Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.116

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.116.1

न सन्ति कुलजा यत्र सहायाः पार्थिवस्य तु ।
अकुलीनाश्च कर्तव्या न वा भरतसत्तम् ॥ १२.११६.१ ॥

婆罗多之最啊,若国王身边没有出身高贵的辅佐者,是否应当任用出身低微之人?

12.116.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
निदर्शनं परं लोके सज्जनाचरितं सदा ॥ १२.११६.२ ॥

此处人们也讲述这个古老的故事,它是世间至上的范例,善人始终奉行。

12.116.3

अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने ।
जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः ॥ १२.११६.३ ॥

与此事相符的,是我在苦行林中所闻,那是诸位最上等的仙人讲述的关于甘陀尼之子罗摩的事。

12.116.4

वने महति कस्मिंश्चिदमनुष्यनिषेविते ।
ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः ॥ १२.११६.४ ॥

在一片人迹罕至的大森林中,住着一位以根茎与果实为食的仙人,克己自持,诸根调伏。

12.116.5

दीक्षादमपरिश्रान्तः स्वाध्यायपरमः शुचिः ।
उपवासविशुद्धात्मा सततं सत्पथे स्थितः ॥ १२.११६.५ ॥

他因受戒与克制而疲惫,专心研习吠陀,清净无染,因斋戒而心灵纯净,始终安住于善道。

12.116.6

तस्य संदृश्य सद्भावमुपविष्टस्य धीमतः ।
सर्वे सत्वाः समीपस्था भवन्ति वनचारिणः ॥ १२.११६.६ ॥

众生见这位智者安坐时的善良之心,林中一切游走的生灵都会来到他身边。

12.116.7

सिंहा व्याघ्राः सशरभा मत्ताश्चैव महागजाः ।
द्वीपिनः खङ्गभल्लूका ये चान्ये भीमदर्शनाः ॥ १२.११६.७ ॥

狮子、老虎、沙罗婆、发狂的大象、豹子、犀牛、熊,以及其他外貌可怖的野兽。

12.116.8

ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः ।
तस्यर्षेः शिष्यवच्चैव चित्तज्ञाः प्रियकारिणः ॥ १२.११६.८ ॥

它们都变得会温和地问候安好,虽以血肉为食,却如同那位仙人的弟子一般,懂得他的心意,做他喜欢的事。

12.116.9

उक्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथासुखम् ।
ग्राम्यस्त्वेकः पशुस्तत्र नाजहात्स महामुनिम् ॥ १२.११६.९ ॥

说完问候之后,它们都自在地各自离去;可是那里有一头家畜,始终不肯离开那位大仙人。

12.116.10

भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः ।
फलमूलोत्तराहारः शान्तः शिष्टाकृतिर्यथा ॥ १२.११६.१० ॥

他虔诚而依恋,因长期禁食而消瘦虚弱,以果实和根茎为食,性情平和,有贤者的仪态。

12.116.11

तस्यर्षेरुपविष्टस्य पादमूले महामतेः ।
मनुष्यवद्गतो भावं स्नेहबद्धोऽभवद्भृशम् ॥ १२.११६.११ ॥

它坐在那位大智之仙人脚下,获得了类似人的心性,被深深的情感所牵系。

12.116.12

ततोऽभ्ययान्महारौद्रो द्वीपी क्षतजभोजनः ।
श्वार्थमत्यर्थमुद्धुष्टः क्रूरः कालइवान्तकः ॥ १२.११६.१२ ॥

那头极其凶猛、以血为食的豹子,为了一条狗而大声咆哮,残暴如时间,如同终结者死神,朝他们扑了过来。

12.116.13

लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः ।
व्यादितास्यः क्षुधाः भुग्नः प्रार्थयानस्तदामिषम् ॥ १२.११६.१३ ॥

舔着嘴唇,口渴,忙于甩动尾巴,张大了嘴,被饥饿折磨而蜷缩,渴望那块肉。

12.116.14

दृष्ट्वा तं क्रूरमायान्तं जीवितार्थी नराधिप ।
प्रोवाच श्वा मुनिं तत्र तच्छृणुष्व विशांपते ॥ १२.११६.१४ ॥

看见那残忍者走近,人主啊,想要活命的狗便在那里对仙人说;请听,民之主啊。

12.116.15

श्वशत्रुर्भगवन्नेष द्वीपी मां हन्तुमिच्छति ।
त्वत्प्रसादाद्भयं न स्यादस्मान्मम महामुने।
तथा कुरु महाबाहो सर्वज्ञस्त्वं न संशयः ॥ १२.११६.१५ ॥

尊者,这头豹是狗的仇敌,想要杀我。大仙啊,愿您的恩泽使我不再惧怕它。大臂者啊,请这样做吧;您是全知者,毫无疑问。

12.116.16

स मुनिस्तस्य विज्ञाय भावज्ञो भयकारणम् ।
रुतज्ञः सर्वसत्वानां तमैश्वर्यसमन्वितः ॥ १२.११६.१६ ॥

那位仙人了解他的心意与恐惧的缘由,通晓一切众生的语言,又具足威力,便这样做了。

12.116.17

न भयं द्वीपिनः कार्यं मृत्युतस्ते कथंचन ।
एष श्वरूपरहितो द्वीपी भवसि पुत्रक ॥ १२.११६.१७ ॥

孩子,你不必因豹子而惧怕死亡;脱去狗的形体,你将变成一头豹。

12.116.18

ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृति ।
चित्राङ्गो विस्फुरद्दंष्ट्रो वने वसति निर्भयः ॥ १२.११६.१८ ॥

于是那只狗变成了豹,形体如金,肢体斑斓,獠牙闪亮,如今在森林中无畏地居住。

12.116.19

तं दृष्ट्वा संमुखे द्वीपी आत्मनः सदृशं पशुम् ।
अविरुद्धस्ततस्तस्य क्षणेन समपद्यत ॥ १२.११६.१९ ॥

豹见他迎面而来,便如同自己一般的野兽,毫无敌意,刹那间与他相融。

12.116.20

ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्विः ।
द्वीपिनं लेलिहन्वक्रं व्याघ्रो रुधिरलालसः ॥ १२.११६.२० ॥

于是那极其凶猛、张开大口、饥饿难耐、贪恋鲜血的老虎扑向豹子,舔着它的脸逼近。

12.116.21

व्याघ्रं दृष्ट्वा क्षुधा भुग्नं दंष्ट्रिणं वनचारिणम् ।
द्वीपि जीवितरक्षार्थमृषिं शरणमेयिवान् ॥ १२.११६.२१ ॥

豹见饥饿虚弱、长着獠牙、在林中游荡的老虎,为了保全性命,便去投靠那位仙人。

12.116.22

ततः संवासजं स्नेहमृषिणा कुर्वता तदा ।
स द्वीपी व्याघ्रतां नीतो रिपुभ्यो बलवत्तरः ॥ १२.११६.२२ ॥

当时仙人因共同生活而生的情意相待,那豹便化作老虎,比敌人更加强大。

12.116.23

ततोऽदृष्ट्वा स शार्दूलो नाभ्यघ्नत्तं विशांपते ।
स तु श्चा व्याघ्रतां प्राप्य बलवान्पिशिताशनः ॥ १२.११६.२३ ॥

于是,人主啊,那老虎没有认出他,便没有攻击他。那狗得到老虎的形态,变得强壮而以肉为食。

12.116.24

न मूलफलभोगेषु स्पृहामप्यकरोत्तदा ।
यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः।
तथैव स महाराज व्याघ्रः समभवत्तदा ॥ १२.११६.२४ ॥

那时他连食用根茎和果实的念头也没有了。正如兽王狮子总是渴求林中居民,大王啊,他那时便成了老虎。