摩诃婆罗多 · 章 11.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.7.1
अहोऽभिहितमाख्यान भवता तत्त्वदर्शिना ।
भूय एव तु मे हर्षः श्रोतुं वागमृतं तव ॥ ११.७.१ ॥
啊!你这位洞见真理者所讲的故事,我还想再听;你的言语如甘露。
11.7.2
शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम् ।
यच्छ्रुत्वा विप्रमुच्यन्ते संसाराद्वि विचक्षणाः ॥ ११.७.२ ॥
听着!我将再次详述此道路的广度;智者听闻之后,便完全脱离轮回。
11.7.3
यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः ।
क्वचित्क्वचिच्छ्रमस्थानं कुरुते वासमेव वा ॥ ११.७.३ ॥
大王,就如一个人走在漫长的道路上,时而在某处设立歇息之处或住所。
11.7.4
एवं संसारपर्याये गर्भवासेषु भारत ।
कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः ॥ ११.७.४ ॥
如此,婆罗多啊,在世间轮转之中,愚者在胎中安居;智者则在那里获得解脱。
11.7.5
तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः ।
यत्तत्संसारगहनं वनमाहुर्मनीषिणः ॥ ११.७.५ ॥
因此,通晓经典者称此为道路,贤哲则称之为世间轮回的幽深森林。
11.7.6
सोयं लोकसमावर्तो मर्त्यानां भरतर्षभ ।
चराणां स्थावराणां च न गृध्येत्तत्र पाण्डितः ॥ ११.७.६ ॥
婆罗多族之雄啊,这是有死者、动与不动之物所处世界的轮转;智者不应贪求它。
11.7.7
शारीरा मानसाश्चैव मर्त्यानां व्याधयश्च ये ।
प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः ॥ ११.७.७ ॥
凡人身体与心理的疾病,显见与隐伏者,智者称之为毒蛇。
11.7.8
क्लिश्यमानाश्च तैर्नित्यं मार्यमाणाश्च भारत ।
स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः ॥ ११.७.८ ॥
婆罗多啊,虽然人们不断被那些大蛇折磨杀害,因自己的业行,愚昧之人并不惊惧。
11.7.9
अथापि तैर्विमुच्येत व्याधिभिः पुरुषो नृप ।
आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी ॥ ११.७.९ ॥
国王啊,即使人从那些疾病中解脱,之后摧毁容颜的衰老终将笼罩他。
11.7.10
शब्दरूपरसस्पर्शगन्धैश्च विविधैरपि ।
मज्जमानं महापङ्के निरालम्बे समन्ततः ॥ ११.७.१० ॥
在大泥潭中四面无所依托而沉没之人,为声、色、味、触、香以及种种其他事物所困。
11.7.11
संवत्सरर्तवो मासाः पक्षाहोरात्रसन्धयः ।
क्रमेणास्य प्रवृज्जन्ति रूपमायुस्तथैव च ॥ ११.७.११ ॥
岁年与季节、月份、半月,以及昼夜的交接,依次逐渐夺去他的容貌与寿命。
11.7.12
एते कालस्य विधयो नैताञ्जानान्ति दुर्बुधाः ।
धात्राऽभिलिखितान्याहुः सर्वभूतानि कर्मणा ॥ ११.७.१२ ॥
这些是时间的律令,但愚昧之人不知。人们说,一切众生都由造物主依业行而写定。
11.7.13
रथः शरीरं भूतानां सत्वमाहुस्तु सारथिम् ।
इन्द्रियाणि हयानाहुः कर्मबुद्विस्तु रश्मयः ॥ ११.७.१३ ॥
众生的身体是车,心被称为御者。感官被称为马,行动与智慧则是缰绳。
11.7.14
तेषां हयानां यो वेगं धावतामनु धावति ।
सतु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते ॥ ११.७.१४ ॥
追逐那些奔跑之马速度的人,便在这轮回之轮中如车轮般不停旋转。
11.7.15
यस्तान्संयमते बुद्ध्या संयतो न निवर्तते ।
यस्तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते ॥ ११.७.१५ ॥
凭智慧约束它们的人,被约束之后便不再回转。而在这轮回之轮中如车轮般旋转的人——
11.7.16
भ्रममाणा न मुह्यन्ति संसारे न भ्रमन्ति ते ।
संसारे भ्रमतां राजन्दुःखमेतद्धि जायते ॥ ११.७.१६ ॥
虽然流转却不迷惑的人,就不会在轮回中流浪。大王啊,在轮回中流转的人正是因此而生起这种痛苦。
11.7.17
तस्पादस्य निवृत्त्यर्थं यत्नमेवाचरेद्बुधः ।
उपेक्षा नात्र कर्तव्या शतशाखः प्रवर्धते ॥ ११.७.१७ ॥
因此智者应当为摆脱这一切而努力。此处不可疏忽,因为它会长出百根枝条。
11.7.18
यतेन्द्रियो नरो राजन्क्रोधलोभनिराकृतः ।
सन्तुष्टः सत्यवादी यः स शान्तिमधिगच्छति ॥ ११.७.१८ ॥
大王啊,能约束感官、远离愤怒与贪欲、知足而诚实的人,便能获得寂静。
11.7.19
याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः ।
स चैतत्प्राप्नुयाद्राजन्यत्त्वं प्राप्तो नराधिप ॥ ११.७.१९ ॥
此车被称为阎摩之车,愚人因之而迷惑。君王啊,人主啊,他也可以获得你现今所得到的境地。
11.7.20
अनुतर्षुलमेवैतद्दुःखं भवति मारिष ।
राज्यनाशः सुहृन्नाशः सुतनाशश्च भारत।
साधुः परमदुःखानां दुःखभैषज्यमारभेत् ॥ ११.७.२० ॥
尊者啊,这痛苦之后便会引起渴求:王国的丧失、朋友的丧失、儿子的丧失。婆罗多的后裔啊,智者应当着手医治忧患,即治疗极大苦难的良药。
11.7.21
ज्ञानौषधमवाप्येह दूरपारं महौषधम् ।
छिन्द्याद्दुःखमहाव्याधिं नरः संयतमानसः ॥ ११.७.२१ ॥
在此获得知识之药,那广及远方的大良药,心志调伏的人应当斩断忧苦这一大病。
11.7.22
न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः ।
तस्मान्मोचयते दुःखाद्यथात्मा स्थिरनिश्चयः ॥ ११.७.२२ ॥
不靠勇力,不靠财富,不靠朋友,也不靠善意之人;因此,意志坚定的自我方能从忧苦中解脱。
11.7.23
तस्मान्मैत्रं समास्थाय शीलमापदि भारत ।
दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः ॥ ११.७.२३ ॥
因此,婆罗多的后裔啊,在灾难中应当秉持友善与品德。克制、舍离与不放逸,这三者是梵的三匹马。
11.7.24
शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे ।
त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति ॥ ११.७.२४ ॥
坐在以品德之缰驾驭的心念之车上的人,君王啊,舍弃对死亡的恐惧,便往梵界而去。
11.7.25
अभयं सर्वभूतेभ्यो यो ददाति महीपते ।
स गच्छति परं स्थानं विष्णोः पदमनामयम् ॥ ११.७.२५ ॥
地上之主啊,给予一切众生无畏者,便抵达至上之境,毗湿奴那无病无患之位。
11.7.26
न तत्क्रतुसहस्रेण नोपवासैश्च नित्यशः ।
अभयस्य च दानेन यत्फलं प्राप्नुयान्नरः ॥ ११.७.२६ ॥
人因施予无畏所得之果,非千次祭祀,亦非常年斋戒所能得到。
11.7.27
न ह्यात्मनः प्रियतरं किञ्चिद्भूतेषु निश्चितम् ।
अनिष्टं सर्वभूतानां मरणं नाम भारत ॥ ११.७.२७ ॥
婆罗多之子啊,众生之中没有比自身更可爱的东西,死亡是一切众生所不愿的。
11.7.28
तस्मात्सर्वेषु भूतेषु दया कार्या विपश्चिता ॥ ११.७.२८ ॥
因此,智者应当对一切众生怀有慈悲。
11.7.29
नानायोगसमायुक्ता बुद्धिजालेन संवृताः ।
असूक्ष्मदृष्टयो मन्दा भ्राम्यन्ते तत्रतत्र ह।
सुसूक्ष्मदृष्टयो राजन्व्रजन्ति ब्रह्मसाम्यताम् ॥ ११.७.२९ ॥
君王啊,虽然修习各种瑜伽,但被智慧之网所缠、缺乏细微洞察的愚钝者四处流浪;而洞察极为细微者,则得与梵同一之境。
11.7.30
एवं ज्ञात्वा महाप्राज्ञ स तेषामौर्ध्वदैहिकम् ।
कर्तुमर्हति तेनैव फल प्राप्स्यति वै भवान् ॥ ११.७.३० ॥
大智者啊,知此道理,你应为他们举行葬礼;凭此行为,你必定会获得果报。