摩诃婆罗多 · 章 12.109
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.109.1
कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत ।
तत्त्वं जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥ १२.१०९.१ ॥
婆罗多之后啊,欲在法中坚定立足的人应当如何行事?婆罗多族中的雄牛啊,请向求知者阐明其真谛。
12.109.2
सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः ।
तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः ॥ १२.१०९.२ ॥
真与假二者都笼罩着世界而立。国王啊,于法坚定的人应当奉行二者中的哪一个?
12.109.3
किंस्वित्सत्यं किमनृतं किंस्विद्धर्म्यं सनातनम् ।
कस्मिन्काले वदेत्सत्यं कस्मिन्वाऽप्यनृतं वदेत् ॥ १२.१०९.३ ॥
什么是真,什么是假,什么是永恒而合法的?何时应当说真话,何时应当说假话?
12.109.4
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् ।
यत्तु लोके सुदुर्ज्ञेयं तत्ते वक्ष्यामि भारत ॥ १२.१०९.४ ॥
真实的言语是善的;没有比真实更高的了。但世间极难知晓的事,婆罗多啊,我将告诉你。
12.109.5
भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत् ।
यत्रानृतं भवेत्सत्यं सत्यं वाऽप्यनृतं भवेत् ॥ १२.१०९.५ ॥
真实的事情未必可说,而虚假的事情却可以说。当虚假变成真实,或真实也变成虚假之时——
12.109.6
तादृशो वर्धते पापो यत्र सत्यमनिश्चितम् ।
सत्यानृते विनिश्चित्य ततो भवति धर्मवि ॥ १२.१०९.६ ॥
真相不明之处,这样的罪恶便会增长。只有辨明真伪之后,人才能成为通晓法的人。
12.109.7
अप्यनार्योऽकृतप्रज्ञः पुरुषोऽप्यतिदारुणः ।
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥ १२.१०९.७ ॥
即使是不高尚、无智慧、极其残酷的人,也能获得极大的福德,如同白鹭因杀死盲人而得到的那样。
12.109.8
किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित् ।
सुमहत्प्राप्नुयात्पुण्यं गङ्गायामिव कौशिकः ॥ १२.१०९.८ ॥
一个愚昧之人虽渴望正法却不知非法,在恒河中像憍尸迦那样获得极大福德,有何可惊异的?
12.109.9
तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्विदः ।
दुष्कारं चापि संख्यातुं तर्केणात्र व्यवस्यति ॥ १२.१०९.९ ॥
这样的问题,正法极难知晓;在此,即使以推理来确定甚至列举都很困难。
12.109.10
प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् ।
यः स्यात्प्रभवसंयुक्तः स धर्म इति निश्चयः ॥ १२.१०९.१० ॥
正法的教导是为了众生的兴盛而设;与兴盛相连者即是正法,这便是定论。
12.109.11
अहिंसा सत्यमक्रोधस्तपो दानं दमो मतिः ।
अनसूयाऽप्यसामर्थ्यमनीर्ष्या शीलमेव च ॥ १२.१०९.११ ॥
不害、真实、无怒、苦行、布施、自制、智慧、不嫉妒、无能(克制)、不妒忌,以及良好的品行。
12.109.12
एष धर्मः कुरुश्रेष्ठ कथितं परमेष्ठिना ।
ब्रह्मणा देवदेवेन अयं चैव सनातनः ॥ १२.१०९.१२ ॥
诸俱卢中最优秀者啊,此法是至尊者,神中之神梵天所宣说的;而且它是永恒的。
12.109.13
अस्मिन्धर्मे स्थितो राजन्नरो भद्राणि पश्यति ।
श्रौतो वधात्मको धर्म अहिंसापरमार्थिकः ॥ १२.१०९.१३ ॥
君王啊,安住于此法的人能见到吉祥。吠陀所示之法具有杀伐的性质,但其究竟意义是不害(非暴力)。
12.109.14
धारणाद्धर्ममित्याहुर्धर्मेण विधृताः प्रजाः ।
यः स्याद्धारणसंयुक्तः स धर्म इति निश्चः ॥ १२.१०९.१४ ॥
因为能够承持,故称之为法;众生由法而得承持。凡具承持之性者即是法,此为定论。
12.109.15
अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम् ।
यः स्यादहिंसासंयुक्तः स धर्म इति निश्चयः ॥ १२.१०९.१५ ॥
法的教导是为了众生的不害而设。凡具不害之性者即是法,此为定论。
12.109.16
श्रुतिं धर्मं वदन्त्यन्ये मानान्याहुः परे जनाः ।
न च तं स्वभ्यसूयामो न हि सर्वं विधीयते ॥ १२.१०९.१६ ॥
有人说天启(śruti)即是法,另有人称引权威(māna)。我们不非议他们,因为并非一切都有规定。
12.109.17
येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित् ।
तेभ्यस्तु न तदाख्येयं स धर्म इति निश्चयः ॥ १२.१०९.१७ ॥
对于那些想以不义手段夺取财富而有所追求的人,不应告诉他们此事。这就是法,此为定论。
12.109.18
अकूजनेन चेन्मोक्षो नावकूजेत्कथंचन ।
अवश्यं कूजितव्यं वा शङ्केरन्वाऽप्यकूजनात् ॥ १२.१०९.१८ ॥
若不言即可得解脱,则无论如何都不应开口;但必须说话,否则因沉默也可能招致怀疑。
12.109.19
येऽन्ये वाऽप्यनृतं कुर्युः कुर्यादेव विचारणम् ।
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् ॥ १२.१०९.१९ ॥
即使他人行欺诈,也应当深思。已经考虑过:在这种情况下,说假话比说真话更好。
12.109.20
अक्षयाद्यो वधं राजन्कुर्यादेवाविचारयन् ।
अबुध्वाऽनुशये दोषं श्रेयस्तच्चानृतं भवेत् ॥ १२.१०९.२० ॥
国王啊,若有人不加思考地杀害阿克沙耶,便在事后的懊悔中因不知而蒙受过失;那时,那个谎言反而更好。
12.109.21
न स्तेनः सह संबन्धान्मुच्यते शपथादपि ।
श्रेयस्तत्रानृतं वक्तुं सत्यादिति हि धारणा ॥ १२.१०९.२१ ॥
盗贼不会因与他人的关系,甚至不会因誓言而获得解脱。在那里,说谎比说真话更好,这是确定的看法。
12.109.22
यः पापैः सह संबन्धान्मुच्यते शपथादपि ।
न च तेभ्यो धनं दद्याच्छक्ये सति कथंचन।
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ॥ १२.१०९.२२ ॥
因与恶人的关系或甚至因誓言而得以解脱的人,在可能的情况下,决不应以任何方式给他们财富。给予恶人的财富甚至会折磨施予者。
12.109.23
स्वशरीरोपरोधेन धनमादातुमिच्छतः ।
सत्यसंप्रतिपत्त्यर्थं यद्ब्रूयुः साक्षिणः क्वचित्।
अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः ॥ १२.१०९.२३ ॥
对于想以伤害自己身体来获取财富的人,证人为了确立真相而有时所说的话,如果在那里不说应当说的话,那么他们都是说谎者。
12.109.24
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् ।
अर्थस्य रक्षणार्थाय परेषां धर्मकारणात् ॥ १२.१०९.२४ ॥
在危及生命和婚姻之时,或许必须说谎——也为了保护财富,以及为了他人的法。
12.109.25
परेषां सिद्धिमाकाङ्क्षन्न च स्याद्धर्मभिक्षुकः ।
प्रतिश्रुत्य न दातव्यं श्वः कार्यस्तु बलात्कृतः ॥ १२.१०९.२५ ॥
即使希望他人成功,也不应成为法的乞丐。许诺之后,不应说“明天再给”;但被强迫所做的事,必须去做。
12.109.26
यः कश्चिद्धर्मसमयात्प्रच्युतो धर्मजीवनः ।
दण्डेनैव स हन्तव्यस्तं पन्थानं समाश्रितः ॥ १२.१०९.२६ ॥
凡是背离法的常轨、借法为生的人,都应以刑罚处死,因为他已经走上了那条路。
12.109.27
च्युतः सदैव धर्मेभ्यो धनवान्धर्ममाश्रितः ।
कथं स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम् ॥ १२.१०९.२७ ॥
一个富人,常常背离职责,虽依靠法,又有谁会舍弃自己的本分,去依靠他而生活呢?
12.109.28
सर्वोपायैर्नियन्तव्यः पापो निकृतिजीवनः ।
धनमित्येव पापानां सर्वेषामिह निश्चयः ॥ १२.१०९.२८ ॥
以欺诈为生的罪人,应当以一切手段加以制止。此处所有罪人的定见是:财富才是他们的唯一目标。
12.109.29
अविवाह्या ह्यसंभोज्या निकृत्या निरयं गताः ।
च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते।
निर्यज्ञास्तपसा हीना मा स्म तैः सह संगमः ॥ १२.१०९.२९ ॥
因欺诈,他们不配通婚,也不配共食;他们已堕入地狱。他们脱离了神与人,如同亡灵。没有祭祀、缺乏苦行的他们,你不要与之结合。
12.109.30
धनादानाद्दुःखतरं जीविता धिक्प्रयोजनम् ।
इदं ते रोचतां धर्म इति वाच्यं प्रयत्नतः ॥ १२.१०९.३० ॥
比接受财物更痛苦的,是没有目的的人生;对这样的人生应当羞耻。这法应当小心地说出,愿它为你所喜。
12.109.31
न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः ।
तथाविधं च यो हन्यान्न स पापेन लिप्यते ॥ १२.१०९.३१ ॥
对于罪人没有法,这是确定的结论。杀了这样的人的人,不会被罪所玷污。
12.109.32
स्वकर्मणा हतं हन्ति हत एव स हन्यते ।
तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु ॥ १२.१०९.३२ ॥
杀死已因自身行为而被杀者的人,自己也如同已被杀。若有人与那些心智已毁之人立约……
12.109.33
यथा काकास्तथैव श्वा तथैवोपधिजीवनः ।
ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु ॥ १२.१०९.३३ ॥
如乌鸦一般,狗也一样,以欺诈谋生者亦然。离开身体之后,他们便投生于这些胎中。
12.109.34
यस्मिन्यथा वर्तति यो मनुष्य ।
स्तस्मिंस्तथा वर्तितव्यं स धर्मः।
मायाचारो मायया बाधितव्यः ।
साध्वाचारः साधुनैवाभ्युपेयः ॥ १२.१०९.३४ ॥
人对待他人如何,便应当如何对待他;这就是法。行欺诈者应以欺诈制止,行善者应以善来亲近。