摩诃婆罗多 · 章 12.112
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.112.1
किं पार्थिवेन कर्तव्यं किंच कृत्वा सुखी भवेत् ।
तन्ममाचक्ष्व तत्त्वेन सर्वधर्मभृतां वर ॥ १२.११२.१ ॥
国王应当做什么?做了什么才能快乐?持守一切法者中最优秀的人啊,请如实告诉我。
12.112.2
हन्त तेऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम् ।
यथा राज्ञेह कर्तव्यं यच्च कृत्वा सुखी भवेत् ॥ १२.११२.२ ॥
好吧,我将告诉你。专一于行事决心的你,请听:国王在此应当如何行事,做了什么才能快乐。
12.112.3
नचैवं वर्तितव्यं स्म यथेदमनुशुश्रुम् ।
उष्ट्रस्य तु महद्वृत्तं तन्निबोध युधिष्ठिर ॥ १२.११२.३ ॥
不应像我们所听闻的那样行事。般度之子坚战啊,请领会骆驼的伟大行为。
12.112.4
जातिस्मरो महानुष्ट्रः प्रजापतिकुलोद्भवः ।
तपः सुमहदातिष्ठदरण्ये संशितव्रतः ॥ १२.११२.४ ॥
这头大骆驼记得前世,出生于生主之族,在林中修行极大的苦行,坚守誓愿。
12.112.5
तपसस्तस्य चान्तेऽथ प्रीतिमानभवद्विभुः ।
वरेण च्छन्दयामास ततश्चैनं पितामहः ॥ १२.११२.५ ॥
苦行将尽时,那位强大的祖父对他感到满意,便想以恩惠使他欢喜。
12.112.6
भगवंस्त्वत्प्रसादान्मे दीर्घा ग्रीवा भवेदियम् ।
योजनानां शतं साग्रमिच्छेयं चारितुं विभो ॥ १२.११२.६ ॥
尊贵的主啊,愿蒙您恩典,使我这脖子变得长长的。大能者啊,我愿能游行超过一百由旬。
12.112.7
एवमस्विति चोक्तः स वरदेन महात्मना ।
प्रतिलभ्य वरं श्रेष्ठं ययावुष्ट्रः स्वकं वनम् ॥ १२.११२.७ ॥
“就这样吧。”大德的赐予者如此说道。骆驼得到了这个殊胜的恩赐,便回到自己的森林去了。
12.112.8
स चकार तदाऽऽलस्यं वरदानात्सुदुर्मतिः ।
न चैच्छच्चिरतुं गन्तुं दुरात्मा कालमोहितः ॥ १२.११२.८ ॥
因为这恩赐,那极其愚昧的家伙变得懒散。这恶人被时间迷惑,既不愿久留,也不愿离去。
12.112.9
स कदाचित्प्रसार्यैव तां ग्रीवां शतयोजनाम् ।
चचार श्रान्तहृदयो वातश्चागात्ततो महान् ॥ १२.११२.९ ॥
有一次,他伸展着百由旬长的脖子游荡,心中疲倦;这时刮起了大风。
12.112.10
स गुहायां शिरोग्रीवां निधाय पशुरात्मनः ।
आस्ते वर्षमथाभ्यागात्सुमहत्प्लावयज्जगत् ॥ १२.११२.१० ॥
那动物把头和脖子放在一个洞穴里,就停留在那里;这时大雨来袭,开始淹没世界。
12.112.11
अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः ।
सदारस्तां गुहामाशु प्रविवेश जलार्दितः ॥ १२.११२.११ ॥
此时,一只身体被寒冷包围、饥饿疲惫、被水所苦的豺狼,带着它的伴侣迅速进入了那个洞穴。
12.112.12
स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः ।
अभक्षयत्ततो ग्रीवामुष्ट्रस्य भरतर्षभ ॥ १२.११२.१२ ॥
那以肉为食的家伙,饥饿疲惫到了极点,看见了骆驼的脖子,便把它吃掉了,哦,婆罗多族的雄牛。
12.112.13
यदा त्वबुध्यतात्मानं भक्ष्यमाणं स वै पशु ।
तदा संकोचने यत्नमकरोद्भृशदुःखितः ॥ १२.११२.१३ ॥
当这只野兽察觉自己正被吞食时,极度痛苦,便设法将身体缩回。
12.112.14
यावदूर्ध्वमधश्चैव ग्रीवां संक्षिपते पशुः ।
तावत्तेन सदारेण जम्बुकेन स भक्षितः ॥ १२.११२.१४ ॥
当这只野兽上下缩着脖子时,那只豺狼连同它的妻子已将它吞食。
12.112.15
स हत्वा भक्षयित्वा च तमुष्ट्रं जम्बुकस्तदा ।
विगते वातवर्पे तु निश्चक्राम गुहोदरात् ॥ १२.११२.१५ ॥
豺狼杀死并吞食了那头骆驼后,待风雨停息,便从洞穴深处走了出来。
12.112.16
एवं दुर्बुद्धिना प्राप्तमुष्ट्रेण निधनं तदा ।
आलस्यस्य क्रमात्पश्य महान्तं दोषमागतम् ॥ १२.११२.१६ ॥
就这样,那头愚昧的骆驼便丧了命。看哪,懒惰的积累会带来多么大的过错。
12.112.17
त्वमप्येवंविधं हित्वा योगेन नियतेन्द्रियः ।
वर्तस्व बुद्धिमूलं तु विजयं मनुरब्रवीत् ॥ १२.११२.१७ ॥
你也应当舍弃这样的懒惰,以瑜伽约束诸根而行事。摩奴说,胜利根植于智慧。
12.112.18
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥ १२.११२.१८ ॥
婆罗多啊,凭智慧而最优的行动,是在双臂中段完成的;大腿以下的,则在负担上较为低下。
12.112.19
राज्यं तिष्ठति दक्षस्य संगृहीतेन्द्रियस्य च ।
आर्तस्य बुद्धिमूलं हि विजयं मनुरब्रवीत्।
गुप्तं मन्त्रं श्रुतवतः सुसहायस्य चानघ ॥ १२.११२.१९ ॥
有才干且克制感官者的王国得以长存。摩奴说,对于困苦之人,胜利的根本在于智慧。无罪者啊,博学且有良好助手者的谋略得以保密。
12.112.20
असहायवतो ह्यर्था न तिष्ठन्ति कदाचन ।
परीक्षितसहायस्य तिष्ठन्तीह युधिष्ठिर।
सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम् ॥ १२.११२.२० ॥
没有助手的人,事业永不长久。在这里,有经过考验的助手者,事业方能存续。尤提施提若,有助手之人方能统治整个大地。
12.112.21
इदं हि सद्भिः कथितं विधिज्ञैः ।
पुरा महेन्द्रप्रतिमप्रभावः।
मयाऽपि चोक्तं तव शास्त्रदृष्ट्या ।
त्वमप्रमत्तः प्रचरस्व राजन् ॥ १२.११२.२१ ॥
这是从前善人和通晓规则者所说,他们的威力与因陀罗相当。我也依据经典把这话告诉了你。国王啊,你应当谨慎行事。