摩诃婆罗多 · 章 11.25
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.25.1
काम्भोजं पश्य दुर्धर्षं काम्भोजास्तरणोचितम् ।
शयानमृषभस्कन्धं हतं पांसुषु माधव ॥ ११.२५.१ ॥
摩陀婆啊,看看羯陀国王,难以战胜,配得上羯陀的地毯,被杀倒在尘土中,肩膀如公牛。
11.25.2
अस्य क्षतजसन्दिग्धौ बाहू चन्दनरूषितौ ।
अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता ॥ ११.२५.२ ॥
看见他那沾满血、涂着檀香的双臂,极度悲伤的妻子可怜地哀悼。
11.25.3
इमौ तौ परिघप्रख्यौ बाहू चन्दनरूषितौ ।
ययोर्विवरमापन्नां न रतिर्मां पुराऽजहात् ॥ ११.२५.३ ॥
这就是那双如铁杵般的手臂,涂着檀香;我曾在它们的怀抱中,它们从前从未因爱而抛弃我。
11.25.4
कां गतिं तु गमिष्यामि त्वया हीना जनेश्वर ।
दूरबन्धुरनाथा च वेपन्ती मधुरस्वरा ॥ ११.२५.४ ॥
人主啊,失去你,我将落得何种境地?远离亲族,无人庇护,颤抖着,声音甜美的我。
11.25.5
आतपे क्लाम्यमानानां विविधानामिव स्रुजाम् ।
क्लान्तानामपि नारीणां जहाति श्रीर्न वै तनूः ॥ ११.२५.५ ॥
如各种花环在烈日下枯萎,然而吉祥之福,即便对疲惫的女子之身,也不曾离弃。
11.25.6
शयानमभितः शूरं कालिङ्गं मधुसूदन ।
पश्य दीप्ताङ्गदयुतं प्रतिमानं धनुष्मताम् ॥ ११.२५.६ ॥
摩陀苏陀那啊,看那英勇的羯陵伽国王,四处横陈,身佩闪耀的臂钏,堪比善射者。
11.25.7
मागधानामधिपतिं जयत्सेनं जनार्दन ।
परिवार्य प्ररुदिता मागध्यः पश्य योषितः ॥ ११.२५.७ ॥
哦,阇那陀那,看那摩揭陀之主耆耶森那,被摩揭陀的妇女们围绕着,大声哭泣。
11.25.8
हरिणायतनेत्राणां सुस्वराणां जनार्दन ।
मनः श्रुतिहरो नादो मनो मोहयतीव मे ॥ ११.२५.८ ॥
哦,阇那陀那,这些有鹿一般大眼、声音甜美的女子的哭声,夺去了我的心与耳,仿佛迷惑了我的心。
11.25.9
प्रकीर्णवस्त्राभरणा रुदत्यः शोककर्शिताः ।
स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि ॥ ११.२५.९ ॥
衣服与装饰散落四处;摩揭陀的妇女们因悲伤而憔悴、痛哭不已,她们曾睡在华美的床榻上,如今却横卧于地上。
11.25.10
कोसलानामधिपतिं राजपुत्रं बृहद्बलम् ।
भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः ॥ ११.२५.१० ॥
看这些妇女各自大声哭泣,环绕着她们的丈夫——科萨拉之主、王子布利哈德巴拉。
11.25.11
अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलेरितान् ।
उद्धरन्त्यसुखाविष्टा मूर्च्छमानाः पुनः पुनः ॥ ११.२५.११ ॥
她们拔出嵌在他身上的箭矢——那是由阿周那的臂力射出的——痛苦不堪,一次又一次地昏厥过去。
11.25.12
आसां सर्वानवद्यानामातपेन परिश्रमात् ।
प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव ॥ ११.२५.१२ ॥
哦,摩陀婆,这些无瑕的妇女们的面容,被烈日与疲惫所侵,宛如凋萎的莲花,依然闪耀。
11.25.13
द्रोणेन निहताः शूरा शेरते रुचिराङ्गदाः ।
धृष्टद्युम्नसुताः सर्वे शिशवो हेममालिनः ॥ ११.२५.१३ ॥
被德罗纳杀死的英雄们佩戴着美丽的臂钏躺卧;德里斯塔德瞿默那所有的儿子,那些佩戴金色花环的幼童。
11.25.14
रथाग्न्यगारं चापार्चिं शरशक्तिगदेन्धनम् ।
द्रोणमासाद्य निर्दग्धाः शलभा इव पावकम् ॥ ११.२५.१४ ॥
靠近德罗纳——战车之火的居所,弓为其焰,箭、矛与棍棒为其薪——他们如飞蛾投入火中一般被焚烧殆尽。
11.25.15
तथैव निहताः शूराः शेरते रुचिराङ्गदाः ।
द्रोणेनाभिमुखाः सङ्ख्ये भ्रातरः पञ्च केकयाः ॥ ११.२५.१५ ॥
同样,被杀的英雄们佩戴着美丽的臂钏躺卧:在战场上正面迎战德罗纳的五位羯迦王族兄弟。
11.25.16
तप्तकाञ्चनवर्माणस्तालध्वजस्थव्रजाः ।
भासयन्ति महीं भासा ज्वलिता इव पावकाः ॥ ११.२५.१६ ॥
身披烧红的黄金甲胄,站立在棕榈旗下的阵列中,他们以光芒照亮大地,如同熊熊燃烧的火焰。
11.25.17
द्रोणेन द्रुपदं सङ्ख्ये पश्य माधव पातितम् ।
महाद्विपमिवारण्ये सिंहेन महता हतम् ॥ ११.२५.१७ ॥
摩陀婆啊,你看德罗纳在战场上击倒的德鲁波陀,如同森林中被一头猛狮杀死的大象。
11.25.18
पाञ्चालराज्ञो विमलं पुण्डरीकाक्ष पाण्डुरम् ।
आतपत्रं समाभाति शरदीव निशाकरः ॥ ११.२५.१८ ॥
莲花眼的人啊,般遮罗王那洁白无瑕的伞盖,犹如秋夜的明月般光辉照耀。
11.25.19
एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः ।
दग्ध्वा गच्छन्ति पाञ्चालराजानमपसव्यतः ॥ ११.२५.१९ ॥
悲痛的儿媳与妻子们焚烧了老德鲁帕达,将般遮罗王置于左侧而离去。
11.25.20
धृष्टकेतुं महात्मानं चेदिपुङ्गवमङ्गनाः ।
द्रोणेन निहतं शूरं हरन्ति हृतचेतसः ॥ ११.२५.२० ॥
神志昏乱的女人们抬走了被德罗纳杀死的英勇高尚的德里什塔克图,他是车底人中的翘楚。
11.25.21
द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन ।
महेष्वासो हतः शेते वज्राहत इव द्रुमः ॥ ११.२५.२१ ॥
摩豆苏陀那啊,他被德罗纳的神箭射中,这位大弓手在激战中被杀,倒卧如被雷击的树。
11.25.22
एष चेदिपतिः शूरो धृष्टकेतुर्महारथः ।
शेते विनिहतः सङ्ख्ये हत्वा शत्रून्सहस्रशः ॥ ११.२५.२२ ॥
这位车底之主、英勇的大车士德里什塔克图,在战场上杀死成千上万的敌人,自己也倒地身亡。
11.25.23
वितुद्यमानं विहगैस्तं भार्याः पर्युपाश्रिताः ।
चेदिराजं हृषीकेश हतं सबलबान्धवम् ॥ ११.२५.२३ ॥
赫里希克什啊,那被飞鸟啄食的车底王,连同军队与亲族一同被杀,他的妻妾们紧紧围绕在他身边。
11.25.24
दाशार्हपुत्रजं वीरं शयानं सत्यविक्रमम् ।
आरोप्याङ्के रुदन्त्येताश्चेदिराज वराङ्गनाः ॥ ११.२५.२४ ॥
车底王啊,这些高贵的女子把那位出自达莎尔诃之子、真正勇敢、躺卧的英雄放在膝上,哭泣不已。
11.25.25
अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम् ।
द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः ॥ ११.२५.२५ ॥
啊,Hṛṣīkeśa!看看他的儿子,面容俊美、耳戴华丽耳环的人,在战斗中被Droṇa的箭矢割得支离破碎。
11.25.26
पितरं नूनमाजिस्थं युध्यमानं परैः सह ।
नाजहात्पितरं वीरमद्यापि मधुसूदन ॥ ११.२५.२६ ॥
父亲确实在战斗中与敌人交战;这位英雄没有舍弃他的父亲,直到今天也没有,啊,Madhusūdana。
11.25.27
एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात् ।
दुर्योधनं महाबाहो लक्ष्मणः परवीरहा ॥ ११.२५.२७ ॥
同样,我儿子的儿子Lakṣmaṇa也跟随了他的父亲Duryodhana,啊,大臂者;他是敌方英雄的杀手。
11.25.28
विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव ।
हिमान्ते पुष्पितौ शालौ मरुता गलिताविव ॥ ११.२५.२८ ॥
Avanti的两位王子Vinda和Anuvinda倒下了——看,Mādhava;就像冬末开花的两棵娑罗树被风吹倒。
11.25.29
काञ्चनाङ्गदवर्माणौ बाणखङ्गधनुर्धरौ ।
ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ ॥ ११.२५.२९ ॥
身披金臂钏与铠甲,手持箭、剑与弓,眼如公牛,佩戴洁净的花环——两人躺在那里。
11.25.30
अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह ।
ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात् ॥ ११.२५.३० ॥
啊,Kṛṣṇa,所有般度之子因与你同在而不可被杀;那些从Droṇa、Bhīṣma、Karṇa、Vikartana之子(Kṛpa)以及Kṛpa手中得以幸免的人。
11.25.31
दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च जयद्रथात् ।
सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः ॥ ११.२५.३१ ॥
来自杜尔约陀那、德罗纳之子、信度王胜车、索摩达多、毗迦尔纳,以及勇士胜甲。
11.25.32
ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः ।
त इमे निहताः सङ्ख्ये पश्य कालस्य पर्ययम् ॥ ११.२५.३२ ॥
这些人中的雄牛,本可以以兵器之力杀死天神,如今却战死沙场。看那时间的逆转吧。
11.25.33
नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन ।
यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः।
शूराश्च कृतविद्याश्च मम पुत्रा मनस्विनः ॥ ११.२५.३३ ॥
摩陀婆啊,对于命运而言,确实没有什么负担太重。这些刹帝利中的雄牛、英雄,被刹帝利杀死了;我那些勇敢、博学、心志高远的儿子们也一样。
11.25.34
तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः ।
यदैवाकृतकामस्त्वमुपप्लाव्यं गतः पुनः ॥ ११.२५.३४ ॥
克里希那啊,正当你愿望未遂、再度返回优帕普拉维耶之时,我那些迅捷勇猛的儿子便被杀死了。
11.25.35
शन्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च ।
तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति ॥ ११.२५.३५ ॥
当时,檀多之子(毗湿摩)与智者毗杜罗也对我说:“不要偏爱你自己的儿子。”
11.25.36
तयोर्हि दर्शनं नैतन्मिथ्या भवितुमर्हति ।
अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन ॥ ११.२५.३६ ॥
那两人的显现不可能是虚假的。遮那达那啊,不久之后,我的儿子们将化为灰烬。
11.25.37
इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोकमूर्च्छिता ।
दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत ॥ ११.२५.३७ ॥
说完这话,甘陀利因悲痛而昏厥,倒在地上。她的心智被悲伤击垮,婆罗多啊,她放弃了坚忍。
11.25.38
ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता ।
जगाद शौरिं दोषेण गान्धारी व्यथितेन्द्रिया ॥ ११.२५.३८ ॥
于是甘陀利身体被愤怒所攫,又被丧子之痛淹没,感官受到折磨,她向首里(黑天)开口,归咎于他。
11.25.39
पाण्डवाः धार्तराष्ट्राश्च क्रुद्धाः कृष्ण परस्परम् ।
उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन ॥ ११.२५.३९ ॥
般度之子与持国之子彼此愤怒。黑天啊,生灵,他们在毁灭之时,你为何忽视了他们?
11.25.40
शक्तेन बहुभृत्येन विपुले तिष्ठता बले ।
उभयत्र समर्थेन श्रुतवाक्येन चैव ह ॥ ११.२५.४० ॥
你力量强大,有众多随从,站在广大的军中,对两方都有能力,言语被人听从——你确实……
11.25.41
इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन ।
यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि ॥ ११.२५.४१ ॥
马杜苏丹啊,你出于自己的意愿忽视了俱卢族的毁灭;因此,大臂者啊,如今就承受你所得的果报吧。
11.25.42
पतिशुश्रूषया यन्मे तपः किञ्चिदुपार्जितम् ।
तेन त्वां दुरवापेन शपे चक्रगदाधरम् ॥ ११.२५.४२ ॥
我凭借侍奉丈夫所积累的一点苦行功德,诅咒你——难以接近的持轮持杖者。
11.25.43
यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः ।
उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि ॥ ११.२५.४३ ॥
因为俱卢与般度子孙互相残杀,而你,哦戈文达,却置之不理,所以你将杀死你自己的亲族。
11.25.44
त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन ।
हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः ॥ ११.२५.४४ ॥
哦摩豆苏陀那,到第三十六年来临时,你也会亲族、大臣、儿子皆被杀,而成为林中的流浪者。
11.25.45
अनाथवदविज्ञातो लोकेष्वनभिलक्षितः ।
कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि ॥ ११.२५.४५ ॥
如同无依无靠者,在诸世间不为人知、不被注意,你将以某种卑劣的手段而死。
11.25.46
तवाप्येवं हतसुता निहतज्ञातिबान्धवाः ।
स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः ॥ ११.२५.४६ ॥
你的妻子们也将如此,儿子与亲族被杀之后,哀哭倒地,如同这些婆罗多的妇女正在倒下一样。
11.25.47
तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः ।
उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव ॥ ११.२५.४७ ॥
广大心的婆苏提婆听了这可怕的话语,微微含笑,对王后甘陀利说道。
11.25.48
जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये ।
दैवादेव विनश्यन्ति वृष्णयो नात्र संशयः ॥ ११.२५.४८ ॥
哦刹帝利女子,我知道你也这样修持了这项苦行;毗瑟尼族必因天命而灭亡,此事毫无疑问。
11.25.49
संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे ।
अवध्यास्ते नरैरन्यैरपि वा देवदानवैः ॥ ११.२५.४९ ॥
吉祥的女子啊,除我之外,没有别人能毁灭维希尼族。他们即使被其他人、神或阿修罗所杀,也是不可杀害的。
11.25.50
परस्परकृतं नाशं यतः प्राप्स्यन्ति यादवाः ।
इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः।
बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते ॥ ११.२५.५० ॥
因为耶达瓦族人将因彼此相残而灭亡。达舍阿尔哈如此说后,般度之子心中惊惧,极为不安,甚至对生命也感到绝望。