摩诃婆罗多 · 章 12.114
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.114.1
विद्वान्मूढप्रगल्भेन मृदुस्तीक्ष्णेन भारत ।
आक्रुश्यमानः सदसि कथं कुर्यादरिंदम् ॥ १२.११४.१ ॥
婆罗多之后啊,智者在会众中被愚蠢而大胆、温和或粗暴的人辱骂时,应当如何行事,敌人的征服者啊?
12.114.2
श्रूयतां पृथिवीपाल यथैऽषोर्थोऽवगम्यते ।
सदा सचेताः सहते नरस्येहाल्पचेतसः ॥ १२.११४.२ ॥
地上的守护者啊,请听这道理是如何被理解的:时刻警觉的智者,在此忍受心智浅薄之人。
12.114.3
आक्रुश्य दूष्यमाणश्च सुकृतं तस्य विन्दति ।
दुष्कृतं चात्मनो मर्षी तस्मिन्नेव प्रमार्जति ॥ १२.११४.३ ॥
即使被辱骂和责难,他也能获得那人的善业;忍耐的人则把自己的恶业在那人身上洗去。
12.114.4
गर्हितं तमुपेक्षेत वाश्यमानमिवातुरम् ।
लोके विद्वेषमापन्नो निष्फलं प्रतिपद्यते ॥ १२.११४.४ ॥
他应当无视那诽谤者,如同无视病人的话语;在世间陷入憎恨的人,会得到徒劳无功的结果。
12.114.5
इति संश्लाघते नित्यं तेन पापेन कर्मणा ।
इदमुक्तो मया कश्चित्सर्वतो जनसंसदि।
स तत्र व्रीडितः शुष्को मृतकल्पोऽवतिष्ठते ॥ १२.११४.५ ॥
他便常常以那恶行自夸;当我在众人集会中向某人说出此事时,他羞愧地站在那里,枯槁如将死之人。
12.114.6
श्लाघन्नश्लाघनीयेन कर्मणा निरपत्रपः ।
उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः ॥ १२.११४.६ ॥
那厚颜无耻、夸耀不值称赞之行为的人,这样的下等人,应当被自制者无视。
12.114.7
यद्यद्ब्रूयादल्पमतिस्तत्तदस्य सहेत्तदा ॥ १२.११४.७ ॥
无论见识浅薄之人说什么,此时都应忍受。
12.114.8
प्रकृत्या हि प्रशंसन्वा निन्दन्वा किं करिष्यति ।
वने काक इवाबुद्धिर्वाश्यमानो निरर्थकम् ॥ १२.११४.८ ॥
无论他天性是赞扬还是诋毁,又能做什么呢?如同林中的乌鸦,无智之人徒然聒噪。
12.114.9
यदि वाग्भिः प्रयोगः स्यात्प्रयोज्यः पापकर्मणा ।
वागेवार्थो भवेत्तस्य न ह्येवार्थो जिघांसतः ॥ १२.११४.९ ॥
若恶行之人以言语施加伤害,那么他的目的便只是言语;因为想要伤害他人者,本来的目的并非如此。
12.114.10
निषेकं वै परस्यासावाचष्टे वृत्तचेष्टया ।
मयूर इव कौपीनं नृत्यं संदर्शयन्निव ॥ १२.११४.१० ॥
他以自己的行为宣扬他人的污点,好像孔雀展示着遮羞布而跳舞。
12.114.11
यस्यावाच्यं न लोकेऽस्मिन्नाकार्यं चापि किंचन ।
वाचं तेन न संदध्याच्छुचिः संश्लिष्टकर्मणा ॥ १२.११४.११ ॥
对于在此世间无所不可言、无所不可为、行为纠缠不清之人,清净者不应与之搭话。
12.114.12
प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः ।
स मानवः श्ववल्लोके नष्टलोकपरायणः ॥ १२.११४.१२ ॥
当面称赞、背后诽谤的那个人,在世间如同狗一般,以丧失之界为最终归宿。
12.114.13
तादृग्दिनशतं चापि यद्ददाति जुहोति च ।
परोक्षेणापवादेन तं नाशयति तत्क्षणात् ॥ १२.११४.१३ ॥
即使一个人连续百日如此布施、祭祀,若背后诽谤他人,也会在那一刻将其全部毁掉。
12.114.14
तस्मात्प्राज्ञो नरः सद्यस्तादृशं पापचेतसम् ।
वर्जयेन्मतिमान्वर्ज्यं सारमेयामिषं यथा ॥ १२.११४.१४ ॥
因此智者应立即远离这样心怀恶念的人,正如避开狗肉一样。
12.114.15
परिवादं ब्रुवाणो हि दुरात्मा वै महाजने ।
प्रकाशयति दोषान्स्वान्सर्पः फणमिवोन्नतम् ॥ १२.११४.१५ ॥
恶人在众多贤人之中诽谤他人时,就会暴露自己的过失,正如蛇展示竖起的脖颈。
12.114.16
तं स्वकर्मणि कुर्वाणं प्रतिकर्तुं य इच्छति ।
भस्मकूट इवाबुद्धिः खरो रजसि मज्जति ॥ १२.११४.१६ ॥
想要报复那个正在履行自己职责的人,就像愚蠢的驴子跌入灰堆,陷入尘土之中。
12.114.17
मनुष्यसालावृकमप्रशान्तं ।
जनापवादे सततं निविष्टम्।
मातङ्गमुन्मत्तमिवोन्नदन्तं ।
त्यजेत तं श्वानमिवातिरौद्रम् ॥ १२.११४.१७ ॥
若他在人群中如狼一般,心神不宁,始终沉迷于诽谤他人,像发狂的象一样吼叫,就应当像极为凶猛的狗那样舍弃他。
12.114.18
अनार्यजुष्टे पथि वर्तमानं ।
दमादपेतं विनयाच्च पापम्।
अरिव्रतं नित्यमभूतिकामं ।
धिगस्तु तं पापमतिं मनुष्यम् ॥ १२.११४.१८ ॥
那心怀恶念之人,行走在不高尚者所走的道路上,缺乏克制与谦逊,有罪,是誓约的敌人,永远渴望自己的毁灭——对这样的人应当蒙羞。
12.114.19
प्रत्युच्यमानस्त्वथ भूय एव ।
निशाम्य माभूस्त्वमथार्तरूपः।
उच्चस्य नीचेन हि संप्रयोगं ।
विगर्हयन्ति स्थिरबुद्धयो ये ॥ १२.११४.१९ ॥
即使有人再次回应你,听后你也不要现出痛苦的模样。心志坚定的人,责备高贵者与低贱者相交。
12.114.20
क्रुद्धो दशेद्वाऽपि च ताडयेद्वा ।
स पांसुभिर्वा विकिरेत्तुषैर्वा।
विवृत्य दन्तांश्च विभीषयेद्वा ।
सिद्धं हि मूढे कुपिते नृशंसे ॥ १२.११४.२० ॥
他若愤怒,可能咬人或打人,或用尘土覆盖,或撒下糠秕,或露出牙齿来恐吓。对于愚昧、暴怒、残忍的人,这确实是注定的。
12.114.21
विगर्हणां नाऽपि दुरात्मना कृतां ।
सहेत यः संसदि दुर्जनानाम्।
पठेदिदं चापि निदर्शनं सदा ।
न वाङ्भयं स लभति किंचिदप्रियम् ॥ १२.११४.२१ ॥
若有人在会众之中,在恶人之间,忍受恶毒之人的指责,并且常常诵读这个例子,他便不会遭遇任何由言语带来的不快。