摩诃婆罗多 · 章 11.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.6.1
अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ ।
कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर ॥ ११.६.१ ॥
啊!他确实生活在巨大的痛苦与艰难的处境之中。他在那里如何能得到欢乐或满足呢?言者中的最优者啊?
11.6.2
स देशः क्वनु यत्रासौ वसते धर्मसङ्कटे ।
कथं वा स विमुच्येत नरस्तस्मान्महाभयात् ॥ ११.६.२ ॥
那个他身处法的困境而居住的地方究竟在哪里?那人又怎样才能摆脱那巨大的恐惧呢?
11.6.3
एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तदा ।
कृपा मे महती जाता तस्याभ्युद्धरणेन हि ॥ ११.६.३ ॥
请把这一切好好告诉我,然后我们便会为此努力。我心中因救他而生起了巨大的悲悯。
11.6.4
उपाख्यानमिदं राजन्मोक्षविद्भिरुदाहृतम् ।
सुगतिं विन्दते येन परलोकेषु मानवः ॥ ११.६.४ ॥
国王啊,这段故事是由通晓解脱之道的人所讲述的,人借此在他界获得善趣。
11.6.5
उच्यते यत्तु कान्तारं महासंसार एव सः ।
वनं दुर्गं हि यच्चैतत्संसारगहनं हि तत् ॥ ११.६.५ ॥
所谓的荒野,正是那大轮回;而这难以通行的森林,正是轮回的密林。
11.6.6
ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः ॥ ११.६.६ ॥
先前所说的猛兽,在此被宣说为各种疾病。
11.6.7
या सा नारी बृहत्काया अध्यतिष्ठत तत्र वै ।
तामाहुस्तु जरां प्राज्ञा रूपवर्णविनाशिनीम् ॥ ११.६.७ ॥
那个立在那里的大身躯女子,智者称她为老迈(Jarā),是毁坏容颜与肤色的人。
11.6.8
स यस्तु कूपो नृपते स तु देहः शरीरिणाम् ।
यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः।
अन्तकः सर्वभूतानां देहिनां प्राणाहार्यसौ ॥ ११.६.८ ॥
君王啊,那口井就是有身众生的身体。住在其下的大蛇,正是时间(Kāla),是一切众生的终结者,夺取有身众生生命之气的正是他。
11.6.9
कूपमध्ये च या जाता वल्ली यत्र स मानवः ।
प्रोतो ययाऽभवल्लग्नो जीविताशा शरीरिणाम् ॥ ११.६.९ ॥
在井中生长的那根藤蔓,那人攀附并悬挂于其上的,是有身众生的生存希望。
11.6.10
स यस्तु कूपपीनाहे तं वृक्षं परिसर्पति ।
षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः ॥ ११.६.१० ॥
君王啊,在井沿边绕着那棵树爬行的六面象,被称为年(saṃvatsara)。
11.6.11
मुखानि ऋतवो मासाः पादा द्वादशा कीर्तिताः ।
ये तु वृंक्षं निकृन्तन्ति मूषिकाः पन्नगास्तथा ॥ ११.६.११ ॥
它的面孔是四季,它的足被说为十二个月。至于那些啃噬那棵树的老鼠与蛇,也是如此。
11.6.12
रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः ।
ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः ॥ ११.६.१२ ॥
思索众生的智者称它们为昼与夜。那里的蜜蜂,则被说为欲望。
11.6.13
यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम् ।
तांस्तु कामरसान्विन्द्याद्यत्र सज्जन्ति मानवाः ॥ ११.६.१३ ॥
那些多次流出蜂蜜的细流,应当知道是欲望之汁,人们便沉溺其中。
11.6.14
एवं संसारचक्रस्य परिवृत्तिं विदुर्बुधाः ।
येन संसारचक्रस्य पाशांश्छिन्दन्ति सर्वथा ॥ ११.६.१४ ॥
智者如此知晓轮回之轮的转动,借此彻底斩断轮回之轮的系缚。