Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.100

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.100.1

यथा जयार्थिनः सेनां नयन्ति भरतर्षभ ।
ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह ॥ १२.१००.१ ॥

那些求胜的人,即使稍稍违背法度,也如何统率军队——请告诉我,祖父,婆罗多族的雄牛。

12.100.2

सन्त्येव हि स्थिता धर्म उपपत्त्या तथा परे ।
साध्वाचारतया केचित्तथैवौपयिकादपि ॥ १२.१००.२ ॥

确实,还有其他依道理而立的法,有些依善行而立,也有些依权宜之计而立。

12.100.3

उपायधर्मान्वक्ष्यामि संसिद्धानर्थसिद्धये ।
निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः ॥ १२.१००.३ ॥

我将讲述为成就目的而确立的权宜之法,因为无法无天的盗贼和敌对的阻碍者会出现。

12.100.4

तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम् ।
कार्याणां संप्रसिद्ध्यर्थं तानुपायान्निबोध मे ॥ १२.१००.४ ॥

为了对付他们,我现在讲述“那伽摩”(城邦之道);请从我这里学习那些完成事务的方法。

12.100.5

उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत ।
जानन्वक्रां न सेवेत प्रतिबाधेत चागताम् ॥ १२.१००.५ ॥

婆罗多啊,两种智慧都应当知道:正直的与曲折的。知道曲折的,就不应追随它;当它来临时,应当加以阻止。

12.100.6

अमित्रा एव राजानं भेदेनोपचरन्त्युत ।
तां राजा विकृतिं जानन्यथाऽमित्रान्प्रबाधते ॥ १२.१००.६ ॥

敌人确实以离间之术接近国王;国王知道这种歪曲之后,便压制他的敌人。

12.100.7

गजानां पार्थ वर्माणि गोवृषाजगराणि च ।
शल्यकण्टकलोहानि तनुत्राणि मतानि च ॥ १२.१००.७ ॥

普利塔之子啊,象的铠甲以牛皮、公牛皮和蟒皮制成;带有刺和铁刺的护覆物也被认为是适宜的。

12.100.8

शातपीतानि शस्त्राणि सन्नाहाः पीतलोहकाः ।
नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ह ॥ १२.१००.८ ॥

武器应明亮而呈黄色;铠甲应为黄色和铁色,以各种颜料染成红色;旗帜与幡旗也当如此。

12.100.9

ऋष्टयस्तोमराः खङ्गा निशिताश्च परश्वथाः ।
फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः ॥ १२.१००.९ ॥

长矛、短矛、剑、锋利的战斧,以及盾牌和皮盾——这些都应多方预备。

12.100.10

अभिनीतानि शस्त्राणि योधाश्च कृतनिश्चयाः ।
चैत्रे वा मार्गशीर्षे वा सेनायोगः प्रशस्यते ॥ १२.१००.१० ॥

武器应训练有素,战士应意志坚定;在吉特拉月或马迦希薇莎月集结军队,被视为值得称赞。

12.100.11

पक्वसस्या हि पृथिवी भवत्यम्बुमती तदा ।
नैवातिशीतो नात्युष्णः कालो भवति भारत ॥ १२.१००.११ ॥

那时大地充满成熟的庄稼,水源丰沛;婆罗多的后裔啊,那时的季节既不太冷,也不太热。

12.100.12

तस्मात्तदा योजयेत परेषां व्यसनेऽथवा ।
एते हि योगाः सेनायाः प्रशस्ताः परबाधने ॥ १२.१००.१२ ॥

因此,应在敌人陷入困境时投入军队;这正是军队用来压迫敌人的值得称赞的时机。

12.100.13

जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते ।
चारैः सुविदिताभ्यासः कुशलैर्वनगोचरैः ॥ १२.१००.१३ ॥

有水有草、平坦可行的道路受到称赞;为探子所熟知、为善于在林中行走的熟练之人所习惯的道路。

12.100.14

न ह्यरण्यानि शक्यन्ते गन्तुं मृगगणैरिव ।
तस्मात्सेनासु तानेव योजयन्ति जयार्थिनः ॥ १२.१००.१४ ॥

军队不能像鹿群那样轻易穿行于森林之中;因此求胜之人便在军中任用这样的人。

12.100.15

अग्रतः पुरुषानीकं शक्तं चापि कुलोद्भवम् ।
आवासस्तोयवान्मार्गः पर्याकाशः प्रशस्यते ॥ १२.१००.१५ ॥

前锋应由能干且出身高贵之人组成;有水的营地、有水的道路以及四周开阔之地,都是值得称赞的。

12.100.16

पोषामपसर्पाणां प्रतिघातस्तथा भवेत् ।
आकाशं हि वनाभ्याशे मन्यन्ते गुणवत्तरम् ॥ १२.१००.१६ ॥

对于撤退者也应同样予以反击;人们认为靠近森林的开阔之地要有利得多。

12.100.17

बहुभिर्गुणजातैश्च ये युद्धकुशला जनाः ।
उपन्यासो भवेत्तत्र बलानां नातिदूरतः ॥ १२.१००.१७ ॥

精通战事、具备诸多才能之人,应在那里布置军队,但不可离得太远。

12.100.18

उपन्यासोऽपसर्पाणां पदातीनां च गूहनम् ।
हतशत्रुप्रतीघातमापदर्थं परायणम् ॥ १२.१००.१८ ॥

布置撤退者、隐藏步兵、击退已被杀死的敌人,这些是危难之时的依靠。

12.100.19

सप्तर्पीन्पृष्ठतः कृत्वा युध्येयुरचला इव ।
अनेन विधिना शत्रूञ्जिगीषेतापि दुर्जयान् ॥ १२.१००.१९ ॥

将七位仙人置于身后,让他们如不动的山岳般作战。依此方法,即使是难以战胜的敌人也应当希望战胜。

12.100.20

यतो वायुर्यतः सूर्यो यतः सोमस्ततो जयः ।
पूर्वंपूर्वं ज्याय एषां सन्निपाते युधिष्ठिर ॥ १२.१००.२० ॥

风从何方吹来,太阳在何处,月亮在何处,胜利便从那里来。युधिष्ठिर啊,在交战之中,这些之中较先者更为优越。

12.100.21

अकर्द -मनुदकाममर्यादामलोष्टकाम् ।
अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः ॥ १२.१००.२१ ॥

精通战争的人赞美适合马匹的场地,没有泥泞、水、边界阻碍和土块。

12.100.22

समा निरुदकाकाशा रथभूमिः प्रशस्यते ।
नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम् ॥ १२.१००.२२ ॥

平坦、无水、天空开阔的地面被称赞适合战车。对于象兵而言,有矮树、大灌木丛和水源的地面为佳。

12.100.23

बहुदुर्गा महाकक्षा वेणुवेत्रतिरस्कृता ।
पदातीनां क्षमा भूमिः पर्वतोपवनानि च ॥ १२.१००.२३ ॥

多有要塞、大灌木丛、覆盖着竹子和藤条的地面适合步兵,山地和园林也是如此。

12.100.24

पदातिबहुला सेना दृढा भवति भारत ।
रथाश्वबहुला सेना सुदिनेषु प्रशस्यते ॥ १२.१००.२४ ॥

婆罗多啊,步兵众多的军队便坚固。战车与马匹众多的军队在吉日受到称赞。

12.100.25

पदातिनागबहुला प्रावृट्काले प्रशस्यते ।
गुणानेतान्प्रसंख्याय देशकालौ प्रयोजयेत् ॥ १२.१००.२५ ॥

步兵和象兵众多的军队在雨季受到称赞。充分考虑这些优点之后,应当适时选择地点与时机加以运用。

12.100.26

एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः ।
विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन् ॥ १२.१००.२६ ॥

如此思量之后,尊敬月日与星宿而出行,并妥善部署军队的人,必能永远获胜。

12.100.27

प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत् ।
मोक्षे प्रयाणे चलने पानभोजनकालयोः।
अतिक्षिप्तान्व्यतिक्षिप्तान्निहतान्प्रतनूकृतान् ॥ १२.१००.२७ ॥

不应攻击熟睡、口渴、疲惫或散乱之人,也不应在休息、行军、移动、饮食之时攻击。对于已大败溃散、被杀或被削弱之人,亦不应攻击。

12.100.28

अविस्रब्धान्कृतारम्भानुपन्यासात्प्रतापितान् ।
बहिश्वरानुपन्यासान्कृतवेश्मानुसारिणः ॥ १२.१००.२८ ॥

疏忽大意者、已着手行动者、被袭扰而困苦者、在外游荡者、靠近而来者、一直跟随到住所者。

12.100.29

पारम्पर्यागते द्वारे ये केचिदनुवर्तिनः ।
परिचर्यापरोद्धारो ये च केचन वल्गिनः ॥ १२.१००.२९ ॥

凡世代相传而来到门下的随从,致力于侍奉与守卫者,以及一些敏捷的勇士。

12.100.30

अनीकं ये विभिदन्ति भिन्नं संस्थापयन्ति च ।
समानाशनपानास्ते कार्या द्विगुणवेतनाः ॥ १२.१००.३० ॥

那些冲破军阵的人、重整被冲散之军的人,以及同食共饮的人,应当给予双倍的报酬。

12.100.31

जातिगोत्रं च विज्ञाय कर्म चानुत्तमं शुभम् ।
समानदेहरक्षार्थे कार्या द्विगुणवेतनाः।
त्रिगुणं चतुर्गुणं चैव वेतनं तेषु कारयेत् ॥ १२.१००.३१ ॥

在了解他们的种姓、族系与最高的良好品行之后,应为保护同等身体者支付双倍报酬;其中也可支付三倍或四倍的报酬。

12.100.32

दशाधिपतयः कार्याः शताधिपतयस्तथा ।
ततः सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम् ॥ १२.१००.३२ ॥

应设立十人之长,同样也设立百人之长;然后应任命一位勇敢、不知疲倦的人为千人之长。

12.100.33

यथा मुख्यान्सन्निपात्य वक्तव्याः संशयामहे ।
यथा जयार्थं संग्रामे न जह्याम परस्परम् ॥ १२.१००.३३ ॥

召集主要人物后,应对他们说我们正在犹豫,以免为了战场上的胜利而彼此抛弃。

12.100.34

इहैव ते निवर्तन्तां ये च केचन भीरवः ।
न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति ॥ १२.१००.३४ ॥

凡是胆小的人,就在此地返回吧;不要在混乱中造成溃败,使他人遭到杀害。

12.100.35

न सन्निपाते प्रदरं वधं वा कुर्युरीदृशाः ।
आत्मानं च स्वपक्षं च पालयन्हन्ति संयुगे ॥ १२.१००.३५ ॥

这样的人在冲突中不应造成溃败或杀戮;在战斗中保护自己和己方而出击的人,才是真正站立的人。

12.100.36

अर्थनाशो वधोऽकीर्तिरयशश्च पलायने ।
अमनोज्ञाऽसुखा वाचः पुरुषस्य पलायतः ॥ १२.१००.३६ ॥

逃跑会导致财富损失、死亡、恶名与耻辱;逃跑之人必须听到令人厌恶、痛苦的话语。

12.100.37

प्रतिध्वस्तोष्ठदन्तस्य न्यस्तसर्वायुधस्य च ।
हित्वा पलायमानस्य सहायान्प्राणसंशये।
अमित्रैरवरुद्धस्य द्विषतामस्तु नः सदा ॥ १२.१००.३७ ॥

愿这样的境地永远落在我们的敌人身上,而不要落在我们身上:嘴唇与牙齿被打碎、放下了全部武器、在生死关头抛下同伴而逃、被敌人包围的人。

12.100.38

मनुष्यापसदा ह्येते ये भवन्ति पराङ्भुखाः ।
राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह ॥ १२.१००.३८ ॥

背转身逃跑的人是人中的卑劣者;他们只是增加尸堆而已——死后不得,今生也一无所得。

12.100.39

अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम् ।
जयिनस्तु नरास्तात मङ्गलैर्वन्दनेन च ॥ १२.१००.३९ ॥

敌人心中欢喜,迎向逃跑的人;但孩子啊,胜利的人则以吉祥之语和赞颂迎接。

12.100.40

यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः ।
तदसह्यतरं दुःखं मन्यन्ते मरणादपि ॥ १२.१००.४० ॥

君王啊,仇敌以你的困厄为乐,那种痛苦,人们认为比死亡还难以忍受。

12.100.41

श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च ।
या भीरूणां पराख्यातिः शूरस्तामधिगच्छति ॥ १२.१००.४१ ॥

应知吉祥乃法与一切幸福之根本;怯懦者所遭的恶名,英雄反而得之。

12.100.42

ते वयं स्वर्गमिच्छन्तः संग्रामे त्यक्तजीविताः ।
जयन्तो वध्यमाना वा प्राप्नुयाम च सद्गतिम् ॥ १२.१००.४२ ॥

我们渴望天界,在战场上舍弃生命而战;无论获胜还是战死,愿我们都得到善趣。

12.100.43

एवं संशप्तशपथाः समभित्यक्तजीविताः ।
अमित्रवाहिनीं वीराः प्रतिगाहन्त्यभीरवः ॥ १२.१००.४३ ॥

如此,发下誓言并舍弃生命的无畏勇士,冲入敌军之中。

12.100.44

अग्रतः पुरुषाऽनीकमसिचर्मवतां भवेत् ।
पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा ॥ १२.१००.४४ ॥

前方应是持剑执盾的士卒之阵,后方是车辆之阵,中间则是妻子。

12.100.45

परेषां प्रतिघातार्थं पदातीनां च गूहनम् ।
अपि तस्मिन्पुरे वृद्धा भवेयुर्ये पुरोगमाः ॥ १२.१००.४५ ॥

为了反击敌人,也应当保护步兵;在那座城中,那些走在前面的长者也应留下。

12.100.46

ये पुरस्तादभिमताः सत्ववन्तो मनस्विनः ।
ते पूर्वमभिवर्तेरंश्चैतानेवेतरे जनाः ॥ १२.१००.४६ ॥

那些站在前面、受人敬重、坚毅而有远见的人应先前进;其他人则应追随他们。

12.100.47

अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः ।
स्कन्धदर्शनमात्रात्तु तिष्ठेयुर्वा समीपतः ॥ १२.१००.४७ ॥

此外,也应当努力激励怯懦的人,使他们仅仅看见(同伴的)肩膀,便留在附近。

12.100.48

संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ।
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ॥ १२.१००.४८ ॥

少数之兵应当集结作战,多数之兵则可按需要展开。当少数与多数交战时,阵形应为针尖形阵。

12.100.49

संप्रयुक्ते निकृष्टे वा सत्यं वा यदि वाऽनृतम् ।
प्रगृह्य बाहून्क्रोशेत हन्त भग्नाः परे इति ॥ १२.१००.४९ ॥

当双方近身交战时,无论真假,他应举臂高呼:“哎呀!敌人已经溃散了!”

12.100.50

आगतं मे मित्रबलं प्रहरध्वमभीतवत् ।
सत्ववन्तो निधावेयुः कुर्वन्तो भैरवान्रवान् ॥ १२.१००.५० ॥

“我方盟友的大军已经到达,无所畏惧地进攻吧!”勇敢者应发出可怖的呼喊,向前冲去。

12.100.51

क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः ।
भेरीमृदङ्गपणवान्नादयेयुश्च जर्झरान् ॥ १२.१००.५१ ॥

让吼声、“吉拉吉拉”的呼喊、刺耳的摩擦声、牛角号、大鼓(bherī)、鼓(mṛdaṅga)和小鼓(paṇava)都响起来,连铃铛(jharjhara)也要响起。