摩诃婆罗多 · 章 12.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.1.1
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
कृत्वोदकं ते सुहृदां सर्वेषां पाण्डुनन्दनाः ।
विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः ॥ १२.१.१ ॥
向那罗延和人中最勝的那罗、女神萨罗室伐底及毗耶娑致敬之后,应当诵读《胜利》。般度之子们,为你们所有的朋友——毗杜罗、持国以及婆罗多族所有的妇女——奉献水供之后——
12.1.2
तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः ।
शौचं निर्वर्तयिष्यन्तो मासच्चात्रं बहिः पुरात् ॥ १२.१.२ ॥
那些大德的俱卢子孙在城外住了一个月,打算完成净化仪式。
12.1.3
कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम् ।
अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः ॥ १२.१.३ ॥
已行水供的正法心царь 坚战,那些成就者、大德以及最优秀的梵仙前来拜见。
12.1.4
द्वैपायनो नारदश्च देवलश्च महानृषिः ।
देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः ॥ १२.१.४ ॥
毗耶娑(二岛生)、那罗陀、大仙提婆罗、提婆斯塔那与迦那婆,以及他们最优秀的弟子。
12.1.5
अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः ।
गृहस्थाः स्नातकाः सन्तो ददृशुः कुरुसत्तमम् ॥ १२.१.५ ॥
其他精通吠陀的智者、有智慧的再生族、居家者与学成的修士,也都看见了俱卢族中最优秀的人。
12.1.6
तेऽभिगम्य महात्मानं पूजिताश्च यथाविधि ।
आसनेषु महार्हेषु विविशुः परमर्षयः ॥ १२.१.६ ॥
他们走近这位大德,依礼受到敬奉,那些至上的仙人便坐在贵重的座位上。
12.1.7
प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा ।
पर्युपांसन्यथान्यायं परिवार्य युधिष्ठिरम् ॥ १२.१.७ ॥
此时他们接受了与当时相称的敬意,依礼环绕在坚战周围而坐。
12.1.8
पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम् ।
आश्वासयन्तो राजेन्द्रं विप्राः शतसहस्रशः ॥ १२.१.८ ॥
在圣洁的婆吉罗提河岸,成千上万的婆罗门安慰着心神因悲伤而纷乱的王中之王。
12.1.9
नारदस्त्वव्रवीत्काले धर्मपुत्रं युधिष्ठिरम् ।
संभाष्य मुनिभिः सार्धं कृष्णद्वैपायनादिभिः ॥ १२.१.९ ॥
那时,那罗陀在适当的时候对法之子坚战说话,与黑毗耶娑等仙人商议之后。
12.1.10
पार्थस्य बाहुवीर्येण प्रसादान्माधवस्य च ।
जिता सेयं मही कृत्स्ना धर्मेण च युधिष्ठिर ॥ १२.१.१० ॥
凭借阿周那臂膀的威力,以及摩陀婆的恩宠,也凭藉正法,这整个大地已被征服,坚战啊。
12.1.11
दिष्ट्या मुक्ताः स्थ संग्रामादस्माल्लोकभयंकरात् ।
क्षत्रधर्मरतश्चासि कच्चिन्मोदसि पाण्डव ॥ १२.१.११ ॥
幸而你们从这场令世界恐惧的战争中解脱了。坚守刹帝利之法的般度之子啊,你是否欢喜?
12.1.12
कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप ।
कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते ॥ १२.१.१२ ॥
国王啊,你是否已杀死敌人、使朋友欢喜?既已得到这份繁荣,忧伤是否仍不曾压迫你?
12.1.13
विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात् ।
ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च ॥ १२.१.१३ ॥
依靠黑天的臂力,凭借婆罗门的恩惠,以及毗摩和阿周那的力量,这整个大地已被征服。
12.1.14
इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा ।
कृत्वा ज्ञातिक्षयमिमं महान्तं घोरदर्शनम् ॥ १२.१.१४ ॥
然而,我心中始终萦绕着这份巨大的痛苦——因为造成了这场骇人可怖的亲族大毁灭。
12.1.15
सौभद्रं द्रौपदेयांश्च घातयित्वा सुतान्प्रियान् ।
जयोऽयमजयाकारो भगवन्प्रतिभाति मे ॥ १२.१.१५ ॥
尊者啊,使苏跋陀罗之子、德罗波蒂之子以及我的爱子被杀之后,这胜利在我看来犹如失败。
12.1.16
किंनु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम् ।
द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम् ॥ १२.१.१६ ॥
住在德瓦拉卡的我那位出身毗瑞尼族的儿媳,将会对已经离去的摩图苏陀那黑天说些什么呢?
12.1.17
द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा ।
अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम् ॥ १२.१.१७ ॥
德罗波蒂这个可怜的女人,儿子被杀,亲族被杀,一心为我们所爱之人的福祉而操劳,似乎又在折磨我。
12.1.18
इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद ।
मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः ॥ १२.१.१८ ॥
尊贵的那罗陀啊,我还要告诉您另一件事:因为守住了一个秘密,我被昆提的悲痛所束缚。
12.1.19
यः स नागायुतप्राणो लोकेऽप्रतिरथो रणे ।
सिंहविक्रान्तगामी च जितकाशी यतव्रतः ॥ १२.१.१९ ॥
他拥有万头大象的生命力,在世间战斗中无人能与其匹敌的战车武士,行走如狮子般威猛,在迦尸获胜,誓言坚定。
12.1.20
आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः ।
अमर्षी नित्यसंरम्भी क्षेप्ताऽस्माकं रणेरणे ॥ १२.१.२० ॥
他是持国之子的依靠,骄傲,勇武锋利,不能忍受侮辱,常怀激烈的斗志,在每一场战斗中都对我们加以讥讽。
12.1.21
शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः ।
गूढोत्पन्नः सुतः कुन्त्या भ्राताऽस्माकमसौ किल ॥ १२.१.२१ ॥
他善使快速的箭矢,是奇异的战士,技艺精湛,勇武非凡;是秘密生下的贡蒂之子,他确实是我们的兄弟。
12.1.22
तोयकर्मणि तं कुन्ती कथयामास मे तदा ।
पुत्रं सर्वगुणोयेतं कर्णं त्यक्तं जले पुरा ॥ १२.१.२२ ॥
在水祭之时,贡蒂那时向我讲述了他——那位具备一切美德的儿子迦尔纳,他很久以前被抛弃在水中。
12.1.23
मञ्जूषायां समाधाय गङ्गास्रोतस्यमज्जयत् ।
यं सूतपुत्रं लोकोऽयं राधेयं चाभ्यमन्यत ॥ १२.१.२३ ॥
她把他放进箱子里,让他沉入恒河的水流;这个世界却认为他是御者之子、罗陀之子。
12.1.24
स सूर्यपुत्रः कुन्त्या यै भ्राताऽस्माकं च मातृतः ।
अजानता मया सड्ख्ये राज्यलुब्धेन घातितः।
तन्मे दहति गात्राणि तूलराशिमिवानलः ॥ १२.१.२४ ॥
他是太阳之子,贡蒂之子,是我们的兄弟,也是同母的兄弟;我因贪恋王国,在不知情的情况下,致使他在战斗中被杀。这烧灼着我的肢体,就像火焰烧毁一堆棉花。
12.1.25
न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः ।
नाहं न भीमो न यमौ स त्वस्मान्वेद तत्वतः ॥ १२.१.२५ ॥
即使白马之主般遮那(阿周那)也不认识那位兄长;我、怖军,以及那对孪生兄弟也不认识。但他确实了解我们。
12.1.26
गता किल पृथा तस्य सकाशमिति नः श्चुतम् ।
अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ ॥ १२.१.२६ ॥
我们听说普利塔(贡蒂)曾去见他,为我们求和,并说:“你也是我的儿子。”
12.1.27
पृथाया न कृतः कामस्तेन चापि महात्मना ।
अतीवानुचितं मातरवोच इति सोऽब्रवीत् ॥ १२.१.२७ ॥
那位大德也没有满足普利塔的愿望,他说:“母亲,您说的话极不恰当。”
12.1.28
न हि शक्ष्यामि संत्यक्तुमहं दुर्योधनं रणे ।
अनार्यत्वं नृशंसत्वं कृतघ्नत्वं च मे भवेत् ॥ १२.१.२८ ॥
在战场上我无法抛弃难敌;否则我将变得卑贱、残忍且忘恩负义。
12.1.29
युधिष्ठिरेण सन्धिं हि यदि कुर्यां मते तव ।
भीतो रणे श्वेतवाहादिति मां मंस्यते जनः ॥ १२.१.२९ ॥
若依你的意见我与坚战讲和,人们会认为我这白马之主在战场上怯懦了。
12.1.30
सोऽहं निर्जित्य समरे विजयं सहकेशवम् ।
संधास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत् ॥ १२.१.३० ॥
他说:“我将在战场上与克舍婆一同获胜,之后再与法子(坚战)讲和。”
12.1.31
तमवोचत्किल पृथा पुनः पृथुलवक्षसम् ।
चतुर्णामभयं देहि कामं युध्यस्व फल्गुनम् ॥ १२.१.३१ ॥
普利塔再次对那宽胸者说:赐予四人无畏;之后,你便与法尔古那随意交战吧。
12.1.32
सोऽब्रवीन्मातरं धीमान्वेपमानां कृताञ्जलिः ।
प्राप्तान्विषह्यांश्चतुरो न हनिष्यामि ते सुतान् ॥ १२.१.३२ ॥
那位智者合掌对颤抖的母亲说:你来到的四个儿子,能够承受的,我不会杀死。
12.1.33
पञ्चैव हि सुता देवि भविष्यन्ति तव ध्रुवाः ।
सार्जुना वा हते कर्णे सकर्णा वा हतेऽर्जुने ॥ १२.१.३३ ॥
女神啊,你必定会有五个儿子:若迦尔纳被杀,则有阿周那在内;若阿周那被杀,则有迦尔纳在内。
12.1.34
तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत् ।
भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि ॥ १२.१.३४ ॥
于是渴望儿子的母亲又对那个儿子说:你所希望其安好的兄弟们,就为他们谋求安好吧。
12.1.35
एवमुक्त्वा किल पृथा विसृज्योपययौ गृहान् ।
सोऽर्जुनेन हतो वीरो भ्रात्रा भ्राता सहोदरः ॥ १२.१.३५ ॥
普利塔说完这些,便遣他离去,回家去了。那位英雄,同母的兄弟,被阿周那所杀——死于自己兄弟之手。
12.1.36
न चैव निःसृतो मन्त्रः पृथायास्तस्य वा मुने ।
अथ शूरो महेष्वासः पार्थेनाजौ निपातितः ॥ १२.१.३६ ॥
哦,贤者啊,普利塔或他的秘密并未泄露。随后,那位英雄、大弓箭手,在战斗中被普利塔之子击倒。
12.1.37
अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम ।
पूर्वजं भ्रातरं कर्णं पृथाया वचनात्प्रभो ॥ १२.१.३७ ॥
最优秀的再生者啊,我后来从普利塔(贡蒂)的话中得知,迦尔纳是我同母的长兄。主啊!
12.1.38
तेन मे दूयते तीव्रं हृदयं भ्रातृघातिनः ।
कर्णार्जुनसहायोऽहं जयेयमपि वासवम् ॥ १२.१.३८ ॥
因此我的心深受煎熬——因那杀害兄弟的人。若有迦尔纳与阿周那为助,我甚至能战胜因陀罗。
12.1.39
सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः ।
सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति ॥ १२.१.३९ ॥
当我在大会上被持国的恶毒诸子折磨时突然升起的愤怒,一见迦尔纳便平息了。
12.1.40
यदा ह्यस्य गिरो रूक्षाः श्रृणोमि कटुकोदयाः ।
सभायां गदतो द्यूते दुर्योधनहितैषिणः ॥ १२.१.४० ॥
当我听到他在赌局时于大会上说出的严厉而苦涩的话语——他是希望难敌得利之人——
12.1.41
तदा नश्यति मे रोषः पादौ तस्य निरीक्ष्य ह ।
कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम ॥ १२.१.४१ ॥
那时,看到他的双足,我的愤怒便消失了;因为我认为迦尔纳的双足与贡蒂的双足相似。
12.1.42
सादृश्यहेतुमन्विच्छन्पृथायास्तस्य चैव ह ।
कारणं नाधिगच्छामि कथंचिदपि चिन्तयन् ॥ १२.१.४२ ॥
我寻找普利塔与他之间相似的原因,反复思索,却无论如何也找不到其缘由。
12.1.43
कथं नु तस्य संग्रामे पृथिवी चक्रमग्रसत् ।
कथं नु शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि ॥ १२.१.४३ ॥
在那场战斗中,大地怎样吞没了他的车轮?我的兄弟又是如何被诅咒的?您应当在此讲述其中的真相。
12.1.44
श्रोतुमिच्छामि भगवंस्त्वत्तः सर्वं यथातथम् ।
भवान्हि सर्वविद्विद्वाँल्लोके वेद कृताकृतम् ॥ १२.१.४४ ॥
尊者啊,我愿从您这里原原本本地听到一切。您是全知的智者,您知晓世间已做与未做之事。