子——这便是持兵者中最卓越的德罗纳,如今已与兵器分离。
11.23.31
यस्य निर्दहतः सेनां गतिरग्नरिवाभवत् ।
स भूमौ निहतः शेते शान्तार्चिरिव पावकः ॥ ११.२३.३१ ॥
那曾像火焰一样焚烧军队前行的人,如今被杀倒在地上,如同火光熄灭的烈火。
11.23.32
धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव ।
द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा ॥ ११.२३.३२ ॥
摩陀婆啊,被杀的德罗纳的弓、握柄和双手完好无损,仿佛他仍然活着。
11.23.33
वेदा यस्माच्च चत्वारः सर्वाण्यस्त्राणि केशव ।
अनपेतानि वै शूराद्यथैवादौ प्रजापतेः ॥ ११.२३.३३ ॥
啊,克沙瓦,四部吠陀和一切武器从未离开那位英雄,正如起初它们从未离开生主一样。
11.23.34
चन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ ।
गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ ॥ ११.२३.३४ ॥
他那双吉祥的双足,本应涂以檀香,受游吟诗人赞颂,被数百弟子礼拜,如今却被豺狼拖拽。
11.23.35
द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन ।
कृपी कृपणमन्वास्ते दुःखोपहतचेतना ॥ ११.२३.३५ ॥
啊,摩度苏陀那,在被德鲁帕达之子杀死的德罗纳身边,悲痛夺去心神的克里皮可怜地坐着。
11.23.36
तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम् ।
हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम् ॥ ११.२३.३६ ॥
看那位哭泣、悲痛、披散着头发、低垂着脸的女子,她守候着被杀的丈夫、持兵者中的翘楚德罗纳。
11.23.37
बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव ।
उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी ॥ ११.२३.३७ ॥
克舍婆啊,在战场上,身上铠甲被箭射穿、被猛光杀死的德罗纳身旁,坐着一位披发的梵行女子。
11.23.38
प्रेतकृत्ये च यतते कृपी कृपणमातुरा ।
हतस्य समरे भर्तुः सुकुमारी यशस्विनी ॥ ११.२३.३८ ॥
她在为战死的丈夫举行丧葬仪式,那可怜、悲苦、柔弱而有名望的女子正在忙碌。
11.23.39
अग्नीनाधाय विविधवच्चितां प्रज्वाल्य सर्वतः ।
द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः ॥ ११.२३.३९ ॥
以多种方式安置圣火,四面点燃柴堆,将德罗纳置于其上,唱诵三部娑摩歌的歌手们正在吟唱三首娑摩颂。
11.23.40
कुर्वन्ति च चितामेते जटिला ब्रह्मचारिणः ।
धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव ॥ ११.२३.४० ॥
这些披发的梵行者用弓、矛和战车的构件搭建柴堆,啊,摩陀婆。
11.23.41
शरैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम् ।
त एते द्रोणमादाय गायन्ति च रुदन्ति च ॥ ११.२३.४१ ॥
他们还会用各式箭矢和其他兵器焚烧那位光辉极盛者(德罗纳)。他们抬起德罗纳,又唱又哭。
11.23.42
सामभिस्त्रिभिरन्तस्थैरनुशंसन्ति चापरे ।
अग्नावग्निं समाधाय द्रोणं हुत्वा हुताशने ॥ ११.२३.४२ ॥
另一些人用三首中间的娑摩歌吟诵赞颂;将火置于火中,把德罗纳作为供品献入祭火,他们举行最后的葬礼。
11.23.43
गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः ।
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तथा ॥ ११.२३.४३ ॥
德罗纳的弟子们这些再生族面向恒河前行,将火葬柴堆逆向绕行,并将克里皮置于前方。