Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.118

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.118.1

स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत् ।
ऋषिणा हुंकृतः पापस्तपोवनबहिष्कृतः ॥ १२.११८.१ ॥

那条狗陷入其本性,堕入极度的困苦;被仙人以“吽”声呵斥,这个罪人被逐出苦行林。

12.118.2

एवं राज्ञा मतिमता विदित्वा शीलशौचताम् ।
आर्जवं प्रकृतिं सत्वं श्रुतं वृत्तं कुलं दमम् ॥ १२.११८.२ ॥

如此,明智的国王应当了解品行与清净、正直、本性、德性、学识、操行、家世与克制,然后选用僕从。

12.118.3

अनुक्रोशं बलं वीर्यं प्रभावं प्रशमं क्षमाम् ।
भृत्यायेमन्त्रिणो योग्यास्तत्र स्थाप्याः सुरक्षिताः ॥ १२.११८.३ ॥

具备慈悲、力量、勇武、威势、平静与忍耐的合格大臣,应当在那里任用,并妥善加以保护。

12.118.4

नाषरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति ।
अकुलीननराकीर्णो न राजा सुखमेधते ॥ १२.११८.४ ॥

国王未经考察,不应任用僕从。充斥卑贱之人的国家,国王不能享受安乐。

12.118.5

कुलजः प्राकृतो राजंस्तत्कुलीनतया सदा ।
न पापे कुरुते बुद्धिं निन्द्यमानोऽप्यनागसि ॥ १२.११८.५ ॥

大王啊,出身高贵家族的普通人,因其高贵,即便无辜遭受非议,也从不起心作恶。

12.118.6

अकुलीनस्तु पुरुषः प्राकृतः साधुसंक्षयात् ।
दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत् ॥ १२.११८.६ ॥

然而出身卑贱的平庸之人,因贤良之人衰亡,得到难得的权位,却遭受非议并招致敌对。

12.118.7

काकः श्वानोऽकुलीनश्च बिडालः सर्प एव च ।
अकुलीना च या नारी तुल्यास्ते परिकीर्तिताः ॥ १२.११८.७ ॥

乌鸦、狗、出身低贱的男子、猫和蛇,以及出身低贱的女子——这些都被说成是相同的。

12.118.8

लोकपालाः सदोद्विग्नाः पश्यन्त्यकुलजान्यथा ।
नारीं वा पुरुषं वाऽथ शीलं तत्रापि कारणम् ॥ १२.११८.८ ॥

世界守护者总是忧虑不安;他们也以同样的眼光看待出身低贱的女子或男子,而其中的原因也在于品行。

12.118.9

दुष्कुलीना च या स्त्री स्याद्दुष्कुलीनश्च यः पुम ।
अहिंसाशीलसंयोगाद्धर्मश्चाऽऽकुलतां व्रजेत् ॥ १२.११८.९ ॥

出身低贱的女子或男子,若与不害的品行相结合,连法(达摩)也可能陷入混乱。

12.118.10

धर्मं प्रति महाराज श्लोकानाह बृहस्पतिः ।
शृणु सर्वान्महीपाल हृदि तांश्च करिष्यसि ॥ १२.११८.१० ॥

大王,关于法(达摩),毗诃斯跋提说了这些颂词。地上的守护者啊,请全部听好;你会将它们铭记于心。

12.118.11

असितं सितकर्माणं यथा दान्तं तपस्विनम् ।
वृत्तस्थमपि चण्डालं तं देवा ब्राह्मणं विदुः ॥ १२.११८.११ ॥

即便肤色黝黑,却行善业,自制而苦修,安住于德行之中——即便是旃陀罗,诸神也认他为婆罗门。

12.118.12

यदि घातयते कश्चित्पापसत्वं प्रजाहितः ।
सर्वसत्वहितार्थाय न तेनासौ विहिंसकः ॥ १२.११८.१२ ॥

若有关心民众福祉者,使恶性的生灵被杀,因为是为了一切众生的利益,他便不是伤害者。

12.118.13

द्वीपिनं शरभं सिंहं व्याघ्रं कुञ्जरमेव च ।
महिषं च वराहं च सूकरं श्वानपन्नगान् ॥ १२.११८.१३ ॥

豹、沙罗婆、狮子、老虎、大象、水牛、野猪、猪、狗和蛇。

12.118.14

गोब्राह्मणहितार्थाय बालस्त्रीरक्षणाय च ।
वृद्धातुरपरित्राणे यो हिनस्ति स धर्मवित् ॥ १२.११८.१४ ॥

为了牛与婆罗门的利益、为了保护孩童与妇女、为了救护老人与病人而杀生的人,是知法者。

12.118.15

ब्राह्मणः पापकर्मा च म्लेच्छो वा धार्मिकः शु वः ।
श्रेयांस्तत्र भवेन्म्लेच्छो ब्राह्मणः पापकृत्तमः ॥ १२.११८.१५ ॥

无论是行恶的婆罗门,还是有德的蛮夷,在那里蛮夷更为优秀;行恶的婆罗门才是最大的罪人。

12.118.16

दुष्कुलीनः कुलीनो वा यः कश्चिच्छीलवान्नरः ।
प्रकृतिं तस्य विज्ञाय स्थिरां वा यदि वाऽस्थिराम् ॥ १२.११८.१६ ॥

无论出身低贱还是高贵,凡有德行之人——了解其本性,无论其坚定与否。

12.118.17

शीलं वाऽनुत्तमं कर्म कुर्याद्राजा समाहितः ।
नियुञ्जीत महीपालो दुर्वृत्तं पापकर्मसु ॥ १२.११८.१७ ॥

国王应专心修持最高的德行或最高的行为;护持大地的国王应将行为不端者安置于作恶之事中。

12.118.18

कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम् ।
सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा ॥ १२.११८.१८ ॥

出身高贵、受过教育、有智慧、精通知识与见识、通晓各部经典的真义、能忍耐,并且是本地人——应任用这样的人。

12.118.19

कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम् ।
अलुब्धं लब्धसंतुष्टं स्वामिमित्रबुभूषकम् ॥ १२.११८.१९ ॥

感恩、强壮、忍耐、克己、已战胜诸根、不贪、对所得知足,并希望主君与朋友得到利益。

12.118.20

सचिवं देशकालज्ञं सर्वसंग्रहणे रतम् ।
संस्कृतं युक्तवचनं हितैषिणमतन्द्रितम् ॥ १२.११८.२० ॥

大臣应知晓地点与时机,乐于收集一切,有教养,言辞得当,希望他人得益,并且不知疲倦。

12.118.21

युक्ताचारं स्वविषये संधिविग्रहकोविदम् ।
शस्तं त्रिवर्गवेत्तारं पौरजानपदप्रियम् ॥ १२.११८.२१ ॥

在其领地行为适当,精通和战之道,受人赞扬,通晓三种人生目标,并受城乡民众喜爱。

12.118.22

सेनाव्यूहनतत्त्वज्ञं बलहर्षणकोविदम् ।
इङ्गिताकरातत्त्वज्ञं यात्रासेनाविशारदम् ॥ १२.११८.२२ ॥

通晓布阵之理,善于激发军队的力量与士气,通晓姿态与手势的真义,并精于行军之道。

12.118.23

हस्तिशिक्षाश्वतत्त्वज्ञमहंकारविवर्जितम् ।
प्रगल्भं दक्षिणं दान्तं बलिनं युक्तमन्त्रिणम् ॥ १२.११८.२३ ॥

通晓驯象与良马之理,无骄慢,勇敢,精明,克己,有力,并是善于谋划的大臣。

12.118.24

चौक्षं चौक्षजनाकीर्णं सुवेषं सुखदर्शनम् ।
नायकं नीतिकुशलं गुणैः षङ्भिः समन्वितम् ॥ १२.११८.२४ ॥

纯洁,周围多是清白之人,衣着端正,容貌可喜,善于政事的领袖,具备六种德行。

12.118.25

अस्तब्धं प्रश्रितं श्लक्ष्णं मृदुवादिनमेव च ।
धीरं महर्द्धि च देशकालोपपादकम् ॥ १२.११८.२५ ॥

不傲慢、谦逊、温和、说话柔和、坚毅、大富大贵,并能依据地点与时机行事的人。

12.118.26

सचि यः प्रकुरुते न चैनमवमन्यते ।
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव ॥ १२.११८.२६ ॥

凡尊敬辅臣而不轻慢他们的人,他的王国便会像众星之主月亮的光辉一样扩展。

12.118.27

एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः ।
एष्टव्यो धर्मपरमः प्रजापालनतत्परः ॥ १२.११८.२७ ॥

唯有具备这些德行、精通典籍、至诚奉行法义、一心保护百姓的君王,才值得被选立。

12.118.28

धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित् ।
शुश्रूषुः श्रुतवाञ्श्रोता ऊहापोहविशारदः ॥ १२.११८.२८ ॥

坚毅、忍耐、清净、敏捷,能适时运用人力的人;乐于聆听、博学、善于倾听,精于权衡推论。

12.118.29

मेधावी धारणायुक्तो यथान्यायोपपादकः ।
दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये ॥ १२.११८.२९ ॥

聪慧而记忆力强,依法行事,常自制,言语和悦,逆境中能宽恕。

12.118.30

नातिच्छेत्ता स्वयंकारी श्रद्धालुः सुखदर्शनः ।
आर्तहस्तप्रदो नित्यमाप्तामात्यो नये रतः ॥ १२.११८.३० ॥

不过度惩罚,凭自己的判断行事,有信仰,易于接见,常向困苦者伸出援手,拥有可信赖的大臣,并专心于治国之策。

12.118.31

नाहंवादी ननिर्द्वन्द्वो नयत्किंचनकारकः ।
कृते कर्मण्यमोघानां कर्ता भृत्यजनप्रियः ॥ १२.११८.३१ ॥

他不自负多言,超越对立的二元,凡所当为皆为之;善于完成有成效的事业,为仆从和百姓所爱戴。

12.118.32

संगृहीतजनोऽस्तब्धः प्रसन्नवदनः सदा ।
त्राता भृत्यजनापेक्षी न क्रोधी सुमहामनाः ॥ १२.११८.३२ ॥

他团结民众,谦逊不骄,常常面带笑容;是保护者,关心仆从,不易发怒,胸怀极其宽广。

12.118.33

युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासनः ।
चारनेत्रः प्रजावेक्षी धर्मार्थकुशलः सदा ॥ १२.११८.३३ ॥

他适度施行刑罚,并非不罚;引导法度之事。密探是他的眼睛,他照看百姓,始终精通法与利。

12.118.34

राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत् ।
योधाश्चैव मनुष्येन्द्र सर्वैर्गुणगणैर्वृताः ॥ १२.११८.३४ ॥

君王应具备百种美德,应当寻求这样的人;而武士,人中之王啊,也应具备一切诸般美德。

12.118.35

अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणे ।
न विमानयितव्यास्ते राज्ञा वृद्धिमभीप्सता ॥ १२.११८.३५ ॥

应寻找优秀之人作为辅佐,共同支撑王国;希望国家兴盛的君王,不可轻慢他们。

12.118.36

योधाः समरशौण्डीराः कृतज्ञाः शास्त्रकोविदाः ।
धर्मशास्त्रसमायुक्ताः पदातिजनसंवृताः ॥ १२.११८.३६ ॥

武士应善于征战,知恩图报,通晓典籍,具备法论之学,并有步兵环绕。

12.118.37

अर्थमानविवृद्धाश्च रथचर्याविशारदाः ।
इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही ॥ १२.११८.३७ ॥

此地属于那样的君王:其战士因财富与荣誉而壮大,善于驾驭战车,精通箭术与兵器。

12.118.38

ज्ञातीनामनवज्ञानं भृत्येष्वशठता तथा ।
नैपुणं चार्थचर्यासु यस्यैते तस्य सा मही ॥ १२.११८.३८ ॥

此地属于具备这些品德的君王:不轻慢宗亲,对仆从诚实,善于处理政务。

12.118.39

आलस्यं चैव निद्रा च व्यसनान्यतिहास्यता ।
यस्तैतानि न विद्यन्ते तस्यैव सुचिरं मही ॥ १२.११८.३९ ॥

此地长久属于其身上没有这些的君王:懒惰、昏睡、恶习与过度轻浮。

12.118.40

वृद्धसेवी महोत्साहो वर्णानां चैव रक्षिता ।
धर्मचर्याः सदा यस्य तस्येयं सुचिरं मही ॥ १२.११८.४० ॥

此地长久属于那样的君王:侍奉长者,充满雄心,守护各种姓,并始终奉行正法。

12.118.41

नीतिवर्त्मानुसरणं नित्यमुत्थानमेव च ।
रिपूणामनवज्ञानं तस्येयं सुचिरं मही ॥ १२.११८.४१ ॥

此地长久属于那样的君王:始终遵循治国之道,时刻积极行动,且不轻视敌人。

12.118.42

उत्थानं चैव दैवं च तयोर्नानात्वमेव च ।
मनुना वर्णितं पूर्वं वक्ष्ये शृणु तदेव हि ॥ १२.११८.४२ ॥

努力与命运,以及二者的区别,往昔摩奴已经论述过;我将讲述的正是此事,你听好。

12.118.43

उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत ।
नयानयविधानज्ञः सदा भव कुरूद्वह ॥ १२.११८.४३ ॥

布利哈斯帕蒂宣说了君王应当努力(起)的道理:俱卢中最优秀的人啊,你要永远做一个懂得正确与错误政治之法的人。

12.118.44

दुर्हृदां छिद्रदर्शी यः सुहृदामुपकारवान् ।
विशेषविच्च भृत्यानां स राज्यफलमश्नुते ॥ १२.११८.४४ ॥

能察觉敌人之隙、施恩于朋友、又能分辨仆从差别的人,便享受王权的果实。

12.118.45

सर्वसंग्रहणे युक्तो नृपो भवति यः सदा ।
उत्थानशीलो मन्त्राढ्यः स राजा राजसत्तमः ॥ १२.११८.४५ ॥

若君王常常致力于统摄一切、勤于行动、富有谋略,他便是最优秀的君王。

12.118.46

शक्या चाश्वसहस्रेण वीरारोहेण भारत ।
संगृहीतमनुष्येण कृत्स्ना जेतुं वसुंधरा ॥ १२.११८.४६ ॥

婆罗多的后裔啊,凭借一千匹马、英勇的骑士以及组织严密的士卒,就能征服整个大地。