Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.113

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.113.1

राजा राज्यमनुप्राप्य दुर्बलो भरतर्षभ ।
अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः ॥ १२.११३.१ ॥

婆罗多之雄啊,国王既已得到王国,却软弱而无资财,怎样才能抵挡极其强大的敌人呢?

12.113.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सरितां चैव संवादं सागरस्य च भारत ॥ १२.११३.२ ॥

婆罗多啊,关于此事,人们也讲述这段古老的历史——诸河与大海的对话。

12.113.3

सुरारिनिलयः शश्वत्सागरः सरितां पतिः ।
पप्रच्छ सरितः सर्वाः संशयं जातमात्मनः ॥ १२.११३.३ ॥

诸神之敌的居所、永为诸河之主的大海,因心中生起疑惑,便询问所有河流。

12.113.4

समूलशाखान्पश्यामि निहतान्क्वापि नो द्रुमान् ।
युष्माभिरिह पूर्णाभिरन्यांस्तत्र न वेतसान् ॥ १२.११३.४ ॥

我到处看不到连根带枝被砍倒的树木;你们满载流水而来,可那里的其他芦苇我却见不到。

12.113.5

अ-पकायश्चाल्पसारो वेतसः कूलजश्च यः ।
अज्ञया वा नानीतः किं च वा तेन वः कृतम् ॥ १२.११३.५ ॥

那生于河岸、质地薄弱的芦苇,因无知或未曾被带来……它对你们做了什么呢?

12.113.6

तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम् ।
यथा चेमानि कूलानि हित्वा नायाति वेतसः ॥ १२.११३.६ ॥

因此我想听听你们每一位的意见:这芦苇为何不离开这些河岸而来呢?

12.113.7

तत्र प्राह नदी गङ्गा वाक्यमुत्तरमर्थवत् ।
हेतुमद्ग्राहकं चैव सागरं सरितां पतिम् ॥ १२.११३.७ ॥

那里,恒河对众河之主大海说出了有道理、有依据、令人信服的回答。

12.113.8

गङ्गोवाच ।
तिष्ठन्त्येते यथास्थानं नगा ह्येकनिकेतनाः।
ततस्त्यजन्ति तत्स्थानं प्रातिलोम्यान्न वेतसः ॥ १२.११३.८ ॥

这些树木都留在原处,因为它们只扎根于一处居所;而芦苇违背其本性,便不离开那个地方。

12.113.9

वेतसो वेगमायान्तं दृष्ट्वा नमति नापरे ।
स च वेगे ह्यतिक्रान्ते स्थानमापद्यते पुनः ॥ १२.११३.९ ॥

看见汹涌而来的水流,芦苇便弯下腰,其他树木却不弯;水势过去之后,它又回到原来的位置。

12.113.10

कालज्ञः समयज्ञश्च सदावश्यश्च नो द्रुमः ।
अनुलोमवृत्तितस्तब्धस्तेन त्वां नैति वेतसः ॥ १२.११३.१० ॥

那棵树知晓时机与时运,始终顺从我们;它以顺应水流的行为而稳固,因此芦苇不会到你那里去。

12.113.11

मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च ।
ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् ॥ १२.११३.११ ॥

那些在风与水的冲力下弯下、随后又直立起来的草药、树木与灌木,不会遭遇失败。

12.113.12

यो हि शत्रोर्विवृद्धस्य प्रभोर्बन्धविनाशने ।
पूर्वं न सहते वेगं क्षिप्रमेव विनश्यति ॥ १२.११३.१२ ॥

若有人不能先忍受已壮大的敌人或强大君主打破束缚的冲力,他便会很快灭亡。

12.113.13

सारासारं बलं वीर्यमात्मनो द्विषतश्च यः ।
जानन्विचरति प्राज्ञो न स याति पराभवम् ॥ १२.११३.१३ ॥

智者知晓自身与敌人力量与勇气的精华与虚浮,依此行事,便不会遭受失败。

12.113.14

एवमेव यदा विद्वान्मन्यते विपुलं बलम् ।
संश्रयेद्वैतसीं वृत्तिमेतत्प्रज्ञानलक्षणम् ॥ १२.११३.१४ ॥

同样,智者即使认为自己力量强大,也应当采取如芦苇般柔顺的行为;这正是智慧的标志。