Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.115

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.115.1

पितामह महाप्राज्ञ संशयो मे महानयम् ।
संछेत्तव्यस्त्वया राजन्भवान्कुलकरो हि नः ॥ १२.११५.१ ॥

祖父啊,大智者!我的这个大疑惑须由您来解除,国王啊,因为您是我们家族的守护者。

12.115.2

पुरुषाणामयं तात दुर्वृत्तानां दुरात्मनाम् ।
कथितो वाक्यसंचारस्ततो विज्ञापयामि ते ॥ १२.११५.२ ॥

亲爱的,关于那些行为恶劣、心怀邪念之人所说的这番言论,我向您请教。

12.115.3

यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम् ।
अयत्यां च तदात्वे च क्षेमवृद्धिकरं च तत् ॥ १२.११५.३ ॥

请告诉我,对王权体制和家族有益的是什么,什么能带来幸福的兴起,什么能在未来和当下增进安宁。

12.115.4

पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत् ।
अन्नपाने शरीरे च हितं यत्तद्ब्रवीहि मे ॥ १२.११५.४ ॥

请告诉我,什么能使子孙快乐,什么能使国家兴盛,什么对饮食和身体有益。

12.115.5

अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृत ।
समुहृत्समुपेतो वा स कथं रञ्जयेत्प्रजाः ॥ १२.११५.५ ॥

一位已受灌顶、立于王国之中、被朋友环绕并有善友相伴的国王,应当如何使臣民喜悦?

12.115.6

यो ह्यसत्प्रग्रहरतिः स्नेहरागबलात्कृतः ।
इन्द्रियाणामनीशत्वादसज्जनबुभूषकः ॥ १२.११५.६ ॥

那些喜好不正当执取、被情爱与贪著之力所驱使、因不能自制诸根而想侍奉恶人的人——

12.115.7

तस्य भृत्या विमुखतां यान्ति सर्वे कुलोद्गताः ।
न च भृत्यबलैरर्थैः स राजा संप्रयुज्यते ॥ १२.११५.७ ॥

他所有出身良好的仆从都会离他而去,那位国王既不能依靠仆从的力量,也不能依靠财富。

12.115.8

एतन्मे चिन्तयानस्य राजधर्मान्दिवानिशम् ।
बृहस्पतिसमो बुद्ध्या भवाञ्शंसितुमर्हति ॥ १२.११५.८ ॥

对于日夜思考王者之法的我,您智慧如同brihaspati,正适合为我宣说此事。

12.115.9

शासता पुरुषव्याघ्र त्वं नः कुलहिते रतः ।
क्षत्ता चैको महाप्राज्ञो यो नः शंसति सर्वदा ॥ १२.११५.९ ॥

人中之虎啊,您热心于我族的福祉;而那位大智慧的克沙塔(维杜罗)一人,总是为我们进言。

12.115.10

त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम् ।
अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्यहं सुखम् ॥ १२.११५.१० ॥

听您说了这些使家族得福、使王国兴盛的话,我将满足地安然入睡,仿佛饮下了不朽的甘露。

12.115.11

कीदृशाः सन्निकर्षस्था भृत्याः सर्वगुणान्विताः ।
कीदृशैः किं कुलीनैर्वा सह यात्रा विधीयते ॥ १२.११५.११ ॥

身边的仆从应当是怎样的人,具备一切美德?又应当与怎样的贵族一同行事(出行)?

12.115.12

न ह्येको भृत्यरहितो राजा भवति रक्षिता ।
राज्यं चेदं जनः सर्वस्तत्कुलीनः प्रशासति ॥ १२.११५.१२ ॥

没有仆从的孤身国王不能成为保护者;这个王国和所有民众都由出身高贵的人来治理。

12.115.13

न च प्रशास्तुं राज्यं हि शक्यमेकेन भारत ॥ १२.११५.१३ ॥

婆罗多之子啊,单凭一人无法治理国家。

12.115.14

असहायवता तात नैवार्थाः केचिदप्युत ।
लब्धुं लब्धा ह्यपि सदा रक्षितुं भरतर्षभ ॥ १२.११५.१४ ॥

亲爱的孩子,无助之人既不能成就任何目标,即便成就也不能永远守护,婆罗多中的雄牛啊。

12.115.15

यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः ।
हितैषी कुलजः स्निग्धः स राज्यफलमश्नुते ॥ १२.११५.१५ ॥

若其仆从皆精通知识与学问,心怀善意,出身良好,且相亲相爱,此人便能享受王权之果。

12.115.16

मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः ।
नृपतेर्मतिमाप्सन्ते सत्पथज्ञानकोविदाः ॥ १२.११५.१६ ॥

若国王的大臣出身良好、坚定不移、长期相伴,并精通正道之知,他们便能使国王获得明智的判断。

12.115.17

अनागतविधातारः कालज्ञानविशारदाः ।
अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते ॥ १२.११५.१७ ॥

能为未来作好准备、精通time知识、且不为已逝之事悲伤的人,便能享受王权之果。

12.115.18

समदुःखसुखा यस्य सहायाः प्रियकारिणः ।
अर्थचिन्तापराः सभ्याः स राज्यफलमश्नुते ॥ १२.११५.१८ ॥

若其辅佐者同享苦乐,行其所喜,专注于国事,且堪为朝会之臣,此人便能享受王权之果。

12.115.19

यस्य नार्तो जनपदः सन्निकर्षगतः सदा ।
अक्षुद्रः सत्पथालम्बी स राजा राज्यभाग्भवेत् ॥ १२.११५.१९ ॥

那位国王,其国土常在其近旁而不受困苦,不鄙陋而遵循正道,他便能分享王权之果。

12.115.20

कोशोऽक्षपटलं यस्य कोशवृद्धिकरैर्नरैः ।
आप्तैस्तुष्टैश्च पृष्टैश्च धार्यते स नृपोत्तमः ॥ १२.११५.२० ॥

那位国王的库藏与账簿,由增益库藏、可信、知足且经过考察的人掌管,他便是最优秀的国王。

12.115.21

कोष्ठागारमसंहार्यैराप्तैः संचयतत्परैः ।
पात्रभूतैरलुब्धैश्च पाल्यमानं गुणी भवेत् ॥ १२.११५.२१ ॥

那位国王的粮仓由不可收买、可信、专心积蓄、有德且不贪的人守护,他便成为有德之人。

12.115.22

व्यवहारश्च नगरे यस्य धर्मफलोदयः ।
दृश्यते शङ्खलिखितः स धर्मफलभाङ् नृपः ॥ १२.११५.२२ ॥

那位国王,其城中的诉讼依照尸迦与黎基多的规则进行,并可见法之果实升起,他便分享法之果实。

12.115.23

संगृहीतमनुष्यश्च यो राजा राजधर्मवित् ।
षङ्भागं परिगृह्णाति स धर्मफलमश्नुते ॥ १२.११५.२३ ॥

那位聚集民众于己、通晓王法、取六分之一的国王,便享受法之果实。