Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.103

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.103.1

कथं मृदौ कथं तीक्ष्णे महापक्षे च भारत ।
अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह ॥ १२.१०३.१ ॥

婆罗多之子啊,国王在有强大助力时,对敌人应当如何对待,是温和还是严厉?祖父啊,请告诉我。

12.103.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ॥ १२.१०३.२ ॥

此事之中,人们也讲述这古老的传说:布利哈斯帕蒂与因陀罗的对话,俱卢子啊。

12.103.3

बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः ।
उपसंगम्य पप्रच्छ वासवः परवीरहा ॥ १२.१०३.३ ॥

诸神之主、杀敌英雄的伐娑婆(因陀罗)向布利哈斯帕蒂行礼,合掌上前问道。

12.103.4

अहितेषु कथं ब्रह्मन्प्रवर्तेयमतन्द्रितः ।
असमुछिद्य चैवैतान्नियच्छेयमुपायतः ॥ १२.१०३.४ ॥

婆罗门啊,我应当如何不懈怠地对待敌人?又如何以权谋制服他们,而不必将其连根拔除?

12.103.5

सेनयोर्थ्यतिषङ्गे च जयः साधारणो भवेत् ।
किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी ॥ १२.१०३.५ ॥

两军为利而争,胜负若成共享,我当如何行事,方能使光辉而威猛的吉祥女神不离我而去?

12.103.6

ततो र्मार्थकामानां कुशलः प्रतिभानवान् ।
राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम् ॥ १२.१०३.६ ॥

于是那位通晓利与欲、机敏善辩、熟知王法的人,回答了布兰达罗(因陀罗)。

12.103.7

न जा कलहेनेच्छेन्नियन्तुमपकारिणः ।
बालैर सवितं ह्येतद्यदमर्षो यदक्षमा ॥ १२.१०३.७ ॥

不可因争吵而欲制伏加害于人者;此事即使孩童也难以忍受——愤怒与不能容忍,正是如此。

12.103.8

न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता ॥ १२.१०३.८ ॥

欲置其于死地者,不可使敌人暴露。

12.103.9

क्रोधं भयं च हर्षं च नियम्य स्वयमात्मनि ।
अमित्र पसेवेत विश्वस्तवदविश्वसन् ॥ १२.१०३.९ ॥

自己克制内心的愤怒、恐惧与喜悦,侍奉敌人如同信任者,却并不真正信任。

12.103.10

प्रियमेव वदेन्नित्यं नाप्रियं किंचिदाचरेत् ।
विरमेच्छुष्कवैरेभ्यः कर्णजापं च वर्जयेत् ॥ १२.१०३.१० ॥

应当常说悦耳之言,不做令人不快之事;远离无谓的仇怨,并戒除附耳私语。

12.103.11

यथा वैतंसिको युक्तो द्विजानां सदृशस्वरः ।
तान्द्विजान्कुरुते वश्यांस्तथायुक्तो महीपतिः।
वशं चोपनयेच्छत्रून्निहन्याच्च पुंरदर ॥ १२.१०३.११ ॥

犹如善于诱捕的猎人,以与再生者相似的声音,将那些再生者收服;同样,尽职的君王应当使敌人降服并将其诛杀,哦,补兰陀罗。

12.103.12

न नित्यं परिभूयारीन्सुखं स्वपिति वासव ।
जागर्त्येव हि दुष्टात्मा संकरेऽग्निरिवोत्थितः ॥ १२.१०३.१२ ॥

征服敌人之后不应总是安然入睡,哦,婆薮;因为心怀恶意者始终醒着,如同在混乱中升起的火焰。

12.103.13

न सन्निपातः कर्तव्यः सामान्ये विजये सति ।
विश्वास्यैवोपसंनम्यो वशे कृत्वा रिपुः प्रभो ॥ १२.१०३.१३ ॥

在取得普通胜利之后,不应与敌人直接交锋。主啊,应当先取得他的信任,使其受控,然后谦恭地前去接近他。

12.103.14

संप्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः ।
उपेक्ष्यमाणो विज्ञातो हृदयेनापराजितः।
अथास्य प्रहरेत्काले विधेर्वित्तलितो यदा ॥ १२.१०३.१४ ॥

与精通谋略的大德和大臣充分商议之后,应在恰当时机打击那个被忽视、其心意已被了解、内心却不可征服的敌人,待命运使他动摇之时。

12.103.15

दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः ॥ १२.१०३.१५ ॥

并应通过可靠的心腹使其军队也遭到腐蚀。

12.103.16

आदिमध्यावसानज्ञान्प्रच्छन्नं च विचारयेत् ।
बलानि दूषयेदस्य जानन्नेव प्रमाणतः ॥ १२.१०३.१६ ॥

应当秘密派遣通晓始末的人去调查,并且只有确切掌握其力量之后,才去瓦解它们。

12.103.17

भेदेनोपप्रदानेन संसृजेदौषधैस्तथा ।
न त्वेव खलु संसर्गं रोचयेदरिभिः सह ॥ १२.१०३.१७ ॥

应以离间、赠礼以及类似的良方来与人结交;但绝不可乐于与敌人真正交往。

12.103.18

दीर्घकालमपीक्षेत्त निग्राह्या एव शत्रवः ।
कालकाङ्गी च युक्तः सन्नुपासीत शचीपते ॥ १२.१०३.१८ ॥

即使长久也应观察敌人,因为敌人确实应当被制服;渴望恰当时机并保持克制,啊,舍遮之主,应当等待它。

12.103.19

तथा प्रियं च वक्तव्यं यथा विस्रम्भमाप्नुयात् ।
न सद्योऽरीन्विहन्याच्च द्रष्टव्यो विजयो ध्रुवः।
भूयः शल्यं घटयति नवं च कुरुते व्रणम् ॥ १२.१०३.१९ ॥

同样,应以和悦之言相待,以赢得信任。不可立即歼灭敌人,应当看到胜利是确定的。(急躁)会再次扎入荆刺,造成新的伤口。

12.103.20

प्राप्ते च प्रहरेत्काले न च संवर्तते पुनः ।
हन्तुकामस्य देवेन्द्र पुरुषस्य रिपून्प्रति ॥ १२.१०३.२० ॥

时机到来时便应出击;时机一过,便不会再回来。天帝啊,想要杀灭敌人的人应当如此行事。

12.103.21

यं हि कालो व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम् ।
दुर्लभः स पुनस्तेन कालः कर्म चिकीर्षता ॥ १२.१०३.२१ ॥

若时机从等待时机的人身边流逝,那么这时机便难以再得;想要行事的人,它也不会再来。

12.103.22

औजस्यं जनयेदेव संगृह्णन्साधुसंमतम् ।
कालेन साधयेत्कृत्यमप्राप्तो न हि पीडयेत् ॥ १२.१०३.२२ ॥

应获取善人所认可的力量(ojas),并使之生长。应在适当的时机完成事情;未到的时机,不应以急躁去逼迫。

12.103.23

विहाय कामं क्रोधं च तथाऽहंकारमेव च ।
युक्तो विवरमन्विच्छेदहितानां सदा नृपः ॥ १२.१०३.२३ ॥

君王应舍弃欲望、愤怒,以及同样的傲慢,保持警觉,常常寻找敌人的破绽。

12.103.24

मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम ।
मायाः सुविहिताः शक्र शातयन्त्यविचक्षणम् ॥ १२.१०३.२४ ॥

诸天之最啊,柔和、刑罚、懈怠与疏忽——帝释啊——巧妙运用的诡计会摧毁愚昧之人。

12.103.25

निहत्यैतानि चत्वारि मायां प्रतिविधाय च ।
ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन् ॥ १२.१०३.२५ ॥

消除这四者并应对诡计之后,他便能不加思虑地攻击敌人。

12.103.26

यदेवैतेन शक्येत गुह्यं कर्तुं तदाऽऽचरेत् ।
यच्छन्ति सतिवा गुह्यं मिथो विश्रावयन्त्यपि ॥ १२.१०३.२६ ॥

凡可借此秘密完成之事,便应当去做;有些人即便在场,也会相互泄露秘密。

12.103.27

अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत् ।
ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम् ॥ १२.१०३.२७ ॥

认为此事不可行,或者那时,应与他人结盟;对未见之敌用梵杖,对可见之敌用四军。

12.103.28

भेदं च प्रथमं विद्यात्तूष्णीं दण्डं तथैव च ।
काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदातदा ॥ १२.१०३.२८ ॥

首先应知分化,同样也应知无声的惩罚;国王应在适当的时机、每种情况、每次时机运用它们。

12.103.29

प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः ।
युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः ॥ १२.१०३.२९ ॥

在恰当的时机,面对更强大的敌人应当表示屈服;保持警觉与决心,应寻求那疏忽者的灭亡。

12.103.30

प्रणिपातेन दानेन वाचा मधुरया ब्रुवन् ।
अमित्रमुपसेवेत न च जातु विशङ्कयेत् ॥ १२.१०३.३० ॥

以恭顺、赠礼和甜美的言辞相待,应侍奉敌人,且绝不可加以怀疑。

12.103.31

स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत् ।
न च तेष्वाश्वसेद्राजा जाग्रतीह निराकृताः ॥ १२.१०३.३१ ॥

君王应当始终避开受怀疑者的所在,不可信任他们;在此保持警觉,应当提防那些已被驱逐的人。

12.103.32

न ह्यतो दुष्करं कर्म किंचिदस्ति सुरोत्तम ।
यथा विविधवृत्तानामैश्वर्यममराधिप ॥ १२.१०३.३२ ॥

诸天之上者啊,没有比这更难的事了,犹如让行为各异之人获得权势,不死者之主啊。

12.103.33

तथा विविधशीलानामपि संभव उच्यते ।
प्रयतेद्योगमास्थाय मित्रामित्रानधारयन् ॥ १२.१०३.३३ ॥

同样,据说具有各种性情的人也能成功;应当借助权谋而努力,同时留意朋友与敌人。

12.103.34

मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः ।
मातीक्ष्णो मा मृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव ॥ १२.१०३.३४ ॥

人们轻视温和之人,又惧怕严厉之人;不要过于严厉,也不要过于温和;既要严厉,也要温和。

12.103.35

यथा वप्रे वेगवति सर्वतः संप्लतोदके ।
नित्यं विचरणाद्वाधस्तथा राज्यं प्रमाद्यतः ॥ १२.१०३.३५ ॥

正如水流湍急、四面泛滥之时,若常在堤岸上徘徊便会受害;疏忽的君王,其国也会受害。

12.103.36

न बहूनुपरुध्येत यौगपद्येन शात्रवान् ।
साम्ना दानेन भेदेन दण्डेन च पुरंदर ॥ १२.१०३.३६ ॥

不应同时围困众多敌人;啊,城池的摧毁者,应以安抚、赠予、离间、刑罚(逐一地)制服他们。

12.103.37

एकैकमेषां निष्पिष्य शिष्टेषु निपुणं चरेत् ।
न तु शक्तोऽपि मेधावी सर्वानेवाचरेद्बुधः ॥ १२.१०३.३७ ॥

逐一击破其中之人,再巧妙对待其余者;即使有能力,智者也不应同时对付所有人。

12.103.38

यदा स्यान्महती सेना हयनागरथाकुला ।
पदातियन्त्रबहुला अनुरक्ता षडङ्गिनी ॥ १२.१०३.३८ ॥

当有一支庞大的军队,充满战马、战象和战车,步兵与战具众多,忠诚,并具备六支之军时。

12.103.39

यदा बहुविधां वृद्धिं मन्येत प्रतियोगतः ।
तदा विवृत्य प्रहरेद्दस्यूनामविचारयन् ॥ १२.१०३.३९ ॥

当认为对抗带来多方面的增长时,便应公开出动,不加思量地打击盗贼。

12.103.40

न साम दण्डोपनिषत्प्रशस्यते ।
न मार्दवं शत्रुषु यात्रिकं सदा।
न सस्यघातो न च संकरक्रिया ।
न चापि भूयः प्रकृतेर्विचारणा ॥ १२.१०३.४० ॥

和与罚的秘诀不值得称赞;对敌人始终温和不适合出征;既不毁坏庄稼,也不混杂行事,也不再顾虑百姓。

12.103.41

मायाविभेदानुपसर्जनानि ।
वाचं तथैव प्रथमं प्रयोगात्।
आप्तैर्मनुष्यैरुपचारयेत ।
पुरेषु राष्ट्रेषु च संप्रयुक्तान् ॥ १२.१०३.४१ ॥

诡计、离间与辅助之术;同样,先用言辞;由可信之人使那些派驻于城市与国土的人为己所用。

12.103.42

पुराऽपि चैताननुसृत्य भूमिपाः ।
पुरेषु भोगानखिलाञ्जयन्ति
पुरेषु नीतिं विहितां यथाविधि ।
प्रयोजयन्तो बलवृत्रसूदन ॥ १२.१०३.४२ ॥

往昔诸王遵循此道,便征服城市的一切享乐,依规则在城中施行所定之政;啊,斩伐强大弗栗多者!

12.103.43

प्रदाय गूढानि वसूनि नाम ।
प्रच्छिद्य भोगानपहाय च स्वान्।
दुष्टाः स्वदोषैरिति कीर्तयित्वा ।
पुरेषु राष्ट्रेषु च योजयन्ति ॥ १२.१०३.४३ ॥

以隐藏的财富施予,点名之后,断绝或夺去他们自己的享受,并宣称这些恶人因自己的过错而如此,他们便在城市与国家中安插(间谍)。

12.103.44

तथैव चान्यैरपि शास्त्रवेदिभिः ।
स्वलंकृतैः शास्त्रविधानलिङ्गितैः।
सुशिक्षितैर्भाष्यकथाविशारदैः ।
परेषु कृत्यामुपधारयेच्च ॥ १२.१०३.४४ ॥

同样,也应由其他精通论典、装饰得体、具有论典规定标记、训练有素、擅长言谈与注解的人,在敌人之中确定其任务。

12.103.45

कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम ।
कथं दुष्टं विजानीयादेतत्पुष्टो ब्रवीहि मे ॥ १२.१०३.४५ ॥

恶人有哪些特征,最好的再生者啊?应当如何识别恶人?请告诉我,博学者啊。

12.103.46

परोक्षमगुणानाह सद्रुणानभ्यसूयति ।
परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्भुखः ॥ १२.१०३.४६ ॥

背后谈论别人的过失,嫉妒善德,当他人被赞扬时,他沉默地坐着并背过脸去。

12.103.47

तूष्णींभावेऽपि विज्ञेयं न चेद्भवति कारणम् ।
विश्वासं चोष्ठसंदंशं शिरसश्च प्रकम्पनम् ॥ १२.१०३.४७ ॥

即使沉默,若无缘由,也应当识别:不信任、咬嘴唇、摇头。

12.103.48

करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते ।
अदृष्टवद्विकुरुते दृष्ट्वा वा नाभिभाषते ॥ १२.१०३.४८ ॥

他时常与某人亲近,却对不亲近者说话;表现得像没有看见,或看见了却不搭话。

12.103.49

पृथगेत्य समश्नाति नेदमद्य यथाविधि ।
आसने शयने याने भावा लक्ष्या विशेषतः ॥ १२.१०३.४९ ॥

若他独自前来进食,今日又不依礼而行,则应特别留意他在坐卧与行路时的心态。

12.103.50

आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम् ।
विपरीतं तु बोद्धव्यमरिलक्षणमेव तत् ॥ १२.१०३.५० ॥

见受苦者而同悲,见所爱者而同乐——这便是朋友的标志;与此相反者,应知为仇敌的标志。

12.103.51

एतान्येव यथोक्तानि बुध्येथास्त्रिदशाधिप ।
पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः ॥ १२.१०३.५१ ॥

天神之主啊,按所说的那样去识别这些迹象;品性败坏之人的本性极为强烈。

12.103.52

इति दुष्टस्य विज्ञानमुक्तं ते सुतसत्तम ।
निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वरः ॥ १२.१०३.५२ ॥

最好的儿子啊,辨识恶人的这种知识已对你说明;天神之主依法听闻论典的真义,并且领会了它。

12.103.53

स तद्वचः शत्रुनिबर्हणे रत ।
स्तथा चकारावितथं बृहस्पतेः।
चचार काले विजयाय चारिहा ।
वशं च शत्रूननयत्पुरंदरः ॥ १२.१०३.५३ ॥

他热衷于歼灭敌人,确实照着brihaspati的话去做;杀敌者补罗陀罗(因陀罗)在适当的时机为胜利而行动,使敌人臣服。