Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.111

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.111.1

असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शिनः ।
ईदृशान्पुरुषांस्तात कथं विद्यामहे वयम् ॥ १२.१११.१ ॥

不善之人以善良的面貌出现,善良之人却显得不善。父亲啊,我们如何能认识这样的人?

12.111.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर ॥ १२.१११.२ ॥

关于此事,人们也讲述这个古老的故事:老虎与豺狼的对话。坚战啊,你要听好。

12.111.3

पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः ।
परहिंसारुचिः क्रूरो बभूव पुरुषाधमः ॥ १२.१११.३ ॥

很久以前,在繁荣的普里卡城,有一位名叫鲍里科的国王,他喜欢伤害他人,残忍而卑劣。

12.111.4

स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम् ।
गोमायुत्वं च सम्प्राप्तो दूषितः पूर्वकर्मणा ॥ १२.१११.४ ॥

当他的寿命耗尽时,他走向了不愿的归宿,因前世之业所污,堕为豺狼。

12.111.5

संस्मृत्य पूर्वजातिं स निर्वेदं परमं गतः ।
न भक्षयति मांसानि परैरुपहृतान्यपि ॥ १२.१११.५ ॥

他想起前世之生,便达到了至高的厌离,不再吃别人送来的肉。

12.111.6

अहिंस्रः सर्वभूतेषु सत्यवाक्सुदृढव्रतः ।
चकार च यथाकाममाहारं पतितैः फलैः ॥ १२.१११.६ ॥

他对一切众生不加伤害,言语真实,誓愿坚定,随心所欲地以落下的果实为食。

12.111.7

श्मशाने तस्य चावासो गोमायोः संमतोऽभवत् ।
जन्मभूम्यनुरोधाच्च नान्यद्वासमरोचयत् ॥ १२.१११.७ ॥

他的住所在火葬场,那正是豺狼所喜爱之处。因眷恋出生之地,他不愿选择别处居住。

12.111.8

तस्य शौचममृष्यन्तः सर्वे ते सहजातयः ।
चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः ॥ १२.१११.८ ॥

他的同胞兄弟们无法容忍他的清净,便以谦恭却尖锐的言辞,试图动摇他的心志。

12.111.9

वसन्पितृवने रौद्रे शौचं लप्सितुमिच्छसि ।
इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः ॥ १२.१११.९ ॥

你住在可怖的祖先林中,却想获得清净。这是你的迷惑,因为你是食肉之徒。

12.111.10

तत्समो वा भवास्माभिर्भक्ष्यान्दास्यामहे वयम् ।
भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते ॥ १२.१११.१० ॥

你若与我们一样,我们便给你食物。舍弃清净而食吧,已吃下的,才真正属于你。

12.111.11

इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः ।
मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः ॥ १२.१११.११ ॥

他听到这些话后,心志安定,以温和、谦逊、有理有据而不生硬的言辞作答。

12.111.12

अप्रमाणं प्रसूतिर्मे शीलतः क्रियते कुलम् ।
प्रार्थयिष्ये तु तत्कर्म येन विस्तीर्यते यशः ॥ १२.१११.१२ ॥

我的出身并不能作为证明;家族要靠品行来成就。我将追求那能使名声广为传扬的行为。

12.111.13

श्मशाने यदि वासो मे समाधिर्मे निशाम्यताम् ।
आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम् ॥ १२.१११.१३ ॥

即使我住在火葬场,也请考虑我的三摩地。自我结出行为的果实;生活阶段并非法的标志。

12.111.14

आश्रमे यो द्विजं हन्याद्गां वा दद्यादनाश्रमे ।
किं नु तत्पातकं न स्यात्तद्वा दत्तं वृथा भवेत् ॥ १२.१११.१४ ॥

在修行处杀害再生者,或在修行处外布施牛——那岂不是罪过,或所施之物岂不徒劳?

12.111.15

भवन्तः सर्वलोभेन केवलं भक्षणे रताः ।
अनुबन्धे तु ये दोषास्तान्न पश्यन्ति मोहिताः ॥ १२.१११.१५ ॥

你们都因贪婪,只沉溺于饮食;而其后果的过失,你们因迷惑而不见。

12.111.16

अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम् ।
इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये ॥ १२.१११.१६ ॥

由不信而生,应受谴责,因失财而沾污,今生来世皆为不善——因此我不赞许这样的生计。

12.111.17

तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः ।
कृत्वात्मसदृशां पूजां साचिव्येऽवर्धयत्स्वयम् ॥ १२.१११.१७ ॥

他认为此人清净而有智,那位以勇武闻名的猛虎亲自以同自己相等的礼遇尊敬他,并将他提升为大臣之职。

12.111.18

सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह ।
व्रियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः ॥ १२.१११.१८ ॥

温和者啊,你的品性已被了解;随我同行出征吧。你所想要的享乐,尽可选择,并尽情享用。

12.111.19

तीक्ष्णा वयमिति ख्याता भवतो ज्ञापयामहे ।
मृदुपूर्वं घातिनस्ते श्रेयश्चाधिगमिष्यति ॥ १२.१११.१९ ॥

我们以“锐利者”著称,特此告知阁下。先以温和,后对施击者,福祉将会到来。

12.111.20

अथ सम्पूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः ।
गोमायुः प्रश्रितं वाक्यं बभाषे किञ्चिदानतः ॥ १२.१११.२० ॥

于是,шакал尊重那位大德的兽王之言,低首恭敬地说了几句话。

12.111.21

सदृशं मृगराजैतत्तव वाक्यं मदन्तरे ।
यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन् ॥ १२.१११.२१ ॥

兽王啊,你在我面前说的这番话很恰当:你所寻求的是精通法与利、清净的辅佐之人。

12.111.22

न शक्यमनमात्येन महत्त्वमनुशासितुम् ।
दुष्टामात्येन वा वीर शरीरपरिपन्थिना ॥ १२.१११.२२ ॥

没有大臣便无法统治尊荣,或者有作恶的大臣,勇士啊,他们会危害身体。

12.111.23

सहायाननुरक्तांस्तु यतेतानुपसंहितान् ।
परस्परमसङ्घुष्टान्विजिगीषूनलोलुपान् ॥ १२.१११.२३ ॥

只应努力争取那些忠诚、团结、彼此不争、渴望胜利且无贪欲的辅佐者。

12.111.24

तानतीतोपधान्प्राज्ञान्हिते युक्तान्मनस्विनः ।
पूजयेथा महाभागान्यथाचार्यान्यथा पितॄन् ॥ १२.१११.२४ ॥

那些经受考验的智者、专注于福祉、心志高尚、大福的人,你应当像尊敬师长和先祖那样尊敬他们。

12.111.25

न त्वेवं मम सन्तोषाद्रोचतेऽन्यन्मृगाधिप ।
न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम् ॥ १२.१११.२५ ॥

但我因知足,别无所悦,兽王啊。我不求安乐与享受,也不求依附于你的权势。

12.111.26

न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः ।
ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे ॥ १२.१११.२६ ॥

我的性情与你的旧臣不相契合。那些性情苦涩之人,会在我与你之间挑拨离间。

12.111.27

संश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम् ।
कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः ॥ १२.१११.२७ ॥

即使在其他光明者之中,你的庇护也值得称赞。你自制、大有福德,即使对作恶者也不残酷。

12.111.28

दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः ।
कृती चामोघकर्तासि भाव्यैश्च समलङ्कृतः ॥ १२.१११.२८ ॥

你深谋远虑,极具干劲,志向宏大,大有威力,才能出众,所行之事从不落空,并以美德为饰。

12.111.29

किं तु स्वेनास्मि सन्तुष्टो दुःखा वृत्तिरनुष्ठिता ।
सेवायाश्चापि नाभिज्ञः स्वच्छन्देन वनेचरः ॥ १२.१११.२९ ॥

然而我安于自己的处境。我选择了艰苦的生计,也不懂得侍奉之道;我是出于自愿、在林中游荡的人。

12.111.30

राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम् ।
वनचर्या च निःसङ्गा निर्भया निरवग्रहा ॥ १२.१११.३० ॥

国王责难的种种过失,都属于依附他人而居者;而林中的生活无所执着、无所畏惧、不受拘束。

12.111.31

नृपेणाहूयमानस्य यत्तिष्ठति भयं हृदि ।
न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम् ॥ १२.१११.३१ ॥

被国王召唤之人心中所存的恐惧,不会存在于在森林中满足地以根与果为食的人心中。

12.111.32

पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् ।
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ १२.१११.३२ ॥

不费力得来的水,或伴随更多恐惧的美味食物——我反复思量,见到的幸福在于安宁所在之处。

12.111.33

अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः ।
उपघातैर्यथा भृत्या दूषिता निधनं गताः ॥ १२.१११.३३ ॥

国王因过错所惩罚的仆役并不如此之多;而因种种迫害而败坏、走向死亡的仆役则更多。

12.111.34

यदि त्वेतन्मया कार्यं मृगेन्द्रो यदि मन्यते ।
समयं कृतमिच्छामि वर्तितव्यं यथा मयि ॥ १२.१११.३४ ॥

若我必须这样做,而百兽之王也同意,我希望订立一个约定,并且你对我应当如何行事,便如何行事。

12.111.35

मदीया माननीयास्ते श्रोतव्यं च हितं वचः ।
कल्पिता या च ते वृत्तिः सा भवेत्तव सुस्थिरा ॥ १२.१११.३५ ॥

我的人对你来说值得尊敬,他们有益的话语应当倾听;为你所安排的生计,愿它对你十分稳固。

12.111.36

न मन्त्रयेयमन्यैस्ते सचिवैः सह कर्हिचित् ।
नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि ॥ १२.१११.३६ ॥

我绝不该与你的其他大臣共商谋略;愿那些精通政事、追求自身利益的人,徒然地对我妄加议论。

12.111.37

एक एकेन सङ्गम्य रहो ब्रूयां हितं तव ।
न च ते ज्ञातिकार्येषु प्रष्टव्योऽहं हिताहिते ॥ १२.१११.३७ ॥

我将逐一与人相见,私下告诉你于你有益的事;至于你族人的事务,你不必问我何为有益、何为有害。

12.111.38

मया संमन्त्र्य पश्चाच्च न हिंस्याः सचिवास्त्वया ।
मदीयानां च कुपितो मा त्वं दण्डं निपातयेः ॥ १२.१११.३८ ॥

即使与我商议之后,你也不要伤害你的大臣;对我的人发怒时,也不要施加刑罚。

12.111.39

एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः ।
प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रयोनितः ॥ १२.१११.३९ ॥

那狮王说:'就这样吧',并敬重他。出身于虎胎的那只豺狼,于是获得了谋臣之位。

12.111.40

तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि ।
प्राद्विषन्कृतसङ्घाताः पूर्वभृत्या मुहुर्मुहुः ॥ १२.१११.४० ॥

看到他如此受尊敬并被委以政务,昔日的仆人们结成一伙,一次又一次地嫉恨他。

12.111.41

मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च ।
दोषेषु समतां नेतुमैच्छन्नशुभबुद्धयः ॥ १२.१११.४१ ॥

他们以友善之心安抚那只豺狼,并将他引入内部,怀着恶意的人想让他在过失上也与自己一样。

12.111.42

अन्यथा ह्युचिताः पूर्वं परद्रव्यापहारिणः ।
अशक्ताः किञ्चिदादातुं द्रव्यं गोमायुयन्त्रिताः ॥ १२.१११.४२ ॥

否则,他们以前惯于夺取他人财物;但被那只豺狼控制后,他们竟连一点财物也拿不到了。

12.111.43

व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रविलोभ्यते ।
धनेन महता चैव बुद्धिरस्य विलोभ्यते ॥ १२.१११.४३ ॥

此处,希望叛乱者以故事诱惑他,他的智慧也被巨大的财富所迷惑。

12.111.44

न चापि स महाप्राज्ञस्तस्माद्धैर्याच्चचाल ह ।
अथास्य समयं कृत्वा विनाशाय स्थिताः परे ॥ १२.१११.४४ ॥

然而那位大智者并未因其坚定而动摇。于是其他人与他立约,等待着他的毁灭。

12.111.45

ईप्सितं च मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम् ।
अपनीय स्वयं तद्धि तैर्न्यस्तं तस्य वेश्मनि ॥ १२.१११.४५ ॥

那里烹制的、为兽王所喜爱的肉,他们亲自拿走,放在了他的住所里。

12.111.46

यदर्थं चाप्यपहृतं येन यच्चैव मन्त्रितम् ।
तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम् ॥ १२.१११.४६ ॥

为何而窃、何人所谋,他全都知道;为了那个缘由,他忍受了这一切。

12.111.47

समयोऽयं कृतस्तेन साचिव्यमुपगच्छता ।
नोपघातस्त्वया ग्राह्यो राजन्मैत्रीमिहेच्छता ॥ १२.१११.४७ ॥

担任大臣之职的他立下此约:“王啊,你既然在此愿结友谊,就不可伤害我。”

12.111.48

भोजने चोपहर्तव्ये तन्मांसं न स्म दृश्यते ।
मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्युत ॥ १२.१११.४८ ॥

在应当上菜的时候,那块肉却不见了。兽王下令:“去找窃贼!”

12.111.49

कृतकैश्चापि तन्मांसं मृगेन्द्रायोपवर्णितम् ।
सचिवेनोपनीतं ते विदुषा प्राज्ञमानिना ॥ १२.१११.४९ ॥

那用诡计伪造的肉被向兽王描述,一位自以为博学聪明的大臣把它带到了你面前。

12.111.50

सरोषस्त्वथ शार्दूलः श्रुत्वा गोमायुचापलम् ।
बभूवामर्षितो राजा वधं चास्याभ्यरोचयत् ॥ १२.१११.५० ॥

于是虎王听说豺狼的反复无常,怒火中烧,决定处死它。

12.111.51

छिद्रं तु तस्य तद्दृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः ।
सर्वेषामेव सोऽस्माकं वृत्तिभङ्गेषु वर्तते ॥ १२.१११.५१ ॥

看到他的这个弱点,先前的大臣们说:他正在破坏我们所有人的生计。

12.111.52

इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते ।
श्रुतश्च स्वामिना पूर्वं यादृशो नैष तादृशः ॥ १२.१११.५२ ॥

他的这类行为只因主人的宠爱才得以庇护;主人先前听说,他并不如他所表现的那样。

12.111.53

वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः ।
धर्मच्छद्मा ह्ययं पापो वृथाचारपरिग्रहः ॥ १२.१११.५३ ॥

他只在言语上守法,本性却残酷。这个以法为伪装的恶人,采取了空洞的行为。

12.111.54

मांसापनयनं ज्ञात्वा व्याघ्रस्तेषां तु तद्वचः ।
आज्ञापयामास तदा गोमायुर्वध्यतामिति ॥ १२.१११.५४ ॥

虎得知肉已被拿走,又听了他们的话,便下令处死豺狼。

12.111.55

शार्दूलवचनं श्रुत्वा शार्दूलजननी ततः ।
मृगराजं हितैर्वाक्यैः सम्बोधयितुमागमत् ॥ १२.१११.५५ ॥

老虎的话传到母虎耳中,她便前来以善言劝诫百兽之王狮子。

12.111.56

पुत्र नैतत्त्वया ग्राह्यं कपटारम्भसंवृतम् ।
कर्मसङ्घर्षजैर्दोषैर्दुष्यत्यशुचिभिः शुचिः ॥ १२.१११.५६ ॥

孩子,你不该接受这被欺诈之举所掩盖的东西;清净者也会因由行为冲突所生的过失,被不净之物所污染。

12.111.57

नोच्छ्रितं सहते कश्चित्प्रक्रिया वैरकारिका ।
शुचेरपि हि युक्तस्य दोष एव निपात्यते ॥ १२.१११.५७ ॥

无人容忍高举者;以招致敌意的行事之道,即使清净且贤良之人也会被归咎过失。

12.111.58

लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः ।
मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः ॥ १२.१११.५८ ॥

对贪婪者,清净者为可憎;对怯懦者,勇猛者为可憎;对愚人,智者为可憎;对贫穷者,大富者为可憎。

12.111.59

बहवः पण्डिता लुब्धाः सर्वे मायोपजीविनः ।
कुर्युर्दोषमदोषस्य बृहस्पतिमतेरपि ॥ १२.१११.५९ ॥

许多学者贪婪,皆以诡术谋生;他们甚至可以把过错加在无过者身上,即便其智慧堪比布里哈斯帕蒂。

12.111.60

शून्यात्तच्च गृहान्मांसं यदद्यापहृतं तव ।
नेच्छते दीयमानं च साधु तावद्विमृश्यताम् ॥ १२.१११.६० ॥

你今天从空屋中取走的那块肉,即使给他,他也不想要——请先好好考虑这件事。

12.111.61

असत्याः सत्यसङ्काशाः सत्याश्चासत्यदर्शिनः ।
दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् ॥ १२.१११.६१ ॥

虚假者似真,真实者似虚假;种种表象显现。因此应当审察。

12.111.62

तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव ।
न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः ॥ १२.१११.६२ ॥

天空看似有地面,萤火虫看似祭火;然而天空中并无地面,萤火虫中也没有火。

12.111.63

तस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम् ।
परीक्ष्य ज्ञापयन्ह्यर्थान्न पश्चात्परितप्यते ॥ १२.१११.६३ ॥

因此,即使是亲眼所见之事,也应当审察。审察之后再明辨事理的人,事后不会懊悔。

12.111.64

न दुष्करमिदं पुत्र यत्प्रभुर्घातयेत्परम् ।
श्लाघनीया च वर्या च लोके प्रभवतां क्षमा ॥ १२.१११.६४ ॥

孩子,君主杀害他人并非难事;但在世间,有权势者的宽恕才值得称赞、最为珍贵。

12.111.65

स्थापितोऽयं पुत्र त्वया सामन्तेष्वधि विश्रुतः ।
दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत् ॥ १२.१११.६५ ॥

孩子,你把他安置在诸侯之中,使他声名远扬。合适的人才很难得到,所以应当把他留作你的朋友。

12.111.66

दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम् ।
स्वयं संदूषितामात्यः क्षिप्रमेव विनश्यति ॥ १२.१११.६६ ॥

若将被他人过失所玷污者误认为清白而接纳,又自己败坏了大臣,此人很快便会灭亡。

12.111.67

तस्मादथारिसङ्घाताद्गोमायोः कश्चिदागतः ।
धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम् ॥ १२.१११.६७ ॥

于是,一位心地正直的人从敌众之中来到豺狼身边,告诉他这骗局是如何设下的。

12.111.68

ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः ।
परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः ॥ १२.१११.६८ ॥

随后,其品行得到认可,他受到尊敬并被释放,狮子又一次次深情地拥抱他。

12.111.69

अनुज्ञाप्य मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित् ।
तेनामर्षेण सन्तप्तः प्रायमासितुमैच्छत ॥ १२.१११.६९ ॥

精通政治学的豺狼向狮子告辞,因那愤怒而痛苦,便想坐下绝食至死。

12.111.70

शार्दूलस्तत्र गोमायुं स्नेहात्प्रस्रुतलोचनः ।
अवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन् ॥ १२.१११.७० ॥

老虎在那里因深情而泪流满面,挽留了那位最正直的豺狼,尊敬他,也得到他的回敬。

12.111.71

तं स गोमायुरालोक्य स्नेहादागतसम्भ्रमम् ।
बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा ॥ १२.१११.७१ ॥

他见对方因深情而慌张赶来,便深深俯身,以哽咽的声音说道。

12.111.72

पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः ।
परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि ॥ १२.१११.७२ ॥

你先前尊敬我,后来却羞辱我,把我带到了他人的住所。我已不配再留在你身边。

12.111.73

स्वसन्तुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः ।
स्वयं चोपहृता भृत्या ये चाप्युपहृताः परैः ॥ १२.१११.७३ ॥

自满的仆人,失去位置、被贬低尊严的人,以及自己被他人收买的仆人。

12.111.74

परिक्षीणाश्च लुब्धाश्च क्रूराः काराभितापिताः ।
हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः ॥ १२.१११.७४ ॥

衰弱者、贪婪者、残暴者、被牢狱之苦折磨者、财产被夺者、骄傲者、被抛弃后又收回者,以及怀有巨大贪欲者。

12.111.75

सन्तापिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः ।
अन्तर्हिताः सोपहिताः सर्वे ते परसाधनाः ॥ १२.१११.७५ ॥

那些受苦者、等待灾难洪流者、隐藏者和被收买者——他们都是敌人的工具。

12.111.76

अवमानेन युक्तस्य स्थापितस्य च मे पुनः ।
कथं यास्यसि विश्वासमहमेष्यामि वा पुनः ॥ १२.१११.७६ ॥

我曾受辱又被重新任用,你怎样才能再次信任我?或者我还会再来吗?

12.111.77

समर्थ इति सङ्गृह्य स्थापयित्वा परीक्ष्य च ।
कृतं च समयं भित्त्वा त्वयाहमवमानितः ॥ १२.१११.७७ ॥

你认定我有能力,任用并考验了我,却违背所立的誓约,因而羞辱了我。

12.111.78

प्रथमं यः समाख्यातः शीलवानिति संसदि ।
न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता ॥ १२.१११.७८ ॥

对于先前在会上被宣称为有德者,其过失不应说出——这是守护誓言者所应为。

12.111.79

एवं चावमतस्येह विश्वासं किं प्रयास्यसि ।
त्वयि चैव ह्यविश्वासे ममोद्वेगो भविष्यति ॥ १२.१११.७९ ॥

如此在此受辱,你如何能得到信任?若对你有不信,我心中便会生出烦乱。

12.111.80

शङ्कितस्त्वमहं भीतः परे छिद्रानुदर्शिनः ।
अस्निग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम् ॥ १२.१११.८० ॥

你令人怀疑,我感到恐惧,因为别人专找过错。他们冷淡而难以满足,这种行为充满诡计。

12.111.81

दुःखेन श्लेष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते ।
भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते ॥ १२.१११.८१ ॥

破裂之物难以复合,复合之物又难以再破。断而复合的情谊,并非因恩爱而持久。

12.111.82

कश्चिदेव हि भीतस्तु दृश्यते न परात्मनोः ।
कार्यापेक्षा हि वर्तन्ते भावाः स्निग्धास्तु दुर्लभाः ॥ १२.१११.८२ ॥

实际上只有少数人显得畏惧,无论在他人还是自身之中皆然。情感大多依赖于所为之事;充满情谊的情感则稀少。

12.111.83

सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम् ।
समर्थो वाप्यशक्तो वा शतेष्वेकोऽधिगम्यते ॥ १२.१११.८३ ॥

了解人极为困难,因为人心既摇摆又稳定。无论有能力还是无能力,百人之中只能遇到一个。

12.111.84

अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम् ।
शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात् ॥ १२.१११.८४ ॥

人的行动突然开始,又突然撤回;善与恶,以及伟大,皆由心智的轻率所造成。

12.111.85

एवं बहुविधं सान्त्वमुक्त्वा धर्मार्थहेतुमत् ।
प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात् ॥ १२.१११.८५ ॥

如此,它说了许多基于法与利益的安慰之言,安抚了国王之后,豺狼便走入了森林。

12.111.90

अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान् ।
गोमायुः प्रायमासीनस्त्यक्त्वा देहं दिवं ययौ ॥ १२.१११.९० ॥

它没有接受那兽中之王的劝解,这位明智的豺狼便坐下绝食至死,舍弃身体,升往天界。