摩诃婆罗多 · 章 12.101
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.101.1
किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत ।
किंसन्नाहाः कथंशस्त्रा जनाः स्युः संयुगे नृपाः ॥ १२.१०१.१ ॥
婆罗多之后啊,战场上的国王与人民,性情如何、出身如何、容貌如何?披何种铠甲,持何种兵器?
12.101.2
यथाचरितमेवात्र शस्त्रं पत्रं विधीयते ।
आचाराद्धीह पुरुषस्तथा कर्मसु वर्तते ॥ १२.१०१.२ ॥
此处兵器与箭矢依行为而定,因为在此世间,人依其行为而投身于那些事业。
12.101.3
गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः ।
अभीरवः सुबलिनस्तद्वलं सर्वपारगम् ॥ १२.१०१.३ ॥
犍陀罗、信度与娑维罗,以爪与枪矛作战的战士;阿比罗,极为强壮;那支军队在一切方面都是完备的。
12.101.4
सर्वशस्त्रेषु कुशलाः सत्ववन्तो ह्युशीनराः ।
प्राच्या मातङ्गयुद्धेषु कुशलाः कूटयोधिनः ॥ १२.१०१.४ ॥
乌尸那罗精通一切兵器,且富有勇气;东方之人精于象战,也有善于诡计作战的战士。
12.101.5
तथा यवनकाम्भोजा मधुरामभितश्च ये ।
एतेऽश्वयुद्धकुशला दाक्षिणात्याऽसिचर्मिणः।
सर्वत्र शूरा जायन्ते महासत्वा महाबलाः ॥ १२.१०१.५ ॥
同样,耶婆那与憍萨罗人,以及居于摩图罗四周的人们,精于骑兵作战;南方之人持剑与盾。英雄处处而生,具大勇与大力。
12.101.6
आवन्तिका महाशूराश्चतुरङ्गे च मालवाः ।
एकोऽपि हि सहस्रस्य तिष्ठत्यभिमुखो रणे ॥ १२.१०१.६ ॥
阿凡提之人极为勇猛,四军之中的摩罗婆人亦然;战场上,即便一人也能迎面抵挡千人。
12.101.7
प्रायो देशाः समुद्दिष्टा लक्षणानि तु मे शृणु ॥ १२.१०१.७ ॥
诸地大体已经说过;现在请听我说它们的特征。
12.101.8
सिंहशार्दूलवाङ्गेत्राः सिंहशार्दूलगामिनः ।
पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः। ॥ १२.१०१.८ ॥
眼睛与声音如狮虎,行走如狮虎,眼睛如鸽类者——他们都是英雄,勇猛无比。
12.101.9
मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथा परे ।
प्रमाथिनश्च मन्द्राश्च क्रोधनाः किङ्किणीस्वनाः ॥ १२.१०१.९ ॥
有的声如鹿,眼如豹,眼如牛;其他人勇猛,声音低沉,易怒,声音如铃铛。
12.101.10
मेघस्वनाः क्रूरमुखाः केचिच्च कलनिस्वनाः ।
जिह्मनासाग्रजिह्वाश्च दूरगा दूरपातिनः ॥ १२.१०१.१० ॥
有的声如雷鸣,面目凶恶,有的声音柔和低鸣;他们鼻子歪斜,舌尖;能远行,也能远坠。
12.101.11
बिडालकुब्जाः स्तब्धाक्षास्तनुकेशास्तनुत्वचः ।
शीघ्राश्चपलचित्ताश्च ते भवन्ति दुरासदाः ॥ १२.१०१.११ ॥
他们像猫一样驼背,眼神凝滞,头发稀薄,皮肤薄;他们迅捷而心思善变,难以接近。
12.101.12
गौरा निमीलिताः केचिन्मृदुप्रकृतयस्तथा ।
तुरङ्गगतिनिर्घोषास्ते नराः पारयिष्णवः ॥ १२.१०१.१२ ॥
有的肤色白皙,眼半闭,性情温和;声音如马蹄之步;那些人能够渡过(困难)。
12.101.13
सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः ।
प्रवादितेषु कुप्यन्ति हृष्यन्ति कलद्देषु च ॥ १२.१०१.१३ ॥
他们紧密集结,胸膛宽阔,阵列整齐;战鼓响起时便怒气勃发,听到卡拉达鼓声便欢欣鼓舞。
12.101.14
गम्भीराक्षा निसृष्टाक्षाः पिङ्गाक्षा भ्रुकुटीमुखाः ।
नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः ॥ १२.१०१.१४ ॥
眼神深沉、目光直视、眼睛发黄、眉头紧蹙,眼如獴鼠——他们都是英雄,随时准备舍弃身躯。
12.101.15
जिह्नाक्षाः प्रललाटाश्च निर्मांसहनवोऽव्यथाः ।
वक्रबाह्वङ्गुलीसक्थाः कृशा धमनिसंतताः ॥ १२.१०१.१५ ॥
眼如舌头,额头宽阔,颌骨无肉,无所畏惧;手臂、手指与大腿皆弯曲;身形消瘦,青筋凸起。
12.101.16
प्रविशन्ति च वेगेन सांपराये ह्युपस्थिते ।
वारणा इव संमत्तास्ते भवन्ति दुरासदाः ॥ १२.१०१.१६ ॥
战事来临之际,他们疾速冲入;如同发狂的象群,变得难以抵挡。
12.101.17
दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः ।
उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः ॥ १२.१०१.१७ ॥
发梢燃烧般且分叉,两胁粗壮,颌骨沉重,肩膀高耸,脖颈宽阔,形貌狰狞,小腿粗壮。
12.101.18
उद्बन्धा इव सुग्रीवा विनताविहगा इव ।
पिण्डशीर्षातिवक्राश्च पृषदंशमुखास्तथा ॥ १२.१०१.१८ ॥
如被吊之人,颈项优美;如低垂之鸟,头部圆实而极为歪斜,面容似斑鹿。
12.101.19
अग्रस्वरा मन्युमन्तो युद्धेष्वारावसारिणः ।
अधर्मज्ञाऽवलिप्ताश्च घोरा रौद्रप्रदर्शनाः ॥ १२.१०१.१९ ॥
他们走在前面高声呼喊,满怀愤怒,在战斗中怒吼前行,不知法义,傲慢,凶猛可怖,显露狰狞之相。
12.101.20
त्यक्तात्मानः सर्व एते उदग्रा ह्यनिवर्तिनः ।
पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते ॥ १२.१०१.२० ॥
这些人都已舍弃性命,勇猛而从不退缩。军中应当常将他们置于前列;他们被杀,也杀人。
12.101.21
अधार्मिका भिन्नवृत्ताः सान्त्वेनैषां पराभवः ।
एवमेव प्रदूष्यन्ते राज्ञोऽप्येते ह्यभीक्ष्णशः ॥ १२.१०१.२१ ॥
他们不守法度,行为败坏;以安抚之法,方可使其败亡。同样,他们也会一再败坏君王。